Daily Archives: July 29, 2018

कलालयबस् यानं उपत्यकायां पतितम् ३३ यात्रिकाः मृताः ८०० पादमितं अधोभागे पतितात् यानात् एकः एव रक्षां प्राप।

मुम्बै- महाराष्ट्रा राज्ये दपोली कार्षिकविश्वविद्यालयात् महाबलेश्वरं प्रस्थितः ३४ छात्रान्तर्भूतः संघः राय्गड् अम्पनाली पर्वतपथि अपघाते पतितः।
बस्यानं स्रस्तनियन्त्रणं भूत्वा ८०० पादम् अधोभागे पतितम्। यात्रिकेषु ३३ जनाः मृताः एकः रक्षां प्राप। अपघातस्य कारणं न व्यक्तमिति रक्षिदलमवदत्। महाबलेश्वरपर्वतसानुषु विनोदयात्रार्थं गत आसीत् संघः।

गृहिणी गृहदेवता – 04-08-2018

 

नूतना समस्या –

“गृहिणी गृहदेवता”

 ഒന്നാംസ്ഥാനം

ഹിതം ദത്വാ പ്രിയഞ്ചോക്ത്വാ
ഗൃഹം സുപരിപാല്യ ച
ജീവന്തീ ഭർത്തൃ പുത്രേഭ്യ:
ഗൃഹിണീ ഗൃഹ ദേവതാ

ശങ്കരനാരായണന്‍ ആനക്കര

“അഭിനന്ദനങ്ങള്‍”

शिक्षकशिल्पशाला सुसम्पन्ना।

एरणाकुलम् – विद्यालयेषु संस्कृतपठनं शक्तं सफलं च विधातुं यानि प्रवर्तनानि अस्मिन्वर्षे समायोजनीयानीति विचिन्तनाय सामान्यविद्याभ्यासस्थेन संस्कृतविभागेन काचित् शिल्पशाला एरणाकुलस्थे  शैक्षिकभवने समायोजिता। २०१८ जूलाई मासस्य २७,२८ दीनाङ्कयोः समायोजिता राज्यस्तरीया द्वितीया शिल्पशालेयं  प्रथमदिने दशवादने संस्कृतविद्याभ्यासस्य विशिष्टाधिकारिण्या डो. टि.डी सुनीतिदेवीवर्यया समुद्घाटिता∫भवत्।

     काव्यास्वादनं, अव्ययस्वरूपं प्रयोगाः, उपसर्गाः, समस्यापूरणं, धातुगणाः चाधारीकृत्य समर्थाः चर्चाः, रचनाश्च तत्र सम्पन्नाः। उत्तरकेरलस्य विविधप्रान्तेभ्यः त्रिंशदधिकाः शिक्षकाः तत्र भागमभाजन्त। सार्वजनीनशिक्षा अतिरिक्तनिदेशिका (Additional director) श्रीमती जेस्सी जोसफ् शिल्पशालामेत्य आवश्यकं निर्देशमदात्। शिल्पशालायाम् आसूत्रितानि प्रवर्तनानि प्रवृत्तिपथमानेतुं शिक्षका सर्वे सुसज्जाः जाताः।

     प्रोफ. वि माधवन् पिल्ला, डो. नारायणन् नम्पूतिरिः, श्री एन्.के रामचन्द्रः, श्री विजयन् वि. पट्टाम्बि, डो. टि.डी सुनीतिदेवी च चर्चायै नेतृत्वमावहन्। एतत्सदृश्यः शिल्पशालाः शिक्षकान् पठनप्रवर्तनेषु समर्थान् कर्तुं अत्यन्तमुचिताः पौनपुन्येन समायोजनीयाश्चेति निरीक्षितम्।

PRASNOTHARAM – 04-08-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. वयं गृहं ———। (क) गच्छन्ति (ख) गच्छामः (ग) गच्छथ 
  2.  ——–किं कुरुथ । (क) वयम् (ख) ते  (ग) यूयम्
  3. ते संस्कृतं पठन्ति । अस्मिऩ् वाक्ये कर्तृपदं किम् ? (क) ते  (ख) संस्कृतम् (ग) पठन्ति 
  4.  ——– कन्दुकेन क्री़डन्ति । (क) शिशवः (ख) शिशुः (ग) शिशून्
  5. ———हि सिद्ध्यन्ति कार्याणि न मनोरथैः।(क) उद्यमात् (ख) उद्यमाय  (ग) उद्यमेन 
  6. राजा ———-उपविशति । (क) सिंहासने (ख) सिंहासनात् (ग) सिंहासनस्य
  7. वयं ——- स्निह्यामः । (क) राष्ट्रे (ख) राष्ट्राय (ग) राष्ट्रस्य
  8. ते ——– गृहं गच्छतः । (क) बालिकाः (ख) बालिके (ग) बालिका
  9. छात्राः सम्यक् —————। (क) उपविशति (ख) उपविशतः (ग) उपविशन्ति 
  10. अहं श्वः विद्यालयं ————-। (क) गच्छामि (ख) गच्छावः (ग) गमिष्यामि

ഈയാഴ്ചയിലെ വിജയി

RATHIDEVI K M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sangeetha Sandeep
  • Rathidevi K M
  • Maya P R
  • Bijila C K
  • Smitha Nambiar
  • Dilkrishna C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”