छात्रान् सहचरान् कुर्वता विद्यया सह भगवान् त्रिशिवपुरे।

तृप्रयार्- कस्यचन तन्तुवायस्य पुत्रः एकस्यः परम्परायाः जीवनवयने प्रशिक्षणं करोति। तमिल् नाटु तिरुवल्लूर् जनपदे वेलिगरं सर्वकारीय उच्चविद्यालये आङ्गलभाषाध्यापकः गोविन्द भगवान् एटमुट्टं श्रीनारायणमण्डपे शतमितां छात्राणाम् आत्मविश्वासं द्रढयितुम् आगतवान्।

समीपकाले कस्यचन अध्यापकस्य विद्यालयपरिवर्तनं राष्ट्रियश्रद्धामाचकर्ष। स अध्यापकः भवति श्री गोविन्द भगवान्। आलिङ्गनेन आक्रन्दनेन च साकं वेलिगर विद्यालयस्थाः छात्राः भगवान् वर्यं प्रतिरुरुधुः। रक्षाकर्तारः अपि छात्रैः साकमतिष्ठन्। कुतः अस्मिन्नध्यापके छात्राः एवं स्निह्यन्ति इति द्विहोरावधिकेन समयेन अवागच्छन्।

छात्राः विद्यालयं शिक्षकान् च सुहृत् रूपेण पश्यन्तु इति भगवान् छात्रानबोधयत्। अध्यापकाः अपि तथा एव भवेयु‌ः। न केवलं पाठपुस्तकस्थान् पाठान् अपि तु छात्राणां समग्रासु मेखलासु अध्यापकाः यथार्थगुरवः भवेयुः। प्रश्नानां प्रतिवचनं हर्षारवेण सह छात्राः अङ्गीकृतवन्तः। विद्यालये कनिष्ठः अध्यापकः भवति भगवान्। तथापि छात्राः सहप्रवर्तकाः रक्षाकर्तारश्च तं स्नेहेन परिगणयन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *