Daily Archives: July 3, 2018

निपा विषाणोः प्रभवस्थानं फलादचर्मखग‌ः इति स्थिरीकृतम्।

तिरुवनन्तपुरम्-निपा विषाणोः प्रभवः फलभोजी चर्मखगः इति स्थिरीकृतम्। ऐ.सी.एम्.आर्. परीक्षणे एवेदं कार्यम् अवगतम्। केन्द्र स्वास्थ्यमन्त्री जे.पी. नद्दावर्यः कार्यमेतत् स्थिरीकृतवान्। एकस्य राष्ट्रिय वार्तामाध्यमस्य कृते दत्ते अभिमुखे तानेदं स्थिरीकृतम्। पूर्वं षट्पदादचर्मखगेषु कृते परीक्षणे निपा विषाणोः सान्निध्यं न दृष्टमासीत्। पुनः निपाबाधितानां गृहसमीपात् गृहीतेषु फलादचर्मखगेषु कृते परीक्षणे एव प्रभवस्थानं स्थिरीकृतम्।

जीवनम्, मृत्ज्ञानेन पठितुं पाठयितुं च छात्राः।

कण्णूर्- पारिस्थितिकावबोधयुक्तां जनततिं संस्रष्टुं जीवनं पद्धतिः। छात्राः पठनेन साकं एकवर्षपर्यन्तं परिस्थित्प्रवर्तनान्यपि स्वीकुर्वन्ति। अस्याः पद्धतेः शुभारम्भः शिक्षामन्त्रिणा कृतः। कण्णूर् कल्याश्शेरि नियोजकमण्डलस्य समग्र शिक्षापद्धतेः भागत्वेनैव जीवनम् आयोज्यते। परिस्थितिबोधेन सह जीवनरीतिरूपीकरणस्य केन्द्रत्वेन विद्यालयाः परिवर्तनीया इति पद्धतेः लक्ष्यम्।

छात्राणां पठनमेखलायाः परिपोषरीत्यां तथा दैनंदिनप्रवर्तनेषु प्रतिफलनरीत्यां च पद्धतिराविष्कृता।