Daily Archives: July 15, 2018

केरल-संस्कृताध्यापक फेडरेषन् वनितासंगमः।

कालटी- केरलसंस्कृताध्यापक फेटरेषन् इति शिक्षकसंघस्य नेतृत्वे वनितासंगमः कालटि ब्रह्मानन्दोदयं उच्चतरविद्यालये आरब्ध‌ः। केरल वनिता आयोगस्य अध्यक्षा एं.सी. जोसफैन् वर्या संगमस्य उद्घाटनमकरोत्। फेटरेशन् राज्यस्तरीयाध्यक्षः पी.एन् मधुसूदनः संवेशने अध्यक्षः आसीत्। विधानसभा सदस्यः रोजी.एं.जोण्, कालटी संस्कृतविश्वविद्यालयस्य प्रान्तीयाधिकारी के.वी. अजित्कुमार्, कालटि श्रीरामकृष्ण अद्वैताश्रमाध्यक्षः स्वामी श्रीविद्यानन्दः पञ्चायत् सदस्याः मुख्यायेजिका पी. रती प्रभृतयः अभाषन्त। वनिता प्रबलीकरणस्य कालिकी प्रसक्तिः इति विषये विचारसत्रमपि आयोजितम्। विवेकानन्दविचारवेदि निदेशिका एं लक्ष्मीकुमारी विषयावतरणं विधास्यन् अभाषत।

दृश्यानि।

विद्या नैव विनश्यति – 21-07-2018

 

नूतना समस्या –

“विद्या नैव विनश्यति”

ഒന്നാംസ്ഥാനം

जातुचित् कल्पवृक्षस्य
फले ग्लानिर्भविष्यति।
किन्तु कल्पलतातुल्या
विद्या नैव विनश्यति၊၊

Dr. Nidheesh Gopi

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 21-07-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. २०१८ विश्वचषक पादकन्दुकक्रीडायाम् अन्तिमवियं प्राप्तस्य राष्ट्रस्य नाम———।(क) फ्रान्स् (ख) क्रॊयेष्या (ग) बॆल्जियम्
  2. Under 20 World Athletic Championship मध्ये ४०० मीटर् धावनस्पर्धायाम् सुवर्णं प्राप्ता  कायिकप्रतिभा का ?                          (क) हिमा दासः(ख) आन्ट्रिया मिक्लोस् (ग) टेय्लर् मान्सन्
  3.  ” मृदु भावे दृढं कृत्ये ” इति ध्येयवाक्यं   कस्य विभागस्य ? (क) भारतशासनस्य (ख) भारतनौसेनायाः (ग) केरला-आरक्षकसेना विभागस्य
  4.  ” मातृदावो भव, पितृदेवो भव , आचार्य देवो भव , अतिथि देवो भव ” वाक्यमिदं कस्याम् उपनिषदि अस्ति ?  (क) तैत्तिरीयोपनिषदि (ख) माण्डूक्योपनिषदि (ग) कठोपनिषदि
  5.  ” तत्वमसि ” इति महावाक्यं कस्मिन् वेदे दृश्यते ? (क) ऋग्वेदे (ख) सामवेदे (ग) यजुर्वेदे
  6. गर्भश्रीमानिति प्रसिद्धिं प्राप्तः महाराजः कः? (क) चित्तिरत्तिरुन्नाऴ् (ख) स्वातितिरन्नाळ् (ग) उत्राटं तिरुन्नाऴ्
  7. अर्थगौरवं कस्य गुणमस्ति ?  (क) कालिदासस्य (ख) दण्डिनः (ग) भारवेः
  8. उत्तररामचरिते मुख्यरसः कः ?  (क) करुणा (ख) वीरः (ग) शृङ्गारः
  9. मेघदूतम् एकं ———–। (क) महाकाव्यम् (ख) खण्डकाव्यम् (ग) चम्पूकाव्यम्
  10. मुखनासिकावचनो —————-। (क) उदात्तः (ख) अनुदात्तः (ग) अनुनासिकः

ഈയാഴ്ചയിലെ വിജയി

PURUSHOTHAMAN M

“അഭിനന്ദനങ്ങള്‍”

9ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • NIKITHA M
  • ADIDEV C S
  • ADWAITH C S
  • JANAN E K
  • MURALI K K
  • DAWN JOSE

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”