Monthly Archives: July 2018
धर्माः कर्मस्रष्टारः न सन्ति। शास्त्रमेव भविष्यं रूपवत्करोति।- साम् पित्रोडा।
गान्धीनगर्- धर्माः कर्मावसरान् न सृजन्ति इति प्रसिद्धः टेलिकों तन्त्रज्ञः सं पित्रोडावर्यः अवदत्। शास्त्र एव कर्मावसरान् सृजति। कर्मावसरं प्रति कश्चन वदति चेत् तस्य राजनैतिकमानमप्यस्ति। तेषु अधिकमलङ्काराः अल्पं याथार्थ्यं च भवतिति स अवदत्। गान्धिनगरे कर्णावति विश्वविद्यालये छात्रान् अभिसम्बोधयन् भाषमाण आसीत् स।
राष्ट्रे प्रवर्तमानाः संवादाः मन्दिरं धर्मः देवः जाति इत्यादीनि अधिकृत्यैव भवन्ति। तत् विषमकर एव। मन्दिराणि कर्म न ददति, शास्त्रमेव भविष्यं रूपवत्करोति इति स अवदत्।
भारतस्य दीर्घदूरप्रक्षेपास्त्रं ब्रह्मोस् नामकं सविजयं परीक्षितम्।
भुवनेश्वर्- भारतस्य दीर्घदुरप्रक्षेपास्त्रस्य ब्रह्मोसाख्यस्य परीक्षणं विजयकरमभवत्। विश्वस्यातिवेगयुक्तं सूपर् सोणिक् क्रूयिस् मिसैल् इति पदव्या साकम् ओडिषायाम् एव परीक्षणं जातम्।
बालसोर् मण्डले आसीत् परीक्षणम्। परीक्षणं विजयकरमासीदिति प्रतिरोधमन्त्री निर्मला सीतारामन् वर्या ट्वीट्टर् मध्य़े अलिखत्। प्रातः १०.३० वादने एव प्रक्षेपास्त्रं प्रेषितम्।
केन्द्र प्रतिरोधमन्त्रालयस्य अनुसन्धानविभागः डी.आर्.डी.ओ संस्था तथा मोस्को नगरे प्रवर्तमाना एन्.पी.ओ.एम्. संस्था च संयुक्ततया प्रक्षेपास्त्रं निरमाताम्। एकस्मिन्नेव समये विभिन्ने द्वे आक्रमणे विधातुं समर्थं भवतीदं प्रक्षेपास्त्रम्।
सर्वकारीय विद्यालयेषु ४०००० कक्ष्याप्रकोष्ठान् आधुनिकविनिमयोपकरणैः सम्पुष्टान् अकरोत्।
तिरुवनन्तपुरम्- शिक्षारङ्गस्य केरलमातृकायाः नूतनेन दिशाबोधेन सह सर्वकारः पुरो गच्छति। छात्रान् सामान्यविद्यालयं प्रति आकृष्य शिक्षामण्डलस्थं वाणिज्यवत्करणम् प्रतिरोद्धुं यतते सर्वकारः। अस्य भागत्वेन राज्यस्थेषु सामान्यविद्यालयेषु ४००८३ कक्ष्याप्रकोष्ठाः पूर्णतया अतिसाङ्केतिक रूपेण परिणताः। एषाम् आवश्यानुसृतानाम् उपकरणानाम् वितरणं पूर्णमभवत्। कैट् इति सूचनासाङ्केतिकविद्या संस्थायाः एवास्य दायित्वमस्ति।
सर्वकारीय-निजीयमेखलासु ३६७६ विद्यालेषु सर्वे कक्ष्याप्रकोष्ठाः अतिसाङ्केतिकरूपेण परिवर्तिताः। सामान्य विद्यालयानां परिरक्षणार्थमेवायमुद्यमः।
केरल-संस्कृताध्यापक फेडरेषन् वनितासंगमः।
कालटी- केरलसंस्कृताध्यापक फेटरेषन् इति शिक्षकसंघस्य नेतृत्वे वनितासंगमः कालटि ब्रह्मानन्दोदयं उच्चतरविद्यालये आरब्धः। केरल वनिता आयोगस्य अध्यक्षा एं.सी. जोसफैन् वर्या संगमस्य उद्घाटनमकरोत्। फेटरेशन् राज्यस्तरीयाध्यक्षः पी.एन् मधुसूदनः संवेशने अध्यक्षः आसीत्। विधानसभा सदस्यः रोजी.एं.जोण्, कालटी संस्कृतविश्वविद्यालयस्य प्रान्तीयाधिकारी के.वी. अजित्कुमार्, कालटि श्रीरामकृष्ण अद्वैताश्रमाध्यक्षः स्वामी श्रीविद्यानन्दः पञ्चायत् सदस्याः मुख्यायेजिका पी. रती प्रभृतयः अभाषन्त। वनिता प्रबलीकरणस्य कालिकी प्रसक्तिः इति विषये विचारसत्रमपि आयोजितम्। विवेकानन्दविचारवेदि निदेशिका एं लक्ष्मीकुमारी विषयावतरणं विधास्यन् अभाषत।
विद्या नैव विनश्यति – 21-07-2018
नूतना समस्या –
“विद्या नैव विनश्यति”
ഒന്നാംസ്ഥാനം
जातुचित् कल्पवृक्षस्य
फले ग्लानिर्भविष्यति।
किन्तु कल्पलतातुल्या
विद्या नैव विनश्यति၊၊
Dr. Nidheesh Gopi
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM – 21-07-2018
प्रश्नोत्तरम्।
- २०१८ विश्वचषक पादकन्दुकक्रीडायाम् अन्तिमवियं प्राप्तस्य राष्ट्रस्य नाम———।(क) फ्रान्स् (ख) क्रॊयेष्या (ग) बॆल्जियम्
- Under 20 World Athletic Championship मध्ये ४०० मीटर् धावनस्पर्धायाम् सुवर्णं प्राप्ता कायिकप्रतिभा का ? (क) हिमा दासः(ख) आन्ट्रिया मिक्लोस् (ग) टेय्लर् मान्सन्
- ” मृदु भावे दृढं कृत्ये ” इति ध्येयवाक्यं कस्य विभागस्य ? (क) भारतशासनस्य (ख) भारतनौसेनायाः (ग) केरला-आरक्षकसेना विभागस्य
- ” मातृदावो भव, पितृदेवो भव , आचार्य देवो भव , अतिथि देवो भव ” वाक्यमिदं कस्याम् उपनिषदि अस्ति ? (क) तैत्तिरीयोपनिषदि (ख) माण्डूक्योपनिषदि (ग) कठोपनिषदि
- ” तत्वमसि ” इति महावाक्यं कस्मिन् वेदे दृश्यते ? (क) ऋग्वेदे (ख) सामवेदे (ग) यजुर्वेदे
- गर्भश्रीमानिति प्रसिद्धिं प्राप्तः महाराजः कः? (क) चित्तिरत्तिरुन्नाऴ् (ख) स्वातितिरन्नाळ् (ग) उत्राटं तिरुन्नाऴ्
- अर्थगौरवं कस्य गुणमस्ति ? (क) कालिदासस्य (ख) दण्डिनः (ग) भारवेः
- उत्तररामचरिते मुख्यरसः कः ? (क) करुणा (ख) वीरः (ग) शृङ्गारः
- मेघदूतम् एकं ———–। (क) महाकाव्यम् (ख) खण्डकाव्यम् (ग) चम्पूकाव्यम्
- मुखनासिकावचनो —————-। (क) उदात्तः (ख) अनुदात्तः (ग) अनुनासिकः
ഈയാഴ്ചയിലെ വിജയി
PURUSHOTHAMAN M
“അഭിനന്ദനങ്ങള്”
9ശരിയുത്തരങ്ങള് അയച്ചവര്:
- NIKITHA M
- ADIDEV C S
- ADWAITH C S
- JANAN E K
- MURALI K K
- DAWN JOSE
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
केरल-शिक्षा-आनुदेशे संशोधनम् उच्चन्यायालयेन अङ्गीकृतम्।
कोच्ची- राज्यस्थेषु निजीयविद्यालयेषु रिक्तस्थाने संरक्षिताध्यापकानां नियोगमधिकृत्य केरल-शिक्षा अनुदेशे आनीतं संशोधनं उत्चन्यायालयेन अङ्गीकृतम्। १९७९ मेय २२ तः पश्चात् नूतने अथवा स्तरोन्नमिते च विद्यालये भविष्ये आगम्यमानायां रिक्ततायां शिक्षककोशादेव नियुक्तिः भवेत्. १९७९ तः पूर्वं स्थापिते विद्यालये द्वयोः रिक्तस्थानयोः एकस्मिन् अध्यापकनियुक्तये विद्यालयप्रबन्धकस्य अधिकारः अस्ति। द्वितीये शिक्षककोशात् नियुक्तिः भवेत् इति व्यवस्था एव न्यायालयेन अङ्गीकृता। सममेव २०१६-१७ अध्ययनवर्षे पूर्वस्य वर्षस्य कर्मकरगणव्यवस्था पालनीया इत्यादेशस्य स्थायित्वं नास्तीकि न्ययालयः व्यक्तमकरोत्। संशोधनं विरुध्य विद्यालयप्रबन्धकानाम् आवेदनस्य परिगणनासमये एव उच्तन्यायालयस्य अयमभिप्रायः।
समाजमाध्यमनियन्त्रणं. राष्ट्रं भरणकूटनिरीक्षणयुक्तं भविष्यतीति सर्वोच्चन्यायालयः/
नवदिल्ली- पौराणां समाजमाध्यमेषु प्रवृत्तिं नियन्त्रयितुं सर्वकारस्य सन्नाहे सर्वोच्चन्यायालयात् रूक्षं विमर्शनम्। एवं समाजमाध्यमेषु व्यक्तेः प्रवृत्तिं निरीक्षितुमुत्सहते चेत् सर्वकारः भरणकूटनिरीक्षणयुक्तं राष्ट्रं भविता इति न्यायालयः आभिप्रैति स्म।
समाजमाध्यमानां नियन्त्रणार्थं मण्डलस्तरे समाजमाध्यम-विनिमयकोशं स्थापयितुं सर्वकारस्य निर्णयं विरुध्य तृणमूल् काण्ग्रेस् दलसदस्येन महुव मोय्त्र वर्येण समर्पितं सामान्यतात्पर्यावेदनं परिगणयन्नेव न्यायालयः एवमवदत्।
मुख्यन्यायाधीशस्य दीपक् मश्रा वर्यस्य आध्यक्ष्ये त्रयाङगप्राड्विवाकसंघ एव निर्णयममुं स्वीचकार।
सैन्ये सेवितुमवकाशः न प्राप्तः, युवा फेस्बुक् सततदृश्यं कुर्वन् आत्माहूतिं कृतवान्।
आग्रा- फेस्बुक् सततदृश्यद्वारा सुहृदः साक्षात्कृत्य युवा आत्मानं जुहाव। निरोद्धुं सुहृदः कृतप्रयत्ना अपि अयं मृतिमवाप। उत्तरप्रदेशराज्ये आग्रादेशस्थः मुन्नकुमार एव सततदृश्यं कुर्वन् मृतः अभवत्।
सैन्ये सेवितुमवकाश न लब्ध इत्यतः कानिचिद्दिनानि यावत् स दुःखित आसीत्। १७ वयसः आरभ्य स प्रवेश परीक्षां लिखति स्म। तथापि तस्य अभिलाषः न सफलीकृतः। वयः परिधिरवसिता इत्यतः इतः परं परीक्षा लेखनमसाध्यं च भवति। अतः आत्महत्यां करोति इति टिप्पणीकृत्य एव स आत्मानमहनत्।
कुजवासरे रात्रौ सर्वेषां निद्रासमये स एवं कृतवान्। पितरौ क्षम्येताम् इति तेन लिखिता टिप्पणिः रक्षिदलैः प्राप्ता। प्रकरणेस्मिन् रक्षिदलान्वेषणमारब्धम्।
भाषासमस्या परिहृता, राज्यसभायां २२ भाषाः सदस्यानां व्यवहाराय अङ्गीकृताः।
नवदिल्ली- हिन्द्याम् आङ्गले वा अप्रवीणानां सदस्यानां समाश्वासः। इतः परं सभासु तेषां व्यवहारार्थं २२ भाषाः अङ्गीकृताः।
नूतननिर्णयानुसारं संविधानस्य अष्टमे अनुच्छेदे अन्तर्भूतासु २२ भाषासु स्वेच्छानुसारं स्वकीयया भाषया व्यवहर्तुं सदस्याः प्रभवन्ति। आगामिनि वर्षाकालाधिवेशने निर्णयो/यं प्रावर्तिको भविता। राज्यसभाध्यक्षः वेङ्कय्य नाय्डुवर्यः निर्णयमिमम् उदधोषयत्। मातृभाषया भाषते चेत् स्वकीयमभिप्रायं व्यक्ततया प्रकटयितुं सदस्याः प्रभवन्ति इति उपराष्ट्रपतिरवोचत्।
हिन्दी, आङ्गलं, आसामिस्, बंगाली, गुजराती, कन्नटा, मलयालम्, मराठी, ओडिया, पञ्चाबी, तमिल्, तेलुगु, उर्दू, गोडा, मैथिली, मणिप्पूरी, नेपाली, डोग्री, काश्मीरी, कोङ्कणी, सन्ताली, सिन्धी इत्येताभ्यः भाषाभ्यः इतः परं राज्यसभायां व्यवहारो भविता।