२०१४ आरभ्य राष्ट्रं कुमार्गे चलति, भारतस्य पश्चाद्गतिः रोद्धव्या।- अमर्त्या सेन्।

नवदिल्ली- २०१४तः राष्ट्रं दुष्टे पथि चरति। अनेन दक्षिणेष्यायाः दुष्टतमेषु राष्ट्रेषु द्वितीयस्थानमस्ति भारतस्य इति प्रसिद्धः आर्थिकशास्त्रज्ञः अमर्त्या सेन् वर्यः अभिप्रैति। अमर्त्या सेन् तथा षाङ् देस्से च संयुक्ततया लिखितस्य “भारतं तस्य वैरुध्यता च “(India and its contridictions)इति ग्रन्थस्य चर्चायामेव नोबल्पुरस्कारजेता अमर्त्या सेन् स्वकीयमभिप्रायं प्राकटयत्।

       कार्याणि दुष्टरीत्या एव चलति। पूर्वस्मिन् काले केवलं स्वास्थ्य-शिक्षारङ्गयोः पर्याप्तां परिगणनां सर्वकाराः न ददुः। परन्तु २०१४तः पूर्णतया अनुचिते दिशि एव भारतस्य गतिऱस्ति।

          २० वर्षेभ्यः पूर्वं दक्षिणेष्यायाः षट्सु राष्ट्रेषु भारतं द्वितीयमासीत्। परन्तु अद्य पाकिस्तानस्यापि पश्चात् अतितरां दुष्टामवस्थामन्ववाप।

    विश्वे द्रुतं प्रवर्धमाना आर्थिकव्यवस्था एव भारतस्यास्ति। तथापि भारतस्य पश्चाद्गमनं प्रति तस्य वैरुध्यमेव स सूचयति स्म। जातिव्यवस्था असमत्वं दलितसमस्याः इत्येतेषु विषयेषु सर्वकारः पराङ्मुखो भवति। विपक्षाणामैक्यम् अनिवार्यमेव, तत्तु व्यक्तीनां मिथः युद्धरूपेण न द्रष्टव्य इत्यपि अमर्त्या सेन् अब्रवीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *