सैन्ये सेवितुमवकाशः न प्राप्तः, युवा फेस्बुक् सततदृश्यं कुर्वन् आत्माहूतिं कृतवान्।

आग्रा- फेस्बुक् सततदृश्यद्वारा सुहृदः साक्षात्कृत्य युवा आत्मानं जुहाव। निरोद्धुं सुहृदः कृतप्रयत्ना अपि अयं मृतिमवाप। उत्तरप्रदेशराज्ये आग्रादेशस्थः मुन्नकुमार एव सततदृश्यं कुर्वन् मृतः अभवत्।

     सैन्ये सेवितुमवकाश न लब्ध इत्यतः कानिचिद्दिनानि यावत् स दुःखित आसीत्। १७ वयसः आरभ्य स प्रवेश परीक्षां लिखति स्म। तथापि तस्य अभिलाष‌ः न सफलीकृतः। वयः परिधिरवसिता इत्यतः इतः परं परीक्षा लेखनमसाध्यं च भवति। अतः आत्महत्यां करोति इति टिप्पणीकृत्य एव स आत्मानमहनत्।

     कुजवासरे रात्रौ सर्वेषां निद्रासमये स एवं कृतवान्। पितरौ क्षम्येताम् इति तेन लिखिता टिप्पणिः रक्षिदलैः प्राप्ता। प्रकरणेस्मिन् रक्षिदलान्वेषणमारब्धम्।

Leave a Reply

Your email address will not be published. Required fields are marked *