अभिमन्युहत्यायाम् आतङ्कवादबन्धः, एन्.ऐ.ए. अन्वेषणमारभत।

कोच्ची- एरणाकुलं महाराजकलालयछात्रस्य अभिमन्योः हत्यायाः पश्चात्तले तीव्रवादिनां सान्निध्यमस्तीति आरक्षिदलस्य निगमनम्। अस्मिन् व्यवहारे अन्तर्भूतानामुपरि राष्ट्रविरुद्धप्रवर्तन-निरोधन-नियमस्य(यू.ए.पी.ए.)आधारेण अपराधपत्रं दातुं आरक्षिदलनिदेशकः नियमोपदेशं प्रार्थयत। अस्मिन् हत्यायां तीव्रवादबन्धमालक्ष्य एन.ऐ.ए. अपि अन्वेषणम् आरभत।

     केच्चीदेशमागतः आरक्षिदलनिदेशकः लोकनाथबेह्रा वर्यः गृहीतान् पर्यपृच्छत्। अन्वेषणसङ्घेन सह स चर्चामपि अकरोत्। अभिमन्योः हत्या आसूत्रिता एवेति रक्षिदलस्य निगमनम्।

Leave a Reply

Your email address will not be published. Required fields are marked *