ताय्लेण्ट् देशे गुहामोचनाय विलम्बः स्यात्। अतिजीवनार्थं १२ छात्राः प्रशिक्षकश्च।

बाङ्कोक्- ताय्लेण्ट् राष्ट्रे गुहायां अन्तर्भूय दशमे दिने सजीवशेषं दृष्टान् १२ बालकान् प्रशिक्षकं च त्रातुं मासान् यावत् कालविलम्भः स्यात्। गुहायां जलोपप्लवकारणात् ते महाशिलायाम् अभयं प्राप्ताः। नूतनं रक्षाप्रवर्तनरीतिम् अवलम्भ्यैव तान् बहिरानेतुं शक्यते। एवं चेत् चतुर्मासावधि तेषां कृते भाजनपानीयादीनि प्रापणीयानि भवन्ति।

जलोपप्लवेन जलान्तर्भागतरणं तान् परिशीलनीयम्। तर्ह्येव तान् बहिरानेतुं शक्यते। अन्यथा जलनिम्नतापर्यन्तं प्रतिपालनीयम्। प्रथममार्गं स्वीकर्तुं पर्याप्तं स्वास्थ्यं छात्राणां नास्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *