उत्तरप्रदेशराज्ये अपि वृष्टिप्रलयः 21 मरणानि, गङ्गा यमुना च कूलङ्कषे अभवताम्।

लक्नौ-  उत्तरप्रदेशराज्ये 12 जनपदेषु जलोपप्लवः। महत्या वृष्ट्या जलोपप्लवेन च गतेषु 48 होरासु मृतानां संख्या 21 जाता। अतिघोरया वृष्ट्या गङेगायमुनाप्रभृत्यः नद्यः कूलङ्कषरूपेण प्रवहन्ति।

षहजन्पुर, अमेटी, औरिया जनपदेषु महान् नष्टः सञ्जातः। षहजनपुरे षट् जनाः प्रलये मृताः। प्रलयबाधितप्रदेशेषु राष्ट्रिय-राज्यस्तरीयश्च दुरन्तनिवारणसेनाः रक्षाप्रवर्तनानि कुर्वन्तः वर्तन्ते।

ग्वालियोर् व्योमसेनानिलयादागतानि व्योमयानानि प्रलर्यप्रदेशात् बहून् जनान् जुगुपुः। प्रलये 461 भवनानि भग्नानि इति प्राथमिकं निगमनम्। बहवः ग्रामाः सूचनाविनिमयरहिताः अभवन्। दिवसद्वयपर्यन्तं घोरा वृष्टिर्भविष्यतीति अन्तरिक्षपठनकेन्द्रस्य निगमनम्। मुख्यमन्त्री योगी आदित्यनाथः प्रलयप्रदेशेषु व्योमनिरीक्षणं कृतवान्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *