Monthly Archives: July 2018
जीवनम्, मृत्ज्ञानेन पठितुं पाठयितुं च छात्राः।
कण्णूर्- पारिस्थितिकावबोधयुक्तां जनततिं संस्रष्टुं जीवनं पद्धतिः। छात्राः पठनेन साकं एकवर्षपर्यन्तं परिस्थित्प्रवर्तनान्यपि स्वीकुर्वन्ति। अस्याः पद्धतेः शुभारम्भः शिक्षामन्त्रिणा कृतः। कण्णूर् कल्याश्शेरि नियोजकमण्डलस्य समग्र शिक्षापद्धतेः भागत्वेनैव जीवनम् आयोज्यते। परिस्थितिबोधेन सह जीवनरीतिरूपीकरणस्य केन्द्रत्वेन विद्यालयाः परिवर्तनीया इति पद्धतेः लक्ष्यम्।
छात्राणां पठनमेखलायाः परिपोषरीत्यां तथा दैनंदिनप्रवर्तनेषु प्रतिफलनरीत्यां च पद्धतिराविष्कृता।
राज्यस्थेषु कलाशालासु शान्तिभङ्गः नाङ्गीक्रियते , अपराधिभ्यः कर्शनदण्डः भविष्यति – मुख्यमन्त्री।
कोच्ची- एरणाकुलं महाराजास् कलालये स्नातकछात्रः तथा एस्.एफ्.ऐ. इति छात्रसङ्घस्य प्रवर्तकश्च अभिमन्यु इति छात्रस्य हत्याविषये अपराधिनां दण्डनम् अचिरेणैव भविष्यतीति मुख्यमन्त्री पिणरायि विजयः अवदत्। एतदर्थं रक्षिदलं निरदिशदिति सो/सूचयत्।
इतः पर्यन्तं त्रयः निगृहीताः। अत्यन्तम् अपलपनीयं कार्यमेव महाराजकलालये आपतितम्। हत्या आसूत्रिता एवासीदिति रक्षिदलानां प्राथमिकान्वेषणे ज्ञातमस्ति। कलालयात् बहिस्थिताः आतङ्कवादिनः एव हत्यामकुर्वन्। आतङ्कवादं विरुध्य धर्मनिरपेक्षसमाजैः जागरूकैः भाव्यमित्यपि मुख्यमन्त्री अवदत्।
कोेशे अयुतमितैः संस्कृतग्रन्थैः साकम् एकः शिक्षकः।
कोटकरा- एषः कोटकरा काविल्परम्पिल् काञ्जिरप्परम्पु मठत्तिल् शङ्करनारायणन् कर्ता इति संस्कृतशिक्षकः। तृप्पूणित्तुरा सर्वकारीय संस्कृतोच्चतरविद्यालये शिक्षकः तथा प्रांशुपालस्य धुरां च वहति। वाचनपक्षाचरणस्य भागत्वेन कोटकरा ग्रामपञ्चायत् ग्रन्थालये अयुतमितैः संस्कृतग्रन्थैः साकं स प्राविशत्।
१९४८ तमे वर्षे कोल्कत्ता बाट्टिष् मिषन् संस्कृतपण्डितैः कारयितः प्राचीनसंस्कृतबैबिल् ग्रन्थादयः अत्यपूर्वग्रन्थाः स्वकीये युतककोशे अङ्कीयरूपेण वहति अयं महानुभावः। सङ्गणकस्य बाह्ययन्त्रांशे समाहृताः भवन्त्येते ग्रन्थाः। मलयाल-आङ्गलप्रभृतिषु भाषासु रचिताः शताधिकाः ग्रन्थाः आनुकालिक्यः कलाग्रन्थाः यात्राविवरणानि तथा क्षेत्रकलानां चलनचित्राणि गानानि चस्मिन्नपूर्वे सञ्चये वर्तन्ते। एते ग्रन्थाः अयम् अङ्कीय रूपेण प्रतिकृतिं स्वीकृत्य ग्रन्थशालायै अदात्। अधुनायं भक्तिकाव्येषु अद्वैतस्य स्थानम् इति विषये अनुसन्धानं कुर्वन्नस्ति।
संस्कृते मलयाले च बह्यः कविताः अनेन रचिताः। कोटकरा पूनिलार् काविलम्मा स्तोत्रस्य कर्तापि अयमेव। काव्यरचनायाः ऋते अक्षरश्लोके/पि तत्परो/यं पुराण कृतिषु आधुनिककृतिषु च प्रवीणः भवति।
गौरियम्मावर्यायाः शततमजन्मदिनाघोषस्य अद्य शुभारम्भः।
आलप्पुषा – राजनैतिककेरलस्य मातामह्याः के.आर्. गौरियम्मा वर्यायाः शततमं जन्मदिनं रविवासरे वर्तते। तत्सम्बन्धिनः आघोषस्य अद्यैवारम्भः। आलप्पुषा रैय्बान् स्थले आयोज्यमाने समारोहे प्रातः ११ वादने गौरियम्मा अपूपछेदनेन आमोदं वितरति। तस्यै दन्मदिनाशंसया सह मन्त्रिणः राजनैतिकनेतारश्च शनिवासरे एव प्राप्ताः। सर्वेभ्यः मधुरस्मरणया सह मधुरं वितीर्यैव स तान् स्वीकृतवती।
राजनैतिकजीवने राष्ट्रस्य जनानां च कृते निस्तुलं योगदानं कृतवती भवति गौरियम्मा इति के.पी.सी.सी. अध्यक्षः एं.एं. हसन् वर्यः सभार्यः आगत्य अवदत्। मन्त्रिणी मेसिक्कुट्टियम्मा अरुणपुष्पदानेन ताम् अमानयत्।
प्रियं वदतु सर्वदा – 07-07-2018
नूतना समस्या –
“प्रियं वदतु सर्वदा”
ഒന്നാംസ്ഥാനം
प्रियवादी लभेत्सौख्यम्
स्थानं मित्रं तथा धनम्॥
प्रियेण लभ्यते सर्वम्
प्रियं वदतु सर्वदा॥
Dr. Nidheesh Gopi
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM -07-07-2018
प्रश्नोत्तरम्।
- त्वम् अम्बा ——। (क) अस्ति (ख) अस्मि (ग) असि
- अहं धनिकः ——-। (क) अस्ति (ख) अस्मि (ग) असि
- ——— नमथ । (क) त्वम् (ख) यूयम् (ग) वयम्
- आवां मित्रे ——–। (क) स्तः (ख) स्वः (ग) स्थः
- एते याने ———-। (क) चलन्ति (ख) चलतः (ग) चलामः
- वयं पुस्तकानि ———-। (क) क्रीणन्ति (ख) क्रीणीथ (ग) क्रीणीमः
- पण्डिताः कार्यं कर्तुं ———–। (क) शक्नुवन्ति (ख) शक्नुथ (ग) शक्नुमः
- आवां भाषणं ————। शृणुतः (ख) शृणुथः (ग) शृण्वः
- ते स्यूतं ———-। (क) गृह्णन्ति (ख) गृह्णीथ (ग) गृह्णीमः
- भवन्तः भोजनं ————-। (क) ददाति (ख) ददति (ग) दद्मः
ഈയാഴ്ചയിലെ വിജയി
DILKRISHNA C S
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്:
- DILKRISHNA C S
- K S LEENA
- ADIDEV C S
- SANDEEP K S
- DAWN JOSE
- SETHULAKSHMI NARAYANAN
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”