Daily Archives: July 20, 2018
छात्रारक्षकशिशिक्षुः (Student Police Cadet)पद्धतिः राष्ट्रियतले अपि।
कोच्ची- राज्ये विजयकररूपेण प्रचाल्यमाना छात्रारक्षकशिशिक्षुपद्धतिः राष्ट्रियतलेपि आयोजयितुं निर्णयः। शनिवासरे हरियाणायां गुर्गावे आयोज्यमाने अधिवेशने केन्द्रिय गृहमन्त्री एतत्सम्बन्धि प्रख्यापनं विधास्यति। अनेन भारते सर्वेषु राज्येषु केन्द्रशासित-प्रदेशेषु च एस्.पी.सी. प्रवर्तनं भविता।
केरलम् आदर्शत्वेन स्वीकृत्य हरियाणा, कर्णाटक, राजस्थान् प्रभृतीनि राज्यानि अपि एनां पद्धतिम् आविरकुर्वन्। प्रख्यापनमिदं साक्षात्कर्तुं केरलदेशात् आरक्षकदलस्य उन्नताधिकारिणः कर्मकराः शिॆक्षकाः छात्राश्चाहत्य २६अङ्गसङ्घः गुर्गाव् देशं प्राप्स्यति।
छात्रेषु अनुशासनं व्यक्तित्वविकासं च द्रढयितुं क्रियात्मकमनोभावं स्वास्थ्यशीलानि च संवर्धयितुं केरलेषु इयं पद्धतिः आविष्कृता। अस्मिन् निर्णये मुख्यमन्त्री स्वपरितोषं प्रकटितवान्।
प्राथमिकमात्रविद्यालयेष्वपि संस्कृतपठनं प्रारम्भणीयम्।- बालाधिकार आयोगः।
प्राथमिकमात्रविद्यालयेषु संस्कृतपठनं समारम्भणीयमिति बालाधिकार आयोगस्य निदेशः। तृतीयकक्ष्याछात्रा कोल्लं एषुकोण् अजित्भवने पी.जी. अजित्प्रसादस्य पुत्री समीक्षा एव आयोगमुपगम्य आवेदनमदात्। तमावेदनं परिगणय्य बालाधिकारायोगः एवम् आदेशमदात्।
२०१२ तमे वर्षे केरलसर्वकारः प्रथमकक्ष्यातः संस्कृतपठनाय अनुदेशमदात्। परन्तु माध्यमिकस्तरेण युक्ते प्राधमिकस्तरे एव तदारब्धुम् अनुमतिं लेॆभे। अायोगस्य निदेशानुसारं प्राथमिकमात्रेषु विद्यालयेष्वपि संस्कृतपठनं सुगमं भविष्यतीति प्रतीक्षते। पाठपुस्तकम् आध्यापनपुस्तकं, प्रश्नपत्राणि शिक्षकप्रशिक्षणं, छात्रवृत्तिः इत्यादीनि प्रचलन्ति परन्तु तस्तिकानिर्णयं अध्यापकनियुक्तिश्च न भवति। केषुचित् विद्यालयेषु प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं एक एवाध्यापकः पाठयन्ति।