आराधनालयमधिकृत्य आक्षेपे विश्वासिनः जनपदप्राड्विवाकमम् उपगच्छेयुः – सर्वोच्चन्यायालयः।

नवदिल्ली- आराधनालयेषु दुराचारः अवमाननं प्रभृतिषु आक्षेपेषु जनपदप्राड्विवाकम् उपगन्तुं भक्तानाम् अधिकारः अस्तीति सर्वोच्चन्यायालयः। धर्मः को/पि भवतु, तत्र आराधनालयानां भरणं प्रचालनं शुचित्वं धर्म्यसंरक्षणं वस्त्रसम्बन्धिनः आचाराः इत्यादिषु विषयेषु आक्षेपःअस्ति चेत् जनपदप्राड्विवाकम् आवेदयितुं शक्यते। प्राड्विवाकः आवेदनमधिकृत्य अन्वेषणं कृत्वा उच्चन्यायालयम् आवेदयति। उच्चन्यायालयः एतत् सामान्यतात्पर्यरूपेण परिगणय्य आदेशं दद्यात् इति न्यायाधिपौ ए.के. गोयल् अब्दुल् बषीर् इत्येतयोः संवेशनम् आदेशमदात्।

     ओडीषायां पुरी जगन्नाथमन्दिरे धर्म-जातिपरिगणनां विना सर्वेषां विश्वासिनां प्रवेशानुमतिं दत्वा  सूचिते विधिनिर्णये एवायं निर्देशः।

Leave a Reply

Your email address will not be published. Required fields are marked *