केरलेषु कोविड् रोगिणां प्रतिदिनसंख्या ५००० अतीताः।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् रोगबाधा प्रतिदिनं वर्धते।ह्यस्तने रोगिणां संख्या इद्प्रथमतया ५००० अतीता। ५३७६ जनेभ्यः ह्यस्तने कोविड् स्थिरीकृतम् इति मुख्यमन्त्री असूचयत्। २० मरणानि अपि ह्यस्तने स्थिरीकृतानि। कोविडवलोकनानन्तरं वार्ताहरमेलने भाषमाण आसीत् मुख्यमन्त्री। २५९१ जनाः रोगमुक्ताः अभवन्। रोगिषु ४४२६ जनाः सम्पर्केण रोगबाधिताः अभवन्। ९० स्वास्थ्यकर्मकराः अपि रोगग्रस्ताः सञ्जाताः।

सम्पर्केण रोगं स्थिरीकृतेषु ६८० रोगिणां रोगप्रभवः अज्ञातः भवति। ह्यस्तने ५१२०० जनेषु रोगपरिशोधना विहिता। रोगमधिकृत्य मिथ्याभीतिः नावश्यकः। मानदण्डः पालयति चेत् भीतिः अस्थाने एव। स्वगृहे एव सम्पर्कविरोधेन वसति चेत् मानसिकसम्मर्दं दूरीकर्तुं शक्यते इत्यपि मुख्यमन्त्री अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *