Monthly Archives: July 2018

संस्कृतसङ्धस्याभिमुख्ये रामायणसंवादः।

तृशूर्- रामायणं भारतीयानाम् आत्माभिमानरूपं काव्यं भवति।
यावत्स्थास्यन्ति गिरयः सरितश्च महीतले।
तावद्रामायणकथा लोकेषु प्रचरिष्यति।। इति वाल्मीकिकवेः प्रतिज्ञा कवेः वचनेनैव वयं जानीमः। सहजस्नेहस्य मानविकतायाः च प्रस्रवः एव वाल्मीकिरामायणम्। अत एव रामायणमिव मानवमनांसि एतावन्तं मथितं रचनान्तरं नास्ति। क्रौञ्चद्वन्द्ववियोगोक्तः शोकः एव श्लोकरूपेणागतः। तदेव रामायणम्। रामकथायाः प्रशस्तिः अन्तरार्थं च केवलं भारते एव नैव तिष्ठति। भाषायाः प्रादेशिकतायाःच उपरि सर्वान् मानवान् प्रति प्रसार्यमाणं जीवितवीक्षणमेव रामायणम्। तुलसीदास- कम्प-एषुत्तच्छप्रभृतयः विभिन्नभाषाभ्यः आविष्कृता एषा कथा सर्वेषां मातृका भवति।
केरलसंस्कृतसंघस्य आभिमुख्ये २०१८ जूलै २८ दिनाङ्के शनिवासरे तृशूर् ब्रह्मस्वं मठं प्रासादे श्रीचन्द्र हाल् मध्ये रामायणस्य सन्देशः इति विषये संवादः आयोजितः। संवादस्य उद्घाटनं केरल शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः निर्वक्ष्यति। केरलकलामण्डलं कल्पितसर्वकलाशालायाः आक्षपटलिकः डो.के.के. सुन्दरेशः अध्यक्षो भविता। केरल साहित्य अक्कादमी कार्यदर्शी डो. के.पी. मोहन् वर्यः संवादविषयमधिकृत्य मुख्यभाषणं करिष्यति। कविता मोहन् कृतज्ञतां च व्याहरिष्यति।

चिन्ता रवीन्द्रन् स्मारकः पुरस्कारः सुनिल् पी. इलयिटं वर्याय।

तृशूर्- प्रथमः चिन्ता रवीन्द्रन् स्मारकः पुरस्कारः सुनिल् पी.इलयिटं वर्याय समर्पयति। लेखनद्वारा प्रभाषणद्वारा च केरलानां सर्गात्मक-बौद्धिकमण्डलेषु प्रवर्तमानं प्रगत्यात्मकं हस्तक्षेपं परिगणय्यैव पुरस्काराय एनं वर्यं पर्यगणयदिति चिन्तारवीन्द्रन् प्रतिष्ठानस्य अध्यक्षः शशिकुमारः अवदत्।

५०००० रूप्यकाणि प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। आगस्त् ४ दिनाङ्के तृशूर् नगरे समपद्यमाने अधिवेशने जवहर्लाल् नेह्रू विश्वविद्यालयस्य प्राध्यापिका डो. निवेदिता मेनोन् वर्या पुरस्कारं तस्मै प्रदास्यति।

केरलराज्ये विद्यालयेषु दूरदर्शनयन्त्राणि सम्भृतप्रणाली छायाग्राहिकां च स्थापयिष्यति।

मलप्पुरम्- राज्यस्थेषु सर्वकारीय-निजीयविद्यालयेषु ४०८३ कक्ष्याप्रकोष्ठान् अतितान्त्रिकरूपेण परिवर्तनमकरोत्। ततः पश्चात् सम्पूर्णेषु सर्वकारीय-निजीयविद्यालयेषु सम्भृतप्रणालीछायाग्राहिकां तथा दूरदर्शनयन्त्राणि च स्थापयिष्यति। एतदर्थं कैट्(KITE) इति संस्थानं धुरामावहति। कैट् संस्थानस्य जनपदस्थानीयाः संयोजकाः विद्यालयानां पश्चात्तलसौविध्यमधिकृत्य सर्वकारम् आवेदयिष्यन्ति। एतदतिरिच्य अतितान्त्रिकरूपेण परिवर्तनं कर्तुमशक्तरूपाणा कक्ष्याप्रकोष्ठानां कृते अतितान्त्रिकोपकरणानि एककरूपेण दास्यति। कैट् संस्थानस्य आवेदनानुसारमेव एष निर्णयः अभवत्।

अस्मिन् शतके बृहत्तमं चन्द्रग्रहणं शुक्रवासरे, सकुतुकं प्रतिपालयन्ति जनाः।

नवदिल्ली- शतकस्य बृहत्तमं चन्द्रग्रहणं प्रतिपाल्य तिष्ठन्ति आविश्वं  कुतुकिनो जनाः। आगामिनि शुक्रवासरे एव विश्वे सर्वत्र दर्शनक्षमं चन्द्रग्रहणं सम्भवति। होराद्वयं यावत् चन्द्रः ग्रस्तावस्थायां भविता।

     सूर्यचन्द्रयोर्मध्ये भूगोलस्य परिक्रमणसमये चन्द्रमण्डलम् अरुणकिरणपरिभूषितं द्रष्टुं शक्यते। अस्य प्रतिभासस्य ब्लड् मूण्(रक्त चन्द्रमा) इति नामास्ति।

     १०३ निमेषपर्यन्तं पूर्णं ग्रहणमेव प्रतिपालयति। इतः पर्यन्तमतीतेषु ग्रहणेषु समयदैर्घ्ये केवलं ४ निमेषस्य न्यूनता एवास्ति अस्य ग्रहणस्य। शुक्रवासरे रात्रौ ८.३० तः १०.१३ पर्यन्तमेव ग्रहणसमयः ८.५० वादने ब्लड् मूण् प्रतिभासं द्रष्टुं शक्यते।

सर्वं स्वप्नसमं गतम् – 28-07-2018

 

नूतना समस्या –

“सर्वं स्वप्नसमं गतम्”

ഒന്നാംസ്ഥാനം

ज्ञानी धनी बलीत्येव-
महंकुर्वन्ति मानवाः।
भागधेयस्य वैषम्ये
सर्वं स्वप्नसमं गतम्၊၊

Hareesh kumar

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM -28-07-2018

 

 

प्रश्नोत्तरम्।

 

 

  1.  ———— विद्यालयं गच्छामि । (क) सः (ख) त्वम् (ग) अहम्
  2. त्वं कुत्र ——-?(क) गच्छति (ख) गच्छसि (ग) गच्छामि 
  3. सा गीतं गायति । अस्मिन् वाक्ये कर्मपदं किम् ? (क) सा (ख) गीतं (ग) गायति
  4. शिशुः ——– क्षीरं पिबति । (क) चमसस्य (ख) चमसेन (ग) चमसम्
  5. वृक्षात् फलानि पतन्ति । वृक्षात् इत्यस्य विभक्तिः—–।(क) चतुर्थी (ख) पञ्चमी (ग) षष्ठी
  6. अध्यापकः ———– पुस्तकानि ददाति । (क) छात्रेषु (ख) छात्रेभ्यः (ग) छात्राणाम्
  7.  ———- भूषणं दानम् । (क) हस्तस्य (ख) हस्तात् (ग) हस्तेन 
  8. अहं ———स्निह्यामि । (क) त्वां (ख) त्वयि (ग) तव
  9. छात्रः गृहं  ——–पाठं पठति । (क) गच्छति (ख) गत्वा (ग) गन्तुं
  10. बालकाः ———— क्रीडाङ्कणं गच्छन्ति । (क) क्रीडितुं (ख) क्रीडन्ति (ग) क्रीडति

ഈയാഴ്ചയിലെ വിജയി

Narayan VJP

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Narayan VJP
  • Vijayalakshmi
  • Induja P Vijayan
  • Vijayalakshmi Idukki
  • Dawn Jose
  • Pravitha V S
  • Binraj
  • Bindu P
  • Maya P R

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

साहित्यकारस्य एस्.हरीष् वर्यस्य नेवल् मीशा मातृभूमिसाप्ताहिकपत्रिकायाः अपासरत्।

षिक्कोट्- कैरलीनोवल् कारस्य हरीष् वर्यस्य मीशाख्यं नूतनं नोवल् मातृभूमीति साप्ताहिक्याः अपवारितम्। एस्. हरीष् वर्यः केरल-साहित्य-अक्कादम्याः पुरस्कारजेता भवति।

नोवलस्थयोः द्वयो कथापात्रयोः मिथः सम्भाषणावसरे सूचितस्य सम्भाषणस्य भागः केनचन संघेन समाजमाध्यमद्वारा प्रचारितः आसीत्। तत्सम्भाषणं मन्दिरविश्वासिनां विरुद्धतया अस्ति इति केचन संघा अारोपणम् अकुर्वन्।

अर्धशतकात् पूर्वस्य केरलीयजातिजीवनस्य दलित्पश्चात्तलरूपः आविष्कार एव नोवले अस्ति।

छात्रारक्षकशिशिक्षुः (Student Police Cadet)पद्धतिः राष्ट्रियतले अपि।

कोच्ची- राज्ये विजयकररूपेण प्रचाल्यमाना छात्रारक्षकशिशिक्षुपद्धतिः राष्ट्रियतलेपि आयोजयितुं निर्णयः। शनिवासरे हरियाणायां गुर्गावे आयोज्यमाने अधिवेशने केन्द्रिय गृहमन्त्री एतत्सम्बन्धि प्रख्यापनं विधास्यति। अनेन भारते सर्वेषु राज्येषु केन्द्रशासित-प्रदेशेषु च एस्.पी.सी. प्रवर्तनं भविता।

     केरलम् आदर्शत्वेन स्वीकृत्य हरियाणा, कर्णाटक, राजस्थान् प्रभृतीनि राज्यानि अपि एनां पद्धतिम् आविरकुर्वन्। प्रख्यापनमिदं साक्षात्कर्तुं केरलदेशात् आरक्षकदलस्य उन्नताधिकारिणः कर्मकराः शिॆक्षकाः छात्राश्चाहत्य २६अङ्गसङ्घः गुर्गाव् देशं प्राप्स्यति।

     छात्रेषु अनुशासनं व्यक्तित्वविकासं च द्रढयितुं क्रियात्मकमनोभावं स्वास्थ्यशीलानि च संवर्धयितुं  केरलेषु इयं पद्धतिः आविष्कृता। अस्मिन् निर्णये मुख्यमन्त्री स्वपरितोषं प्रकटितवान्।

प्राथमिकमात्रविद्यालयेष्वपि संस्कृतपठनं प्रारम्भणीयम्।- बालाधिकार आयोगः।

प्राथमिकमात्रविद्यालयेषु संस्कृतपठनं समारम्भणीयमिति बालाधिकार आयोगस्य निदेशः। तृतीयकक्ष्याछात्रा कोल्लं एषुकोण् अजित्भवने पी.जी. अजित्प्रसादस्य पुत्री समीक्षा एव आयोगमुपगम्य आवेदनमदात्। तमावेदनं परिगणय्य बालाधिकारायोगः एवम् आदेशमदात्।

२०१२ तमे वर्षे केरलसर्वकारः प्रथमकक्ष्यातः संस्कृतपठनाय अनुदेशमदात्। परन्तु माध्यमिकस्तरेण युक्ते प्राधमिकस्तरे एव तदारब्धुम् अनुमतिं लेॆभे। अायोगस्य निदेशानुसारं प्राथमिकमात्रेषु विद्यालयेष्वपि संस्कृतपठनं सुगमं भविष्यतीति प्रतीक्षते। पाठपुस्तकम् आध्यापनपुस्तकं, प्रश्नपत्राणि शिक्षकप्रशिक्षणं, छात्रवृत्तिः इत्यादीनि प्रचलन्ति परन्तु तस्तिकानिर्णयं अध्यापकनियुक्तिश्च न भवति। केषुचित् विद्यालयेषु प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं एक एवाध्यापकः पाठयन्ति।

समीक्षा

शबरिमलायां स्त्रीणां प्रवेशनिरोधः संविधानविरुद्धमेवेति सर्वोच्चन्यायालयः।

आर्तवकारणात् १०-५० वयोयुक्ताः स्त्रियः शबरिमलाप्रवेशात् विरुध्यते इति एकपक्षीयः मनोभाव एवेति सर्वोच्चन्यायालयः चिन्तितः। स्त्रीणाम् एवं वयःपरिधिः कैः निर्णिता इति न्यायालयः अपृच्छत्।

शबरिमलायां स्त्रीणां प्रवेशार्थम् अनुकूलमनोभाव एव केरलसर्वकारेण न्यायालये स्वीकृता। आराधनाविषये स्त्रीणां पुरुषाणां च अधिकारः तुल्य एव। अतः प्रवेशनिरोधः संविधानविरुद्ध एवेति न्यायालयः असूचयत्।