कोरोणा- अमेरिकायां राष्ट्रिय-आपातस्थितिः घोषिता।

वाषिङ्टण्- कोरोणा विषाणुबाधां प्रतिरोद्धुं प्रबलप्रयत्नेन सह अमेरिकाराष्ट्रम्। कोरोणाभीतिमभ्लक्ष्य राष्ट्रे आपातस्थितिः घोषिता। शुक्रवासरे सायं त्रिवादने वैट् हउस् स्थले आयोजिते पत्रकारमेलने राष्ट्राध्यक्षः डोनाल्ट् ट्रम्प् वर्यः आपातस्थितिं घोषितवान्।

कोरोणा प्रतिरोधप्रवर्तनाय तेषां निधेः ५०००० कोटि अमेरिका डोलर् दास्यतीति ट्रम्प् अवदत्। द्रुतप्रवर्तनकेन्द्राणि शीघ्रं स्थापयितुं स सर्वाणि राज्यानि आह्वयत्। इतः परम् अष्टसप्ताहपर्यन्तः कालः निर्णायकः, वयं एनं विषाणुमधिकृत्य पठिष्यामः, तम् अतिजीविष्यामश्चेति ट्रम्प् अवदत्।

अमेरिकायां जनानाम् आवश्यकं परिचरणं लब्धुं विधातान् दूरीकृत्य यतिष्ये इत्यपि ट्रम्प् वर्यः न्यगादीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *