Monthly Archives: April 2020

बोलीवुड् चलचित्रनटः पगद्मश्री इर्फान् खान् मृतिवशगतो/भवत्।

उत्कृष्टाभिनेता, यः नैकदशाब्दपर्यन्तम् अस्माकं मनोरञ्जनम् अकरोत्, राष्ट्रिय-नाट्य-विद्यालयस्य विद्यार्थी, सर्वेषाञ्च निदेशकानाम् अभीष्टः कलाकारः इरफ़ान् खान् वर्यः मृतिमुपगतः। जठरार्बुदबाधितः स चिकित्सायामासीत्। मुम्बै कोकिल बेन् धीरुभाय् अम्बानि चिकित्सालये अद्य प्रातः आसीत् मृत्युः। स ५३ वयस्कः आसीत्।

२०११ तमे वर्षे पद्मश्री पुरस्कारः, २०१२ तमे वर्षे पान्सिङ् तोमर् इति चलचित्रे अभिनयाय राष्ट्रियपुरस्कारश्च अनेन प्राप्तः। चलचित्राभिनयं विना नाटकेषु धारावाहिनीषु च स स्वकीयां प्रतिभां प्राकटयत्।

वेतनछेदनादेशः उच्चन्यायालयेन अवालम्बितः।

कोच्ची- सर्वकारीयकर्मकराणां वेतनं पञ्चमासावधिकं कणशः छित्वा स्वीकर्तुं दत्तः आदेशः उच्चन्यायालयेन स्थगितः। मासद्वयपर्यन्तमेव स्थगनादेशः। वेतनं कर्मकराणाम् अधिकार एव, तस्य न्यूनीकरणं नियमानुसारं नास्तीति न्यायालयः अवदत्।

वेतनांशं छित्वा दातुं सर्वकारः न पारयति। आर्थिकसमस्यां परिहर्तुं वेतनविलम्बः उपाधिरूपेण नानुमीयते। विपक्षदलीयसंघानाम् आवेदने एव उच्चन्यायालयस्य अयमादेशः।

गुरुतरम् आर्थिकप्रतिसन्धिं तरितुमेव वेतनावग्रहादेशो दत्त इति सर्वकारः न्यायालयम् आवेदयत्। एष वेतननिषेधो नास्ति, ईषद्भागस्य विवम्बनमेवेति सर्वकारस्य वादं निरस्यैव उच्चन्यायालयेन अयमादेशः अवालम्बितः।

വിശുദ്ധ റമളാൻ ആശംസാ : – Sankaranarayanan

വിശുദ്ധ റമളാൻ ആശംസാ :
☪️☪️☪️☪️☪️☪️☪️
I വിശുദ്ധി: റമളാനസ്യ
വ്രതാചാര സ്തനോതു വ:
ഉഭയ: സംയമ: പുണ്യം
രോഗസ്യാസ്യാപി രോധകം

2 ഖുറാന പഠനം ചൈവ
നബീ കർമ്മാനുശീലനം
സർവ്വ സ്രഷ്ടു മഹത്വം ച
പ്രോദ്ഘുഷ്യന്താം ദിനേ ദിനേ

3 ചന്ദ്രാ സ്തമയമാരഭ്യ
യാവത് ചന്ദ്രോദയം നിശി
താവദ്വയം പാലയാമ:
കർക്കശം വ്രതമീദൃശം

4 ദാനസ്യ മഹിമാം നിത്യം
ജ്ഞാത്വാ ദാനം കരോമ്യഹം
സർവ്വലോകസ്യ സൗഖ്യായ
റമളാനോയം സദാസ്തു വ :

അർത്ഥം –
1 വിശുദ്ധ റമളാൻ മാസത്തിൻ്റെ പുണ്യവും വ്രതാചരണവും ആത്മീയവും ഭൗതികവുമായ നിയന്ത്രണത്തോടൊപ്പം ഈ മഹാമാരിക്കെതിരെയുള്ള പ്രതിരോധവുമായി മാറട്ടെ

2 വിശുദ്ധ ഖുറാൻ പാരായണം ചെയ്തും വിശുധ പ്രവാചകൻ്റെ പ്രവൃത്തികളെ പിൻതുടർന്നും സർവ്വ സ്രഷ്ടാവായ അല്ലാഹു വിൻ്റ മഹത്വത്തെ ദിനം തോറും ഉദ്ഘോഷിക്കുവിൻ

3 ചന്ദ്രാസ്തമയം മുതൽ ചന്ദ്രോദയം വരെ നാം കർക്കശമായ വ്രതചര്യയിൽ ഏർപ്പെടും

4 സക്കാത്തിൻ്റെ മഹിമയെ അറിഞ്ഞ് നാം സക്കാത്ത് നടത്തും . ഈ വിശുദ്ധ റമളാൻ സകല ലോകത്തിൻ്റെയും സൗഖ്യത്തിനായി മാറട്ടെ

– ശങ്കർജി കൊടകര

पुस्तकं साधु नामकम् (भागः १२९) – 02-05-2020

EPISODE – 129

नूतना समस्या –

“पुस्तकं साधु नामकम्”

ഒന്നാംസ്ഥാനം

“അജ്ഞാനതിമിരാന്ധത്വം
യേന ലോകേഷു നശ്യതേ
വിജ്ഞാനജ്യോതിഷാ ശക്തം
പുസ്തകം സാധുനാമകം”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १२९) – 02-05-2020

EPISODE – 129

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अधोदत्तेषु भिन्नमेकं चित्वा लिखत। (क) अभिज्ञानशाकुन्तलम्  (ख) किरातार्जुनीयम्  (ग) विक्रमोर्वशीयम्
  2.  किरातार्जुनीयं ——– विरचितं भवति। (क) भारविना  (ख) कालिदासेन (ग) श्रीहर्षेण
  3. किरातार्जुनीये ——- सर्गाः सन्ति । (क) १६  (ख) १७  (ग) १८
  4. किरातार्जुनीयस्य इतिवृत्तं कस्मात् ग्रन्थात् स्वीकृतं भवति ? (क) रामायणात्  (ख) महाभारतात्  (ग) भागवतात्
  5. किरातार्जुनीये किरातः कः? (क) विष्णुः   (ख) शिवः  (ग) ब्रह्मा
  6. शिवः अर्जुनाय ——– दत्तवान्। (क) ब्रह्मास्त्रम्  (ख) पाशुपतास्त्रम्  (ग) नारायणास्त्रम्
  7. “अर्थगौरवम् ”  केन सम्बद्धः भवति ? (क) कालिदासेन  (ख) माघेन  (ग) भारविना
  8. दुर्योधनस्य शासनां ज्ञातुं पाण्डवैः प्रेषितः गूढचरः कः ? (क) अर्जुनः  (ख) वनेचरः  (ग) भीमः  
  9. “नारिकेलफलसमन्वितं वचः ” कस्य ?  (क) भारवेः  (ख) माघस्य  (ग) कालिदासस्य
  10. “हितं मनोहारि च दुर्लभं वचः ” कस्य ? (क) वनेचरस्य  (ख) युधिष्ठिरस्य  (ग) भीमस्य

ഈയാഴ്ചയിലെ വിജയി

KISHORE KRISHRA SEVADAI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • KISHORE KRISHRA SEVADAI
  • LIjina K M
  • Sreesha Vinod

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

प्रतिनिवर्तुमिच्छूनां प्रवासिनां कृते पञ्जीकरणम् आरब्धम्।

तिरुवनन्तपुरम्- कोरोणा विषाणुव्यापनस्य भूमिकायां विदेशेषु संलग्नान् प्रवासीन् तेषामिच्छानुसारं केरलान् प्रापयितुंकेरलीयप्रवासिकार्यसमित्या(नोर्का)पञ्जीकरणमारब्धम्। अन्तर्वत्न्यः कोरोणाभिन्नैः आमयैः पीडिताः अन्ताराष्ट्र-सन्दर्शकावस्थानानुमतेः(विसा) कालपरिधिमतीताः तत्कालीनानुमत्या गत्वा तत्र स्थगिताः इतररीत्या क्लेशमनुभूयमानाश्च प्रामुख्यमर्हन्ति।

प्रथमं पञ्जीकृतानां प्रामुख्यं नास्तीत्यतः सम्मर्दस्यावश्यकता नास्तीती नोर्का रूट्स् अधिकारिभिः निगदितम्।

सर्वकारः पूर्वमेव प्रमुख्यानुसूचिकां प्राकाशयत्। मार्गरेखां च अदात्। तदनुसृत्य सन्दर्शकविसया गत्वा तत्र स्थगितानां प्रथमं प्रामुख्यमस्ति। ततः स्थविराः अन्तर्वत्न्यः रोगपीडिताः इति क्रमेण प्रामुख्यं दीयते।

प्रतिनिविवृक्षवः प्रथमं नोर्का रूट्स् इत्यस्य जालपुटे पञ्जीकरणं नर्वर्तेरन्। अपि च कोविड् रेगं नास्तीति प्रमाणपत्पमपि दद्युः।

आगामिनि अध्ययनवर्षे विद्यालयेषु छात्राणां शिक्षकाणां च कृते मुखावरणम् अवश्यं कारयति।

तिरुवनन्तपुरम्- आगामिनि वर्षे विद्यालयेषु छात्राः अध्यापकाश्च मुखावरणम् अवश्यम् धरेयुः। तथा अवशिष्टपरीक्षासञ्चालनावसरे परीक्षार्थिनः परीक्षकाश्च एनं नियमम् अनुसरेयुः।

एतदर्थं समग्रशिक्षा केरला इति अभियानेन ५० लक्षं मुखावरणानि निर्मीयन्ते। राज्ये ४५ लक्षं छात्राः सार्वजनीनविद्यालयेषु पठन्ति। प्रक्षाल्य अणुविमुक्तं च कृत्वा पुनरुपयोगाय योग्यानि कार्पासवस्त्रनिर्मितानि मुखावरणानि एवं विद्यालयेषु वितरीतुं यतते।

समाने माने विविधेषु वर्णेषु एव कार्पासमुखावरणानि निर्मीयन्ते। मेय्-१५ दिनाङ्काभ्यन्तरे एतानि विद्यालयेषु प्रापणीयानि। एतदर्थं व्ययः गणवस्तवितरणार्थम् आयोजिते शीर्षके समीकर्तुं शक्यते। सामाजिकानां सेवनमपि अत्र यथायोग्यम् उपयोक्तुं शक्यते।

कोविड् प्रतिरोधप्रवर्तनाय अर्थसमाहरणम्- राज्ये सार्वकारीयकर्मकराणां वेतनात् ईषद्भागं स्वीकर्तुम् उद्यमः।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् प्रतिरोधप्रवर्तनाय धनं समाहर्तुं सार्वकारीयकर्मकराणां वेतनं गृहीष्यति। षड्दिवसीयं वेतनं पञ्चसु मासेषु क्रमशः स्वीकर्तुं मन्त्रिमण्डलस्य निर्णयः। यदा आर्थिकस्थितिः भद्रा भवति तदा स्वीकृतं वेतनांशं प्रतिददाति इति व्यवस्था च आयोज्यते। स्वास्थ्यविभागीयानां रक्षिदलीयानां च न कोपि आश्वासः विद्यते, परं प्रतिमासं २०००० रूप्यकेभ्यो न्यूनं वेतनं स्वीकुर्वन्तः कर्मकराः अर्धसमयकर्मकराश्च स्वेच्छया वेतनं दातुं प्रभवन्ति।

कर्मकराणाम् एकमासीयं वेतनं अनेन लभ्यते। मन्त्रिणां सामाजिकानां निगमाध्यक्षाणां च वेतनं त्रिंशत् प्रतिशतमिति रीत्या एकवर्षं यावत् गृहीतुमपि निर्णयः अस्ति।

राज्ये कोविड् व्यापनस्थितिः आशावहा नास्तीति मन्त्रिमण्डले विचारितम्। अतः जनैः जागरूकैः भाव्यमिति उद्घोषणा दत्ता।

एस्.एस्.एल्.सी.,प्लस्-२ परीक्षाः मेय् तृतीये वारे भविता।

तिरुवनन्तपुरम्- अस्मिन् वर्षे एस्.एस्.एल्.सी. परीक्षायां शिष्टविषयाणां परीक्षा मेय् तृतीयवारे सम्पत्स्यते। शिक्षाविभागः अस्याः साध्यतां निरीक्षते। कोविड्रोगव्यापनस्य तीव्रता न्यूना जाता, सप्तसु मण्डलेषु पिधानव्यवस्थायाम् ईषद् आश्वासश्च घोषितः। अस्मिन् सन्दर्भे एव परीक्षाचालनस्य साध्यतां निरीक्षते।

अस्मिन्नन्तरे केवलं केरलीय साहचर्यस्य आनुकूल्येन परीक्षाचालनं न शक्यम्। लक्षद्वीपे मध्यपूर्वीय अरब् राष्ट्रेषु च केरलीयविद्यालयाः सन्ति। तेषां साहचर्यं च अवलोक्य अन्तिमनिर्णयं भविता।

एस्.एस्.एल्.सी. प्लस्-टु परीक्षाः शीघ्रं समायोज्य़ छात्राणाम् उन्नतशिक्षायै अवसरसमायोजनमेव सर्वकारस्य कर्तव्यम्।

द्विलक्षं प्रवासिभारतीयान् सम्पर्कनिरोधे वासयितुं सौविध्यं करिष्यति – मुख्यमन्त्री।

तिरुवनन्तपुरम्- विदेशात् प्रवासिनः प्रत्यानेतुं साहचर्यमस्ति चेत् द्विलक्षं जनान् सम्पर्कनिरोधे वासयितुं व्यवस्था कृता इति मुख्यमन्त्री पिणरायि विजयन् वर्यः। इतोप्यधिरमस्ति चेदपि तान् स्वीकर्तुं तथा सुरक्षितरूपेण वासयितुं पद्धतिः सज्जा भवति इत्यपि वार्ताहरमेलने स अवदत्।

केन्द्रसर्वकारः पृथक् विमानं आयोजयति चेत् स्थविराः, अन्तर्वत्न्यः, कोविडितररोगेभ्यः चिकित्सामिच्छन्तः इत्येतान् प्रथमं प्रत्यानेतुं यतते। प्रवासिनाम् आगमने तान् सम्पर्कनिरोधं कृत्वा अन्ते स्वगृहं प्रापयितुमपि राज्यसर्वकारः सज्जः भवति। प्रवासिसंघटनानां साहाय्यम् अस्मिन् विषये भविष्यति इत्यपि मुख्यमन्त्री अवदत्।