Monthly Archives: March 2020

कोरोणा विषाणुव्यापनम्, सद्यो न विनश्यति- विश्व-स्वास्थ्य-संघटना।

 नवदिल्ली- कोरोणा विषाणोः व्यापने सद्ये न्यूनता न भविष्यतीति विश्व स्वास्थ्य संघटना। कति दिनानि एषा अवस्था अनुवर्तिष्यते इति वक्तुं न श्क्यते, व्यापनं प्रतिरोद्धुं सर्वाणि राष्ट्राणि निर्दिष्टानि इत्यपि संस्था असूचयत्।

     विश्वे इतःपर्यन्तं कोरोणा विषाणुबाधया मृतानां संख्या 38000 अतीता। विषाणुबाधितानां संख्या आविश्वं 789000 जाता। इट्टलीदेशे अद्यावधि कोरोणा विषाणुबाधया 11591 जनाः मृताः। स्पेयिन् राष्ट्रे मृत्युसंख्या 7716 जाता। सोमवासरे स्पेयिन् राष्ट्रे 913 जनाः मृताः। अमेरिकायामपि रोगव्यापनं अतिवेगं प्रसरति।

     जर्मन्याम् उपसप्तसहस्रं भवति मृत्युसंख्या। रोगिणां संख्या 60000 अधिकं भवति। ब्रिट्टने मरणसंख्या 1400 अतीता। भारते 35 जनाः कोविड् बाधया मृताः।

स्वास्थ्यं सर्वत्र वै धनम् (भागः १२५) – 04-04-2020

EPISODE – 125

नूतना समस्या-

“स्वास्थ्यं सर्वत्र वै धनम्”

 

ഒന്നാംസ്ഥാനം

നിരഹങ്കാരചിത്തേന
മനോനിഗ്രഹണേന ച
ഭവിതവ്യമനാസക്ത്യാ
സ്വാസ്ഥ്യം സർവത്ര വൈ ധനം.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM (भागः १२५) – 04-04-2020

EPISODE -125

 

प्रश्नोत्तरम्।

 

 

 

  1. राष्ट्रतन्त्रविषयप्रतिपादकः प्राचीन भारतीयग्रन्थः कः ? (क) निरुक्तशास्तऱम्  (ख) अर्थशाश्त्रम्  (ग) होराशास्त्रम्
  2. केरलराज्यस्य प्रथमः नियममन्त्री कः ? (क) आर् शङ्कर्  (ख) एम् एम् कृष्णः  (ग) वी आर् कृष्णय्यर्
  3. ज्ञानपीठपुरस्कारेण समादृता प्रथमवनिता का ? (क)आशापूर्णादेवी  (ख) वेदवती  (ग) शान्ताकुमारी
  4. भारते सर्वाधिकः वनप्रदेशः कुत्र वर्तते ? (क) केरलराज्ये (ख) मध्यप्रदेशे  (ग) कर्णाटकराज्ये
  5. गौतमबुद्धस्य धर्मग्रन्थाः कस्यां भाषायां रचिताः ? (क) संस्कृतभाषायाम्  (ख) प्राकृतभाषायाम्  (ग) पालीभाषायाम्
  6. भारतस्य देशीयफलं किम् ? (क) आम्रम्  (ख) सेवम् (ग) कदली
  7. शूद्रकस्य ” मृच्छकटिकम् “कस्मिन् विभागे अन्तर्भवति ? (क) नाटके (ख) व्यायोगे  (ग) प्रकरणे
  8. ” पञ्चत्रिंशदुत्तराष्टशताधिकसहस्रम्  ” संख्यां लिखत।(क) १८३४  (ख) १८३५  (ग) १८३६
  9. ” त्र्यशीत्यधिकनवशतसहस्रम्  ” संख्यां लिखत।(क) १९८३  (ख) १९८४  (ग) १९८५
  10. ” वयं बालं मार्गं पृच्छामः”। अस्मिन् वाक्ये प्रधानकर्मं लिखत। (क) वयं  (ख) बालं (ग) मार्गं

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreesha Vinod
  • Adidev C S
  • Lijina K M
  • Krishnagovind S
  • Abhay K B

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

केरले प्रथमं कोविड् मरणम्, कोच्ची मट्टाञ्चेरिदेशीयः मृतः।

कोच्ची- केरले प्रथमं कोविड् मरणम् आवेदितम्। ६९ वयस्कः मट्टाञ्चेरि देशीयः एव मृतः। कलमश्शेरि वैद्यकीयकलालयस्थे चिकित्सालये चिकित्सायां तिष्ठन्नेव स मृतः।

मार्च्- १६ दिनाङ्के दुबाई राष्ट्रात् प्रत्यागतः अयं २२ दिनाङ्के पृथक्करण विभागं नीतः आसीत्। अस्य पत्नी अपि रुग्णा भवति। दुबाई तः आगते विमाने अन्ये ४० यात्रिकाः आसन्। ते सर्वे निरीक्षणे सन्ति।

हृद्रोगेण रक्तसम्मर्देन च चिकित्सायामासीत् परेतः।

कोरोणा विषाणुः, निर्णयार्थम् अतिवेगा रीतिः सज्जा भवति- प्रायोजकः केरलीयगवेषकः।

कोषिक्कोट्- केरलीयगवेषकेण अनावृतां तान्त्रिकविद्यामुपयुज्य कोरोणा विषाणुरोगनिर्णयार्थं अल्पव्यया कापि रीतिः सज्जा अभवत्। गोवा राज्यस्था मल्बयो डयग्नोस्टिक् इति संस्था एव रियल् टैं पोयिन्ट आफ् केयर्-पी.सी.अर् कोविड्-19 परिशोधनासूत्रं बहिरानयति। परीक्षणार्थं कोविड् रोगनिर्णयं कर्तुं भारतीय-वैद्यक-पर्यवेक्षणनिगमस्य अनुमतिः संस्थया प्राप्ता। आगामिनि सप्ताहे अन्तिमानुमतिं लब्स्यते। निर्वीर्यं कृत्वा एव प्रतिमानं स्वीक्रियते इत्यतः स्वास्थ्यकर्मकराणां रोगसंक्रमणरूपा आशङ्का दूरीकर्तुं शक्यते।

     एकहोराभ्यन्तरे परिशोधनफलं लभते इत्यतः नूतना इयं रीतिः रोगप्रतिरोधाय अनुग्रह एव स्यात्। 1500 रूप्यकेभ्य नूनं भवति व्ययः। भारते परिशोधनासौविध्यस्य न्यूनता कोविड्-19 प्रतिरोधे महान् आहवः भविष्यतीति विश्व स्वास्थ्य संस्था अभिप्रैति स्म।

     जनितकपरिशोधनाद्वारा सूक्ष्माणु-विषाणुरोगबाधा निर्णेतुम् आयोजिता साङ्केतिकविद्या भवति पी.सी.आर्.(पोलिमरैस्ड् चेयिन् रियाक्षन्) परिशोधना। एतदर्थं सुविधामायोजयितुं 30 लक्षतः एककोटिपरिमितं व्ययः भवति। परन्तु रियल् टैं पोयिन्ट आफ् केयर् पी.सी.आर् परिशोधनार्थं ट्रूनाट् इति कनिष्ठम् उपकरणं पर्याप्तं भवति।

     केरलेषु ओट्टप्पालं देशीयः डो. चन्द्रशेखरन् भास्करन् नायर् वर्यः एव इमां तान्त्रिकविद्यां विकासितवान्।

१७०००० कोटि रूप्यकाणाम् आचयः। दरिद्रेभ्यः पञ्च किलो परिमितं तण्डुलं गोधूमं वा ददाति।

नवदिल्ली- कोरोणा विषाणोः भूमिकायाम् आर्थिकाघातं वारयितुं १.७० लक्षं कोटिरूप्यकाणाम् आर्थिकसमाचयः केन्द्रिय वित्तमन्त्रिणा निर्मला सीतारामन् वर्यया घोषितः। प्रधानमन्त्री गरीब् कल्याण् योजना इत्याख्यया पद्धत्या एव समाचयः संयोजयति। न कोपि बभुक्षया वसेत् इति पद्धतीम् उद्घुष्य मन्त्री अवदत्।

कोरोणा प्रतिरोधप्रवर्तने निरतानां स्वास्थ्यविभागकर्मकराणां कृते ५० लक्षं रूप्यकाणां बीमायोजना अारभ्स्यते। आशाप्रवर्तकाः, समान्तरवैद्यकीयकर्मकराः, अनुवैद्याः च बीमापरिरक्षायाम् अन्तर्भवन्ति।

प्रधानमन्त्री गरीब् कल्याण् अन्नयोजना पद्धत्यनुसारं ५० कोटि वराकाणां प्रतिपरिवारं ५किलो परिमितं तण्डुलं गोधूमं वा विना शुल्कं प्रदास्यति।अपि च प्रतिपरिवारं एक किलो परिमितं मुद्गमपि वितरिष्यति।

राष्ट्रे सम्पूर्णपिधानम, विषाणुव्यापनं 21 दिनाभ्यन्तरे नियन्त्रणाधीनं स्यात्, अन्यथा वयं 21 वर्षाणि पश्चाद्गमिष्यामः- प्रथानमन्त्री।

नवदिल्ली- राष्ट्रे 21 दिनानि यावत् सम्पूर्णपिधानम् उदघोषयत्। ह्यस्तने रात्रौ अष्टवादने दृश्यमाध्यमद्वारा राष्ट्रम्  अभिसम्बोधयन् प्रथानमन्त्री नरेन्द्रमोदीवर्यः इदमुदघोषयत्। तेनेदमुक्तं यत् 21 दिनाभ्यन्तरे विषाणुव्यापनं नियन्त्रणाधीनं यदि न स्यात् तर्हि राष्ट्रं 21 वर्षं पश्चाद्गमिष्यति इति।

     आगामिनि 21 दिनानि अतीव निर्णायकानि। नागरिकाणां जीवरक्षणार्थमेव एषः निरोधः आयोज्यते। सर्वे स्वकीयेषु गृहेष्वेव तिष्ठन्तु। सामाजिकं दूरीकरणमेव रोगव्यापनं प्रतिरोद्धुम् उपायः। कोरोणा विषाणुबाधितः प्रथमघट्टे रोगलक्षणं न प्रकटयति। तस्मिन् समये तस्मात् रोगव्यापनं भवेच्च। अतः सर्वैः जागरूकैः भाव्यम्। एतदर्थमेव गृहे स्थातुं निरदिशत् इत्यपि स अवोचत्। पिधानसमये अवश्यवस्तूनां वितरणं भविष्यति।

कोविड्-19- केरलेषु सम्पूर्णपिधानं विधास्यति।

तिरुवनन्तपुरम्- केरलराज्ये 14 मण्डलानि पूर्णतया पिधास्यति इति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्।  अद्य अर्धरात्रादारभ्य मार्च मासस्य 31 दिनाङ्कपर्यन्तमेव पिधानं विधास्यति। सारवजनीनयायायातः न भविष्यति, सीमानः सर्वे पिधास्यन्ति। अवश्यवस्तूनां लभाय यतिष्ये इत्यपि मुख्यमन्त्री अवदत्।

     राज्य-परिवहणनिगमस्य सेवा न भविष्यति। निजीय बस् यानानि अपि न भविष्यति। परन्तु  व्यक्तीनां यानानि परिवहणाय अनुमिमीते। औषधापणानि प्रवर्तिष्यन्ते। भोजनशालायाः प्रवर्तनानुमतिः निरुद्धा।

     निरीक्षणे स्थितानां कृते भोजनानि गृहे प्रापयिष्यति। माध्यमप्रवर्तनाय अनुमतिरस्ति परन्तु जागरूकता आवश्यकी। कासरगोड् मण्डले जनानां सञ्चारे नियन्त्रणमायोजितम्। अद्य सायम् आयोजिते पत्रकारमेलने एव मुख्यमन्त्री एवमवदत्।

കോവിഡ് പ്രതിരോധം പ്രതിജ്ഞാഗീതം : ശങ്കരനാരായണൻ കൊടകര

 

നാശയാമഃ കോവിഡം
പാലയാമഃ ഭാരതം
വൈദ്യവര്യദേശനം
പാലയാമഃ സർവ്വദാ

സർവ്വകാര മന്ത്രണം
സർവ്വഥാ ഭജാമഹേ
ദേഹശുദ്ധി ചിത്തശുദ്ധി
സദാസ്തു മന്ത്രമീ ദൃശം

ഹസ്തമന്വഹം വയം
ക്ഷാളയാമഃ സന്തതം
ആനനം സമാവൃതം.
പ്രകല്പയാമഃ ബന്ധുരം

സോദരോSസ്തു ബാന്ധവാഃ
സമീപവാസിരസ്തു വാ
സമീപതഃ സ്ഥിതിര്‍ന്ന ഹി
പ്രകല്പയേ പ്രകല്പയേ

ലോകരക്ഷണം മദീയ –
മന്ത്രമിത്യവൈമ്യഹം
നാശയാമഃ കോവിഡം
രക്ഷയാമഃ  ഭാരതം

हस्तप्रक्षालनं वरम् (भागः १२४) – 28-03-2020

EPISODE – 124

नूतना समस्या –

“हस्तप्रक्षालनं वरम्”

ഒന്നാംസ്ഥാനം

ഇത്ഥം ഭ്രമന്തി സർവേ ചേത്
വ്യർത്ഥം ഭവതി ജീവിതം.
അസ്തം നേയാ കൊറോണാ ചേത്
ഹസ്തപ്രക്ഷാളനം വരം.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”