Daily Archives: March 9, 2020

एस्.एस्.एल्.सी.परीक्षायाः श्वः आरम्भः।

तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी. टी.एच्.एस्.एल्.सी, ए.एच्.एस्.एल्.सी. परीक्षाः कुजवासरे आरभते। २९४५ परीक्षाकेन्द्राणि एव एतदर्थं सज्जीकृतानि। सर्वकारीणविद्यालयस्थाः १३८४५७ छात्राः धनादत्तविद्यालयस्थाः २५३५३९ छात्राः निजीयविद्यालयस्थाः ३०४५४ छात्राः च परीक्षार्थिनः सन्ति।

मलप्पुरं शिक्षामण्डले एव अधिकाः छात्राः परीक्षां लिखन्ति। तत्र २६८६९ छात्राः परीक्षां लिखन्ति। आलप्पुषा कुट्टनाट् विद्याभ्यासमण्डले एव न्यूनतमाः छात्राः पञ्जीकृताः सन्ति। तत्र केवलं २१०७ छात्राः एव परीक्षार्थिनः सन्ति।
परीक्षार्थिभ्यो नववाण्याः शुभकामनाः।

कोरोणा विषाणुबाधा, व्याजवार्ताप्रसारितान् त्रीन् विरुध्य व्यवहारः।

तिरुवनन्तपुरम्- कोविड् इति कोरोणा विषाणुबाधायाः पश्चात्तले सामाजिकमाध्यमद्वारा व्याजवार्तां प्रसारितान् राज्ये त्रीन् जनान् विरुध्य व्यवहारः पञ्जीकृतः। एरणाकुलं सेन्ट्रल् आरक्षिकेन्द्रे द्वौ तृशूर् कुन्नंकुलं आरक्षिकेन्द्रे एकः च व्यवहाराः एवं पञ्जीकृताः।

कोरोणा इति विषाणुः नास्ति, सर्वकारः वृथा प्रश्नान् सृजति इति व्याजवार्ताप्रसारितवान् जेकब् वटक्कञ्चेरि इति कश्चन जनः अपराधी इति निर्णीय व्यवहारः स्वीकृतः।