Monthly Archives: June 2018
परीक्षणोड्डयने विमानं भूमौ पतितम्।
परीक्षणोड्डयने विमानं भूमौ पतितम्। स्वजीवत्यागेन दुरन्तमपाकर्तुं प्रयतितायाः वनिता चालिकायाः आश्रुपूरिता अन्त्याञ्जलिः।
मुम्बै – परीक्षणोड्डयने विमानम् अग्निगोलसृशं भूमावपतत्। मुम्बै महानगरं प्रकम्पितस्य विमानापघातस्य सततदृश्यानि लब्धानि। भग्नस्य प्रासादस्य समीपस्थे गृहे संस्थिते सी.सी.टी.वी. दृश्ये एव अग्निगोलरूपेण पतितस्य विमानस्य दृश्यं वर्तते। विमानस्थायाः वनिताचालिकायाः प्रत्युत्पन्नमतिरेव महादुरन्तमपाकरोत् इति भूतपूर्व व्योमयानमन्त्री प्रफुल् पट्टेल् वर्यः ट्विट्टर् द्वारा सूचयामास।
स्वजीवं तृणवद्गण्यैव सा चालिका विमानं जनसम्मर्दरहिते स्थले अपातयत्। तस्यै स अभिवाद्यमार्पयत्। मृतानां पारिवारिकान् प्रत्यपि स अन्वशोचत्।
गुरुवासरे मध्याह्ने सार्धैकवादने आसीदपघातः। परीक्षणोड्डयनस्य भागत्वेन जुहु तः प्रस्थितं द्वादशासन्दयुक्तं विमानमेव अपघाते पतितम्। मुम्बै अन्ताराष्ट्रविमानपत्तने आसीत् निश्चितम् उत्तारणम्। परन्तु ततः पूर्वं विमानं भग्नमभवत्। समीपदेशे निर्मीयमानस्य प्रासादस्य भित्तिकायां घट्टनेन विमानम् उत्तारितम्, अग्निशमनसेनायाः आगमनात् पूर्वं विमानम् अग्निसादभवत्।
विश्वविद्यालयानुदानायोगः उत्सार्यते, तत्स्थाने उन्नत शिक्षा आयोगः।
नवदिल्ली- विश्वविद्यालयानुदानायोगम्(यू.जी.सी.)उत्सारयितुं केन्द्रसर्वकारस्य निर्णयः। तत्स्थाने उन्नत शिक्षा आयोगः रूपवत्करोति। आयोगे/स्मिन् १४ अङ्गानि भविष्यन्ति। नियमनिर्माणार्थं निर्देशान् समर्पयितुं जूलै ७ पर्यन्तम् अधिकारः वर्तते। गते मेय् मासे यू.जी.सी तथा ए.ऐ.सी.टी.ई. इति संस्थाद्वयोः स्थाने नूतनम् अभिकर्तारम् आयोजयितुं केन्द्रसर्वकारेण निर्णीतमासीत्। उच्चतर शिक्षा प्रबलीकरण व्यवस्थापन अभिकर्ता (Higher Education Empowerment Regulation Agency)अथवा हीरा(HEERA) इति नूतनं नाम स्यात् इत्यावेदनम्।
मानव-विभवशेषीविभागः नीती आयोगश्च संयुक्ततया नियमस्यास्य प्रारूपं व्यवस्थापयतः।
केरलेषु पलास्तिकवस्तूनां सम्पूर्णनिरोधः। नियमलङ्घने सप्तलक्षरूप्यकाणि कारावासश्च दण्डः।
तृशूर् – सम्पूर्ण पलास्तिकनिरोधस्य भागत्वेन प्रथमघट्टे सञ्चार-स्वास्थ्यमेखलाभ्यः कूपीजलस्योपयोगं निरोद्धुं राज्यसर्वकारः निरणयत्। षण्मासाभ्यन्तरे ५०० तल्पादधिकयुक्तेभ्यः चिकित्सालयेभ्यः अतिसौविध्यभोजनालयेभ्यः शय्यागृहेभ्यः नौकागृहेभ्यश्च कूपीजलं निष्कासयितुं राज्य मलिनीकरण-नियन्त्रण-संस्थायाः निर्णयः।
जूण् तः षण्मासावधिरेव कूपीजलं निष्कासयितुं समयः दत्तः। पलास्तिकपात्रस्य स्थाने स्फाटिकं पात्रमुपयोक्तुं तथा सुरक्षितपेयजललाभार्थं जलशुद्धीकरणयत्रं स्थापयितुं च निर्देशः दत्तः।
मलिनीकरणनियन्त्रणसंस्थानस्य जनपदीयकार्यालयद्वारा एतत्सम्बन्धि परिपत्रम् अचिरेण दीयते। पञ्चलक्षतः सप्तलक्षपर्यन्तं रूप्यकाणां दण्डः तथा कारादण्डश्च नियमलङ्धकेभ्यः दीयते।
Std – 9
षष्ठः पाठः – श्लाघ्यं कलापैतृकम्।
चतुर्थः पाठः क्रियावान् पुरुषो विद्वान्।
तृतीयः पाठः – माकन्दमञ्जरी।
केरल संस्कृताध्यापकफेडरेषन् राज्यस्तरीयवनितामेलनम्-मातृकम् २०१८ कालटी ब्रह्मानन्दोदयं विद्यालये।
कालटी- वनिताप्रबलीकरणस्य कालिकप्राधान्यमवबोधयितुं केरल संस्कृताध्यापक फेडरेशन् इति संघेन मातृकं २०१८ नाम्ना संस्कृताध्यापिकानां संगमम् आयोज्यते। आदिशङ्करस्य जन्मभूमौ कालटिदेशे २०१८ जूलै १४ दिनाङ्के अधिवेशनमिदम् आयोक्ष्यते। कालटी ब्रह्मानन्दोदयम् उच्चतरविद्यालयम् अस्य सङ्गमस्य वेदिका भविता।
केरल वनिता आयोगस्य अध्यक्षा श्रीमती एं.सी. जोसफैन् वर्या अधिवेशनस्यास्य उद्घाटनं निर्वक्ष्यति। सामाजिक-राजनैतिक-सांस्कृतिकमण्डलेषु प्रमुखाः भागभाजः भविष्यन्ति। कालटी श्रीरामकृष्ण अद्वैताश्रमस्य अध्यक्षः स्वामी श्रीमत् श्रीविद्यानन्दः अनुग्रहभाषणं विधास्यति।
अधिनिवेशस्य भागत्वेन वनिता प्रबलीकरणस्य कालिकी प्रसक्तिः इति विषये विचारसत्रमपि आयोक्ष्यते। कोडुङ्ङल्लूर् विवेकानन्द वेदिक् विषन् निदेशिका डो. एम. लक्ष्मीकुमारी विषये/स्मिन् प्रभाषणं करिष्यति। संस्कृताध्यापकसंघस्य नेतारः भागभाजिनः भविष्यन्ति।
सामान्य विद्यालयेषु छात्रसंख्यायां महती वृद्धिः।
कोच्ची- राज्ये सर्वकारीय-निजीयविद्यालयेषु अस्मिन्नध्ययनवर्षे प्रविष्टानां छात्राणां संख्यायां महती वृद्धिः। गतवर्षापेक्षया ३२३४९ छात्राः अस्मिन् वर्षे अधिकतया प्रविष्टाः। विश्वोत्तरमहिमायुक्ता शिक्षा सर्वेषां कृते दातव्या इति लक्ष्यमेव सर्वकारस्यास्ति। अयमुत्कर्षः विद्याभ्याससंरक्षणयज्ञे निरतानां सर्वेषाम् अधिकार एवेति मुख्यमन्त्री पिणरायि विजयः अवदत्।
अस्मिन् वर्षे सामान्यविद्यालयाः इतिहासस्य भागत्वेन परिणताः। २५ वर्षेभ्यः अनुवर्तमाना छात्रन्यूनता इति रीतिः अवसिता। सामान्यविद्यालयेषु अस्मिन् वर्षे १८५९७१ छात्राः नूतनतया प्रविष्टाः। गतवर्षे १४८२०५ छात्राः प्रविष्टाः आसन्। सर्वेषु विद्यालयेषु प्रथमकक्ष्यायां छात्राः अधिका जाताः। सर्वकारीयविद्यालयेषु सर्वासु कक्ष्यासु छात्राः अधिकाः सन्ति। एष उत्कर्षः अभिमानकर एव।
PRASNOTHARAM – 30-06-2018
प्रश्नोत्तरम्।
- जननी ———स्निह्यति।(क) पुत्रीषु (ख) पुत्र्यः (ग) पुत्रैः
- रुग्णः ——- विश्वासं करोति। (क) वैद्यस्य (ख) वैद्येन (ग) वैद्ये
- अम्बायाः ——– प्रीतिः अस्ति। (क) पुत्रः (ख) पुत्रे (ग) पुत्रस्य
- पाचकः ——– निपुणः । (क) पाककार्ये (ख) पाककार्यस्य (ग) पाककार्याय
- प्रजानां ——— अादरः ।(क) नृपेषु (ख) नृपाः (ग) नृपैः
- ——— पुरतः उद्यानम् अस्ति । (क) ग़ृहे (ख) गृहस्य (ग) गृहात्
- ——— पृष्ठतः आसन्दः । (क) उत्पीठिकायाः (ख) उत्पीठिकातः (ग) उत्पीठिकायाम्
- ——- अन्तः धनम् अस्ति। (क) स्यूते (ख) स्यूतस्य (ग) स्यूतेन
- कंसः ——– क्रुध्यति। (क) कृष्णेन (ख) कृष्णात् (ग) कृष्णाय
- भिक्षुकः ———- असूयति। (क) धनिकेभ्यः (ख) धनिकैः (ग) धनिकाः
ഈയാഴ്ചയിലെ വിജയി
K.S.Leena, Pandalam,Pathanamthitta.
“അഭിനന്ദനങ്ങള്”
10ശരിയുത്തരങ്ങള് അയച്ചവര്:
- K.S.Leena, Pandalam,Pathanamthitta
- Sneha K HSS Sreekrishnapuram
- Rajakrishnan Sreekrishnapuram
- Remadevi A
- Rajalakshmi A
- Vijayan V Pattambi
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
कोपः सर्वविनाशकः – 30-06-2018
नूतना समस्या –
” कोपः सर्वविनाशकः”
ഒന്നാംസ്ഥാനം
शमादिषट्कविध्वंसात्
कोपो हरति वासनाः।
कोपो निहन्ति संस्कारं
कोपः सर्वविनाशकः।।
Prof. V. Madhavan Pillai
“അഭിനന്ദനങ്ങള്”