Monthly Archives: July 2018
ताय्लण्ट् गुहायां रक्षाप्रवर्तनस्य तृतीयघट्टं दौत्यं समारभत। रक्षां प्राप्तानाम् अर्भकाणां स्वास्थ्यावस्था तृप्ता।
बाङ्कोक्- ताय् गुहायामन्तर्भूतेषु शिष्टानां बालकानां रक्षणार्थं तृतीयघट्टं दौत्यं समारभत। चत्वारो बालकाः एकः शिक्षकश्च इतः परमपि रक्षितव्याः सन्ति। एते पञ्च अपि अद्यैव रक्षितुं शक्यते इति चिन्तायामेव दौत्यसङ्घः। रक्षितानां बालकानां स्वास्थ्यावस्था तृप्ता एवेति अधिकृताः असूचयन्।
गुहायां स्थितौ दौ जनौ अधुना तृतीयकक्ष्यायां प्रापितौ इत्यावेदनम्। एतौ सपत्येव बहिरानेतुं शक्यते इति प्रतीक्षते।
गुहामुखात् ७०० मीट्टर् अन्तर्भागे रक्षाप्रवर्तकैः एका युद्धकक्षा सज्जीकृताः। प्राणवायुनालिकाः तरणवसनानि भोजनानि औषधानि च इत एव बालकेभ्य प्रापयति। तृतीयकक्षा सुरक्षितस्थानं भवति। दिनद्वयं यावत् वृष्टिर्नास्तीत्यतः रक्षाप्रवर्तनानि सुकराणि जातानि। वातावरणस्य प्रातिकूल्यं आशङ्कामुत्पादयति। तथापि शिष्टान् जनान् रक्षितुं शक्यते इति प्रवर्तकानां विश्वासः। जलसञ्चयं निष्कासयितुं संविधानानि शक्तानि कृतानि।
२०१४ आरभ्य राष्ट्रं कुमार्गे चलति, भारतस्य पश्चाद्गतिः रोद्धव्या।- अमर्त्या सेन्।
नवदिल्ली- २०१४तः राष्ट्रं दुष्टे पथि चरति। अनेन दक्षिणेष्यायाः दुष्टतमेषु राष्ट्रेषु द्वितीयस्थानमस्ति भारतस्य इति प्रसिद्धः आर्थिकशास्त्रज्ञः अमर्त्या सेन् वर्यः अभिप्रैति। अमर्त्या सेन् तथा षाङ् देस्से च संयुक्ततया लिखितस्य “भारतं तस्य वैरुध्यता च “(India and its contridictions)इति ग्रन्थस्य चर्चायामेव नोबल्पुरस्कारजेता अमर्त्या सेन् स्वकीयमभिप्रायं प्राकटयत्।
कार्याणि दुष्टरीत्या एव चलति। पूर्वस्मिन् काले केवलं स्वास्थ्य-शिक्षारङ्गयोः पर्याप्तां परिगणनां सर्वकाराः न ददुः। परन्तु २०१४तः पूर्णतया अनुचिते दिशि एव भारतस्य गतिऱस्ति।
२० वर्षेभ्यः पूर्वं दक्षिणेष्यायाः षट्सु राष्ट्रेषु भारतं द्वितीयमासीत्। परन्तु अद्य पाकिस्तानस्यापि पश्चात् अतितरां दुष्टामवस्थामन्ववाप।
विश्वे द्रुतं प्रवर्धमाना आर्थिकव्यवस्था एव भारतस्यास्ति। तथापि भारतस्य पश्चाद्गमनं प्रति तस्य वैरुध्यमेव स सूचयति स्म। जातिव्यवस्था असमत्वं दलितसमस्याः इत्येतेषु विषयेषु सर्वकारः पराङ्मुखो भवति। विपक्षाणामैक्यम् अनिवार्यमेव, तत्तु व्यक्तीनां मिथः युद्धरूपेण न द्रष्टव्य इत्यपि अमर्त्या सेन् अब्रवीत्।
छात्रान् सहचरान् कुर्वता विद्यया सह भगवान् त्रिशिवपुरे।
तृप्रयार्- कस्यचन तन्तुवायस्य पुत्रः एकस्यः परम्परायाः जीवनवयने प्रशिक्षणं करोति। तमिल् नाटु तिरुवल्लूर् जनपदे वेलिगरं सर्वकारीय उच्चविद्यालये आङ्गलभाषाध्यापकः गोविन्द भगवान् एटमुट्टं श्रीनारायणमण्डपे शतमितां छात्राणाम् आत्मविश्वासं द्रढयितुम् आगतवान्।
समीपकाले कस्यचन अध्यापकस्य विद्यालयपरिवर्तनं राष्ट्रियश्रद्धामाचकर्ष। स अध्यापकः भवति श्री गोविन्द भगवान्। आलिङ्गनेन आक्रन्दनेन च साकं वेलिगर विद्यालयस्थाः छात्राः भगवान् वर्यं प्रतिरुरुधुः। रक्षाकर्तारः अपि छात्रैः साकमतिष्ठन्। कुतः अस्मिन्नध्यापके छात्राः एवं स्निह्यन्ति इति द्विहोरावधिकेन समयेन अवागच्छन्।
छात्राः विद्यालयं शिक्षकान् च सुहृत् रूपेण पश्यन्तु इति भगवान् छात्रानबोधयत्। अध्यापकाः अपि तथा एव भवेयुः। न केवलं पाठपुस्तकस्थान् पाठान् अपि तु छात्राणां समग्रासु मेखलासु अध्यापकाः यथार्थगुरवः भवेयुः। प्रश्नानां प्रतिवचनं हर्षारवेण सह छात्राः अङ्गीकृतवन्तः। विद्यालये कनिष्ठः अध्यापकः भवति भगवान्। तथापि छात्राः सहप्रवर्तकाः रक्षाकर्तारश्च तं स्नेहेन परिगणयन्ति।
क्षमा हि परमायुधम् – 14-07-2018
नूतना समस्या –
“क्षमा हि परमायुधम्”
ഒന്നാംസ്ഥാനം
क्षत्रियस्य क्षमा दोषः
ऋषीणां तु क्षमा गुणः।
मानवानां क्षमा शक्तिः
क्षमा हि परमायुधम्।।
Ambika Narayanan
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM – 14-07-2018
प्रश्नोत्तरम्।
- वन्दे वात्मीकि कोकिलम्। अत्र कर्तृपदं किम् ? (क) अहं (ख) त्वम् (ग) सः
- आत्मैवात्मनो ——– आत्मैव रिपुरात्मनः ।(क) शत्रुः (ख) मित्रम् (ग) बन्धुः
- मक्षिकानाम् अभावः इत्यस्य समस्तपदं किम् ? (क) निर्गतमक्षिकाः (ख) निर्मक्षिकम् (ग) मक्षिकाभावः
- आनन्दवर्धनेन स्थापितः सिद्धान्तः कः ? (क) रसः (ख) ध्वनिः (ग) रीतिः
- कानिदासस्य खण्डकाव्ययोः मध्ये एकः भवति ——-। (क) बुद्धचरितम् (ख) ऋृतुसंहारः (ग) कादम्बरी
- केरलराज्यस्य नूतन मुख्यकार्यदर्शी (Chief Secretary) कः ? (क) टोम् जोस् (ख) नलिनी नेटो (ग) पोळ् आन्टणी
- शिक्षा, कल्पः , छन्दः , व्याकरणम् , ज्वोतिषम् , ————, च वेदाङ्गानि । (क) सामवेदः (ख) निरुक्तम् (ग) मीमांसा
- प्रस्थानत्रयस्य भाष्यकारः कः ? (क) श्री शङ्कराचार्यः (ख) श्रीनारायणगुरुः (ग) स्वामी विवेकानन्दः
- पञ्चमहाकाव्यानाम् व्यख्याता कः ? (क) भारविः (ख) माघः (ग) मल्लीनाथः
- कल्हणस्य ऐतिहासिकग्रन्थः कः ? (क) राजतरङ्गिणी (ख) शाकुन्तलम् (ग) विक्रमाङ्कदेवचरितम्
ഈയാഴ്ചയിലെ വിജയി
RAMJYOTHIS
“അഭിനന്ദനങ്ങള്”
10ശരിയുത്തരങ്ങള് അയച്ചവര്:
- Ramjyothis
- Rajalakshmi A
- Remadevi A
- Dawn Jose
- Adidev C S
- Bibin Mathews
- Rohini P G
- Jyothi Illikkal
- Adwaith C S
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
निपा विषाणुप्रतिरोधः केरलस्य विश्वस्तरीयः समादरः।
बाल्टिमोर्- केरलमुख्यमन्त्रिणं पिणरायिविजयवर्यम् अमेरिक्कायां बाल्टिमोरस्थः मानवविषाणुपठनसंस्था (Institute of Human Virology) बह्वमन्यत। निपा विषाणुबाधायाः प्रतिरोधार्थं केरलसर्वकारस्य फलप्रदम् उद्यमं पुरस्कृत्यैव एष समादरः। ऐ.एच्.वी. संस्थायाः स्थापकः तथा वैद्यशास्त्रगवेषकः डो. रोबर्ट गेलो मुख्यमन्त्रिणे उपहारं समार्पयत्। एय्ड्स् रोगस्य कारणभूतस्य एच.ऐ.वी. विषाणोः प्रवर्तनम् अनावृते शास्त्रसंघे प्रमुखो भवति डो. गेलो। स्वास्थ्यमन्त्री के.के. शैलजावर्यापि कार्यक्रमे भागमभजत।
स्वास्थ्यरङगे केरलेन अन्ताराष्ट्रतले लभ्यमानः उन्नता बहुमतिरेवेयम्। १९९६ तमे वर्षे स्थापिता संस्था इदं प्रथमतया कंचन सामाजिकं बहुमनुते। निपा प्रतिरोधार्थं केरलसर्वकारेण स्वीकृतम् बहुमुखम् उद्यमं विशकलय्य एव ऐ.एच्.वी. संस्था मुख्यमन्त्रिणम् आमन्त्रयितुं निरणयत्। विश्वप्रशस्तानां शास्त्रज्ञानां प्रवर्तनकेन्द्रं भवति मानव विषाणुपठनसंस्था।
आराधनालयमधिकृत्य आक्षेपे विश्वासिनः जनपदप्राड्विवाकमम् उपगच्छेयुः – सर्वोच्चन्यायालयः।
नवदिल्ली- आराधनालयेषु दुराचारः अवमाननं प्रभृतिषु आक्षेपेषु जनपदप्राड्विवाकम् उपगन्तुं भक्तानाम् अधिकारः अस्तीति सर्वोच्चन्यायालयः। धर्मः को/पि भवतु, तत्र आराधनालयानां भरणं प्रचालनं शुचित्वं धर्म्यसंरक्षणं वस्त्रसम्बन्धिनः आचाराः इत्यादिषु विषयेषु आक्षेपःअस्ति चेत् जनपदप्राड्विवाकम् आवेदयितुं शक्यते। प्राड्विवाकः आवेदनमधिकृत्य अन्वेषणं कृत्वा उच्चन्यायालयम् आवेदयति। उच्चन्यायालयः एतत् सामान्यतात्पर्यरूपेण परिगणय्य आदेशं दद्यात् इति न्यायाधिपौ ए.के. गोयल् अब्दुल् बषीर् इत्येतयोः संवेशनम् आदेशमदात्।
ओडीषायां पुरी जगन्नाथमन्दिरे धर्म-जातिपरिगणनां विना सर्वेषां विश्वासिनां प्रवेशानुमतिं दत्वा सूचिते विधिनिर्णये एवायं निर्देशः।
अभिमन्युहत्यायाम् आतङ्कवादबन्धः, एन्.ऐ.ए. अन्वेषणमारभत।
कोच्ची- एरणाकुलं महाराजकलालयछात्रस्य अभिमन्योः हत्यायाः पश्चात्तले तीव्रवादिनां सान्निध्यमस्तीति आरक्षिदलस्य निगमनम्। अस्मिन् व्यवहारे अन्तर्भूतानामुपरि राष्ट्रविरुद्धप्रवर्तन-निरोधन-नियमस्य(यू.ए.पी.ए.)आधारेण अपराधपत्रं दातुं आरक्षिदलनिदेशकः नियमोपदेशं प्रार्थयत। अस्मिन् हत्यायां तीव्रवादबन्धमालक्ष्य एन.ऐ.ए. अपि अन्वेषणम् आरभत।
केच्चीदेशमागतः आरक्षिदलनिदेशकः लोकनाथबेह्रा वर्यः गृहीतान् पर्यपृच्छत्। अन्वेषणसङ्घेन सह स चर्चामपि अकरोत्। अभिमन्योः हत्या आसूत्रिता एवेति रक्षिदलस्य निगमनम्।
ताय्लेण्ट् देशे गुहामोचनाय विलम्बः स्यात्। अतिजीवनार्थं १२ छात्राः प्रशिक्षकश्च।
बाङ्कोक्- ताय्लेण्ट् राष्ट्रे गुहायां अन्तर्भूय दशमे दिने सजीवशेषं दृष्टान् १२ बालकान् प्रशिक्षकं च त्रातुं मासान् यावत् कालविलम्भः स्यात्। गुहायां जलोपप्लवकारणात् ते महाशिलायाम् अभयं प्राप्ताः। नूतनं रक्षाप्रवर्तनरीतिम् अवलम्भ्यैव तान् बहिरानेतुं शक्यते। एवं चेत् चतुर्मासावधि तेषां कृते भाजनपानीयादीनि प्रापणीयानि भवन्ति।
जलोपप्लवेन जलान्तर्भागतरणं तान् परिशीलनीयम्। तर्ह्येव तान् बहिरानेतुं शक्यते। अन्यथा जलनिम्नतापर्यन्तं प्रतिपालनीयम्। प्रथममार्गं स्वीकर्तुं पर्याप्तं स्वास्थ्यं छात्राणां नास्ति।
निपा विषाणोः प्रभवस्थानं फलादचर्मखगः इति स्थिरीकृतम्।
तिरुवनन्तपुरम्-निपा विषाणोः प्रभवः फलभोजी चर्मखगः इति स्थिरीकृतम्। ऐ.सी.एम्.आर्. परीक्षणे एवेदं कार्यम् अवगतम्। केन्द्र स्वास्थ्यमन्त्री जे.पी. नद्दावर्यः कार्यमेतत् स्थिरीकृतवान्। एकस्य राष्ट्रिय वार्तामाध्यमस्य कृते दत्ते अभिमुखे तानेदं स्थिरीकृतम्। पूर्वं षट्पदादचर्मखगेषु कृते परीक्षणे निपा विषाणोः सान्निध्यं न दृष्टमासीत्। पुनः निपाबाधितानां गृहसमीपात् गृहीतेषु फलादचर्मखगेषु कृते परीक्षणे एव प्रभवस्थानं स्थिरीकृतम्।