Daily Archives: March 20, 2020

केरलेषु सार्वकारीणकर्मकराणां शनिवासरे विरामः घोषितः।

तिरुवनन्तपुरम्- कोरोणा प्रतिरोधप्रवर्तनानां भागत्वेन सार्वकारीणकार्यालयाः शनिवासरे पिहिताः भविष्यन्ति। अपि च सी.डी. विभागीयाः कर्मकराः विकल्पदिनेषु कार्यालयमागन्तुं प्रभवन्ति। एकस्मिन् कार्यालये सी. विभागे दश कर्मकराः सन्ति चेत् एकस्मिन् दिने पञ्च कर्मकराः अपरस्मिन् दिने शिष्टाः पञ्च कर्मकराश्च कर्मार्थम् आगन्तुं प्रभवन्ति।

अवश्यसेवाविभागे एषः क्रमः न अनुष्ठीयते। तत्रस्थाः अहोरात्रं कर्मनिरताः भवेयुः। वार्तामिमां मुख्यमन्त्री असूचयत्।

राज्ये सर्वाः परीक्षाः व्याक्षिप्ताः।

तिरुवनन्तपुरम्- कोरोणा विषाणुबाधायाः भूमिकायां राज्ये सर्वाः परीक्षाः व्याक्षिप्ताः इति सर्वकारेण व्यजिज्ञपत्। एस्.एस्.एल्.सी. प्लस़्-२, विश्वविद्यालयीयाः परीक्षः एवं व्याक्षिपन्ति इति अद्य मुख्यमन्त्रिणा आयोजिते उच्चतराधिवेशने निर्णयः। इतः परं प्रवर्तमानाः परीक्षाः एव परिवर्तिताः।

नवीन कोरोणाविषाणोः व्यापनसाध्यतां परिकल्प्य सर्वकारेण स्वीकृता जागरूकता एव परिक्षा परिवर्तनस्य हेतुः। अपि च राष्ट्रे सर्वा परीक्षाः परिवर्तनीया इति केन्द्रसर्वकारस्य निर्देशः अप्यासीत्।

अष्टमनवमकक्ष्यायोः अवशिष्टाः परीक्षाः न प्रचलिष्यन्ति। तेषां छात्राणां सत्रद्वयपरीक्षयोः माध्यं स्वीकृत्य कक्ष्यारोहणं भविष्यति।

निर्भया व्यवहारे घातकानाम् उल्लम्भनेन मृत्युदण्डो विहितः।

नवदिल्ली- निर्भयायै नीतिः दत्ता। व्यवहारे/स्मिन् अपराधिनः ह्यस्तने अर्धरात्रपर्यन्तं सर्वोच्चन्यायालयस्य निर्णयं प्रतीक्ष्य अतिष्ठन्। परन्तु मृत्युदण्डाय परिकल्पितेभ्यो मानवाधिकारः न प्रसक्तः इति न्यायालयस्य निर्णयानन्तरम् अद्य प्रातः ५.३० वादने अपराधीनाम् मृत्युदण्डः याथार्थ्यमभवत्। अनेन सार्धसप्तवर्षं यावत् नीत्यै प्रयतितायाः तस्याः मातुः सङ्कल्पः पूर्णतां प्राप।

तिहार् कारागारस्य परिसरे महान् जनसञ्चयः अपराधिनां मृत्युदण्डं प्रतीक्ष्य तिष्छन्नासीत्। दण्डे विहिते ते सर्वे करघोषेण न्यायालयं प्राड्विवाकं च अस्तुवन्। मृत्यगण्डं वारयितुं सर्वेपि प्रयासाः अपराधिनः तेषामभिभाषकाश्च अकुर्वन्। किन्तु नीतेरेव अन्तिमविजयो जातः।