Monthly Archives: September 2018
PRASNOTHARAM – 15-09-2018
प्रश्नोत्तरम्।
- अध्यापकः ——— पुस्तकानि आनयति। (क) छात्रान् (ख) छात्राः (ग) छात्रेभ्यः
- माता ———– उपाहारम् आनयति । (क) माम् (ख) मह्यम् (ग) मया
- ——- मोदकं रोचते ।स (क) बालकाय (ख) बालकस्य (ग) बालकः
- तस्यै ——- नमः । (क) जनन्यै (ख) जननी (ग) जनन्याः
- त्वं ——– वस्त्राणि क्रीणासि । (क) अस्माभिः (ख) अस्माकम् (ग) अस्मभ्यम्
- जनकः ——— फलानि नयति । (क) पुत्रेभ्यः (ख) पुत्रेषु (ग) पुत्राः
- दुर्योधनः ——— क्रुध्यति । (क) युधिष्ठिराय (ख) युधिष्ठिरे (ग) युधिष्ठिरस्य
- कौरवाः ——— ईर्ष्यन्ति । (क) पाण्डवाः (ख) पाण्डवेभ्यः (ग) पाण्डवैः
- पूतना ————द्रुह्यति । (क) कृष्णाय (ख) कृष्णम् (ग) कृष्णस्य
- चोरः ———– असूयति । (क) सज्जनेभ्यः (ख) सज्जनैः (ग) सज्जनाः
ഈയാഴ്ചയിലെ വിജയി
SHILPA N S
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്:
- SHILPA N S
- Satvik T M
- Archana Mohan D
- Sangeetha
- Ananthu P A
- Basil K B
- Amrutha C J
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
तस्मै श्री गुरवे नमः।
तस्मै श्री गुरवे नमः विजयन् वि. पट्टाम्बि।
गुरुः ब्रह्मेति सङ्कल्पो भारतेषु प्रवर्धते
पुरुषस्यास्य संसृष्टौ गुरुरेव हि शक्तिमान्।
अध्येता ध्यानशीलश्च परिष्कर्ता तथा पुनः
कथाप्राणसमत्वाच्च सो∫ध्यापक इहोच्यते।
हितानुभवदाता स छात्रेभ्यो मार्गदर्शकः
दोषाणां परिहर्ता च समदर्शी सत्यवागपि।
मनसा कर्मणा वाचा छात्राणामुन्नतिं बहु
सततं कांक्षते योगी निस्पृहः सत्यपालकः।
आचार्यो भावनायुक्तः कलाकारश्च सात्विकः
आशयग्रहणे दक्षो वाग्मी च क्षमायुतः।
हारकः छात्रचित्तानां वर्धको मूल्यसंस्कृतेः
चोदकः साधुवृत्तीनां नाशको दुष्टकर्मणः।
पाठ्यांशान् सम्यगासूत्र्य यथाकालं सविस्तरं
छात्रस्तरानुसारञ्च पाठ्यते तेन धीमता।
पठनानुभवांस्तूर्णं मधुरैरनुभवैः समं
समायोज्य यथाकालं सन्ददाति स पण्डितः।
कालिकासु च वृत्तिषु यथाशक्ति यथोचितं
छात्रशक्तिं समायोज्य लोकानुद्धरते गुरुः।
छात्राणां प्रियमित्राणां चित्तपद्मेषु संश्रयन्
कल्पान्तं जीवति प्राज्ञः पितृकल्पो नराग्रणीः।
किं कर्म किमकर्मेति साधुबोधप्रदायिने
उपदेशकवर्याय तस्मै श्री गुरवे नमः।
शिक्षामन्त्रिणः प्रोफ. रवीन्द्रनाथवर्यस्य अभ्यर्थना।
अप्रकीक्षितं तथा विवरणातीतं च प्रकृतिदुरन्तम् अतिजीव्य वयं केरलीयाः पुनरुज्जीवनपथे अस्ति। प्रलये संलग्नान् जनान् रक्षितुं देशः देशस्थाः प्रशासनं च एकीभूय प्रवर्तनं कृतम्। अनेन बहून् जीवान् रक्षितुं वयं प्राभवामः।
प्रलयेन गृहं त्यक्त्वा आश्वासकेन्द्रं शरणं प्राप्तेभ्य जनेभ्यः तादृशकेन्द्राणि स्वभवनानीव सुविधान् अयच्छन्। अपघातसमये केरलीयसमाजस्य ऐक्यं, विश्वमलयाळिसमाजस्य अनुदानं, मानवप्रेमिणाम् ऐक्यदार्ढ्यम् एतत् सर्वं अतिजीवनपथे नूतनमध्यायमभवत्।
प्रलयबाधितेभ्यः साहाय्यार्थं तथा तेषां जीवनपुनारचनायै च मुख्यमन्त्रिणः दुरिताश्वासनिधिं प्रति साहाय्ये अभ्यर्थिते सर्वाभ्यः दिग्भ्यः साहाय्यप्रवाहमेवापश्यत्। परन्तु अस्माकं नष्टं बृहत्तरं भवति। नवकेरलसृष्ट्यर्थं बहुधनमपेक्षितम्। भग्नाः विद्यालयाः सार्वजनीनकार्यालयाः रथ्याः सेतवः गेहाः इत्यादीन् पुनर्निर्मातुं महद्धनमावश्यकम्। वयं ऐकमत्येन तिष्ठामश्चेत् धनसमाहरणम् अनायासं भवेत्।
पुनर्ऩिर्माणाय धनसमाहरणार्थं संघटितः प्रयत्नः सर्वकारेण क्रियते। अस्मिन्नवसरे केरलस्थान् सर्वानपि छात्रान् अस्मिन् कर्मणि भाहभाजिनः भविष्यन्तीति सर्वकारः प्रतीक्षते। छात्राणाम् अनुदानं विद्यालयीयस्तरे सेप्तम्बर् ११ दिनाङ्के सञ्चेतव्यमिति उद्दिश्यते। राज्यस्थेभ्य सर्वेभ्यः विद्यालय़ेभ्यः एवं सञ्चिन्वमानं धनं शिक्षाविभागस्य योगदानरूपेण दातुं शक्यते। अतः सर्वे छात्राः यथाशक्ति धनं दत्वा इमम् उद्यमं विजयपथमानेतु यतन्ताम् इति छात्रान् विद्यालयाधिकारिणः रक्षाकर्तृन् च अभ्यर्थये।
राज्यस्तेषु चतसृषु निजीयवैद्यकलाशालासु प्रवेशस्थगनम् अनुवर्तिष्यते इति सर्वोच्चन्यायालयः।
नवदिल्ली- राज्यस्थेषु चतसृषु निजीय वैद्यकीयकलाशालासु प्रवेशार्थं कल्पितं स्थगनं अनुवर्तिष्यते इति सर्वोच्चन्यायालयः। बुधवासराभ्यन्तरे सर्वाः रेखाः समर्पणीयाः इति न्यायालयः कलालयान् निरदिशत्।
निर्णयः तुरं वक्तव्य इति केरलस्य आवश्यं न्यायालयः नाङ्गीचकार। वैद्यकीयसमितेः आवेदनमेव सर्वोच्चन्यायालयस्य परिगणनायामागतम्।
राज्यस्तेषु चतसृषु निजीयवैद्यकलाशालासु प्रवेशस्थगनम् अनुवर्तिष्यते इति सर्वोच्चन्यायालयः।
नवदिल्ली- राज्यस्थेषु चतसृषु निजीय वैद्यकीयकलाशालासु प्रवेशार्थं कल्पितं स्थगनं अनुवर्तिष्यते इति सर्वोच्चन्यायालयः। बुधवासराभ्यन्तरे सर्वाः रेखाः समर्पणीयाः इति न्यायालयः कलालयान् निरदिशत्।
निर्णयः तुरं वक्तव्यमिति केरलस्य आवश्यं न्यायालयः नाङ्गीचकार। वैद्यकीयसमितेः आवेदनमेव सर्वोच्चन्यायालयस्य परिगणनायामागतम्।
स्ववर्गरतिः अपराधः नास्ति, ऐतिहासिकेन आदेशेन विभाग-३७७ सर्वोच्चन्यायालयेन तिरस्कृतः।
नवदिल्ली- स्ववर्गरतिम् अपराधत्वेन कल्पितः नियमः -ऐ.पी.सी.३७७ ऐतिहासिकविधिना सर्वोच्चन्यायालयेन तिरस्कृतः। जीवनार्थं स्वातन्त्र्यमेव प्रधानमिति निरीक्ष्य़ मुख्यन्यायाधीशस्य दीपक् मिश्रावर्यस्य़ आध्यक्ष्ये पञ्चाङ्गसमितिरेव अयं निर्णयो व्यदधात्। स्ववर्गबन्धः अनुवदनीयः, सर्वाण्यपि पातित्वकल्पनानि नियमविरुद्धानि इति च समित्यङ्गैः ऐककण्ठ्येन निरीक्षितम्। मुख्य़न्यायाधीशेन सह अइ एफ् नरिमान्, ए. एम्. खान्विल्कर्, डी.वै. चन्द्रचूड्, इन्दू मल्होत्रा इत्येतैः न्यायाधीशैः युक्ता विभागसमितिरेव अस्मिन् व्यवहारे वादमशृणोत्।
केनापि स्वकीयव्यक्तित्वात् अपसारयितुं शक्यते, व्यक्तित्वं यत्किमपि प्रकारं भवतु तदङ्गीकर्तुं समाजः सन्नद्ध एव। संविधानानुसारं भन्नलिङ्गानामपि अधिकारः तुल्य एव इति च मुख्यन्यायाधीशः निर्णयप्रस्तावे अवदत्।
२००९ तमे वर्षे दिल्ली उच्चन्यायालयेन स्ववर्गरतिः अपराधो नास्तीति आदेशो दत्तः आसीत्। परन्तु २०१३ तमे वर्षे सर्वोच्चन्यायालये वी.एस् सिङ्ग्वी इति न्यायाधीशः स्ववर्गरतिम् आगस्कारिणीं कल्पितवान्। स एव आदेशः अधुना तिरस्कृतः।
अद्य अध्यापकदिनम्। सुशोभनं भविष्यकालम् उत्पश्यामः।
तिरुवनन्तपुरम्- अद्य सेप्तम्बर् ५ दिनाङकः शिक्षकदिनत्वेन आचर्यते आभारतम्। विशिष्टः अध्यापकः भूतपुर्वः राष्ट्रपतिः तथा विश्वोत्तरः तत्वचिन्तकश्चासीत् डो. सर्वप्पल्ली राधाकृष्णन् वर्यः। तस्य महात्मनः जन्मतिथिरेव वयम् अध्यापकदिनत्वेन आचरामः। बालकानां शिक्षणं प्रशिक्षणं तेषां संवर्धनादिकं च अध्यापकस्य कर्तव्यानि भवन्ति। अनेनैव नूतनां गुणयुक्तां परम्परां संवर्धयितुं शक्यते।
विज्ञानस्याधारेणैव विश्वस्य प्रगतिः। तादृशीं सामाजिकघटनां प्रति विश्वस्य प्रयाणे अध्यापकानां योगदानम् अधिकं वर्तते। किन्तु अध्यापकानां सामान्यावस्था अद्य आशाकरी नास्ति। वृत्यनुरूपं वेतनं न लभ्यते इत्यतः समर्थाः अध्यापनं प्रति प्रायः विभुखतां प्रकटयन्ति। न केवलं ज्ञानेन उत्तमशिक्षको भवितुमर्हति। महाकवेः कालिदासस्य वचने उत्तमः शिक्षकः एवम् –
शिष्टा क्रिया कस्यचिदात्मसंस्ता
संक्रान्तिरन्यस्य विशेषयुक्ता।
यस्योभयं साधु स शिक्षकाणां
धुरि प्रतिष्ठापयितव्य एव।। इति।
अत एव अध्यापनाय अयोग्याः यदि पाठयन्ति तर्हि सा शिक्षा महती न भवति। तमेव सन्देशम् इदमध्यापकदिनं प्रददाति।
अद्ध्यापकाः आदर्शपुरषाः भवेयुरिति डो. राधाकृष्णवर्यस्याभिप्रायः। अतः प्रशिक्षितः कर्तव्यबोधयुक्तः अध्यापनकर्मणि स्निह्यमानश्च जनः विद्यालयेषु पाठयितुम् आगच्छेत् इत्येव अस्मिन् दिवसे अस्माकं सन्देशः।
सर्वेभ्यो अध्यापकदिऩाशंसाः।
उत्तरप्रदेशराज्ये अपि वृष्टिप्रलयः 21 मरणानि, गङ्गा यमुना च कूलङ्कषे अभवताम्।
लक्नौ- उत्तरप्रदेशराज्ये 12 जनपदेषु जलोपप्लवः। महत्या वृष्ट्या जलोपप्लवेन च गतेषु 48 होरासु मृतानां संख्या 21 जाता। अतिघोरया वृष्ट्या गङेगायमुनाप्रभृत्यः नद्यः कूलङ्कषरूपेण प्रवहन्ति।
षहजन्पुर, अमेटी, औरिया जनपदेषु महान् नष्टः सञ्जातः। षहजनपुरे षट् जनाः प्रलये मृताः। प्रलयबाधितप्रदेशेषु राष्ट्रिय-राज्यस्तरीयश्च दुरन्तनिवारणसेनाः रक्षाप्रवर्तनानि कुर्वन्तः वर्तन्ते।
ग्वालियोर् व्योमसेनानिलयादागतानि व्योमयानानि प्रलर्यप्रदेशात् बहून् जनान् जुगुपुः। प्रलये 461 भवनानि भग्नानि इति प्राथमिकं निगमनम्। बहवः ग्रामाः सूचनाविनिमयरहिताः अभवन्। दिवसद्वयपर्यन्तं घोरा वृष्टिर्भविष्यतीति अन्तरिक्षपठनकेन्द्रस्य निगमनम्। मुख्यमन्त्री योगी आदित्यनाथः प्रलयप्रदेशेषु व्योमनिरीक्षणं कृतवान्।
व्याकरणपाठाः – प्रोफ. नारायणन् नम्पूतिरिः।
असंस्कृतमृत्तैलस्य मूल्ये न्यूने अपि तैलेन्धनस्य मूल्यवर्धना अनुवर्तते।
कोच्ची- तैलेन्धनस्य मूल्यवर्धना अनुस्यूतम् अनुवर्तते। कोच्ची नगरे अद्य पेट्रोल् मूल्यं ८१ रूप्यकाणि अतिक्रम्य ८१.१९ अभवत्। डीजल् इन्धनस्य मूल्यमपि ७५ रूप्यकाणाम् उपरि स्थितं वर्तते। नगराद्बहिः एतत् क्रमेण ८२ रूप्यकाणि ७६ रूप्यकाणि च तिष्ठति।
राष्ट्रान्तरविपण्यां तैलेन्धनस्य मूल्यवर्धनेन सह रूप्यकाणां मूल्यपतनमेव एवं मूल्यवर्धनस्य कारणम्।