Monthly Archives: July 2019

शिक्षाक्षेत्रे प्रथमम् अङ्कीयराज्यं भविष्यति केरलम्।

कोच्ची- राज्यस्थानां प्राथमिकविद्यालयानां कृते अङ्कीयोपकरणानां वितरणम् अन्तिमचक्रं प्राप्नोति। शिक्षाक्षेत्रे राष्ट्रस्य प्रथमम् आङ्कीयराज्यं केरलं भविता। अस्य प्रख्यापनम् ओक्टोबर् मासे भविता।

किफ्बी इति संस्थया दत्तानि २९२ कोटिरूप्यकाणि उपयुज्य प्रथमतः सप्तमपर्यन्तं ९९४१ विद्यालयेषु ५५००० अङकसंगणकानि २५१७० अन्यानि उपकरणानि च दास्यति। ८२००० प्राथमिकस्तरीयानाम् अध्यापकानां प्रशिक्षणमपि व्यदधात्। प्राथमिकछात्राणां कृते विविधविषयेषु कलिप्पेट्टी इति सूचनातान्त्रिकविद्याधिष्ठितानि उपकरणानि माध्यमिकछात्रेभ्यः ई@विद्या इति अङ्कीयसुविधा च दीयते।

मुत्तलाख् देयकं राज्यसभायामपि अङ्गीकृतम्।

नवदिल्ली- मुत्तलाख् निरोधनदेयकं राज्यसभायामङ्गीकृतम्। ८४ अङ्गानि विरुध्य ९९ अङ्गानां मतेनैव देयकं अङ्गीकृतम्। सूक्ष्मनिरीक्षणार्थं देयकं पृथक् समितेः पुरतः समर्पणीयमिति विपक्षदलानामावेदनं राज्यसभा मतदानेन निराकरोत्।

केन्द्रिय नियममन्त्री रविशङ्कर् प्रसाद् वर्यः एव देयकं राज्यसभायाः परिगणनायै समार्पयत्। लिङ्गनीतिः समत्वं मान्यता इत्यादीनि देयकस्य मुख्यांशः इति मन्त्री अवदत्। पूर्वं लोकसभया देयकम् अङ्गीकृतमासीत्। राष्ट्रपतेः हस्ताक्षरानन्तरं देयकं नियमः भविष्यति।

उन्नावो-बालिकायाः अपघातघटनायां भ.ज.पा. सदस्यं विरुध्य व्यवहारो गृहीतः।

लख्नौ- उन्नोवायां पीडिता बालिका अपघाते पतिता इत्यस्मिन् प्रकरणे भाजपा दलस्य सदस्यं कुल्दीप् सेन्गार् वर्यं विरुध्य व्यवहारो गृहीतः। बलात्सङ्गव्यवहारे कारायां बद्धस्य अस्य अपघाते भागभागित्वमस्तीति आरोपणे सञ्जाते एव व्यवहारो गृहीतः।

कुल्दीप् सेन्गारेण सहैव तस्यानुजं मनोज्सिंह् सेन्गार् वर्यं तथा अष्टौ अन्यान् सेवकाऩ् च विरुध्य व्यवहारः स्वीकृतः। एकवर्षपर्यन्तं कुल्दीप् सेन्गार् सोदरः मनोज् सिंह् सेन्गार् च कारायामेव आसीत्। तत्र कारायाम् एतौ गूढतन्त्रेण अपघातकाण्डं समुदपादयत् इति व्यवहारस्य विषयः।

बालिकां परिवारं च उन्मूलयितुं एतौ सोद्देश्यं प्रयतितवन्तौ इति पारिवारिकाणाम् आक्षेपानन्तरमेव व्यवहारः पञ्जीकृतः।

वन्दनीयो गुरुर्मम – 03-08-2019

 

नूतना समस्या –

“वन्दनीयो गुरुर्मम”

ഒന്നാംസ്ഥാനം

കിം കർതവ്യം, ന കർതവ്യ –
മിത്യത്ര വിധിനിർണയേ,
വിരാജതേ പരം യുക്ത്യാ
വന്ദനീയോ ഗുരുർമമ.

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 03-08-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. एते कदा गृहं ——–। (क) गमिष्यतः (ख) गमिष्यति (ग) गमिष्यन्ति
  2. श्वः वयं विद्यालयं ———। (क) गमिष्यावः  (ख) गमिष्यन्ति (ग) गमिष्यामः
  3. एताः बालिकाः अग्रिमे वर्षे विश्वविद्यालये ———–। (क) पठिष्यथ  (ख) पठिष्यन्ति (ग) पठिष्यसि
  4. अहम् अग्रिमे वर्षे विश्वविद्यालये ———-। (क) पठिष्यामि  (ख) पठिष्यसि  (ग) पठिष्यति
  5. श्वः प्रातः त्वं कदा ———–। (क) उत्थास्यति (ख) उत्थास्यामि  (ग) उत्थास्यसि
  6. ग्रीष्मकाले आम्राः  ———-। (क) फलिष्यन्ति (ख) फलिष्यति  (ग) फलिष्यतः
  7.  वसन्ते पुरातनानि पत्राणि ——–। (क) पतिष्यन्ति (ख) पतिष्यामः  (ग) पतिष्यथ
  8. वसन्ते कोकिलाः  ———-। (क) कूजिष्यतः  (ख) कूजिष्यन्ति (ग) कूजिष्यति
  9. जनाः गीतं ——–। (क) गास्यति  (ख) गास्यामि  (ग) गास्यन्ति
  10. भक्ताः कथां ——-। (क) श्रोष्यन्ति (ख) श्रोष्यतः  (ग) श्रोष्यसि

ഈയാഴ്ചയിലെ വിജയി

Sangeetha C K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sangeetha C K
  • Dawn Jose
  • Gayathri Parameswaran
  • Anoop A A
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

जलोपप्लवस्थले स्थगितात् रेल्यानात् यात्रिणः अरक्षीत्।

मुम्बै- अतिकठिनया वृष्ट्या मुम्बैनगरे जलोपप्लवो जातः। तत्र संलग्नात् रेल्यानात् यात्रिणः अरक्षीत्। द्वौ सैनिकोदग्रयानं षट् नौकाश्च संयुज्य एव रेल्यानान्तर्गतान् माकिं ७०० यात्रिणः रक्षितवन्तः। मुम्बै- कोल्हपूर् महालक्ष्मी एक्स्प्रस् रेल्यानमेव लोहमार्गे जलोपप्लवेन बड्लापूर्-वान्गणिमध्ये स्थगितम्। शुक्रवासरे रात्रावेवैषा घटना सम्पन्ना।
रेल्याने संलग्ना यात्रिकाः जङ्गमदूरवाण्यां चित्राणि गृहीत्वा साहाय्यमभ्यर्थ्य सामाजिकमाध्यमेषु प्राकाशयन्। अनेन अधिकारिणः रक्षाप्रवर्तनानि समारभन्त। १५ होरापर्यन्तं भोजनं पानीयजलं च विना जलसञ्चयमध्ये स्थगिताः आसन् इति यात्रिणः वार्ताहरान् व्यजिज्ञपत्।
आसमन्तात् जलोपप्लवेन हेतोः यात्रिणः रेल्यानात् बहिः नागन्तव्याः इति रेल् अधिकारिभिः विज्ञापितमासीत्। अतः रक्षाप्रवर्तनम् अनायासमभवत्।

विख्यातः कविः आट्टूर् रविवर्मा कालकबलीभूतः।

तृशूर्- विख्यातः कविः विवर्तकश्च आट्टूर् रविवर्मावर्यः दिवमगात्। स 88वयस्कः आसीत्। केन्द्र-केरल-साहित्य अक्कादमीपुरस्कारः अवाप्तवानयम्। तृशिवपुरस्थे निजीयचिकित्सालये आसीदस्य अन्त्यम्।

     केरलराज्यसर्वकारस्य उन्नतः पुरस्कारः एषुत्तच्चन् पुरस्कारः अनेन अवाप्तः। तद्वत् अन्ये बहवः पुरस्कारोऽपि अनेन लब्धः। आट्टूर् रविवर्मयुटे कवितकल्-भागं-1, भागं-2 इत्येतौ तस्य कवितासमाहारौ। सुन्दररामस्वामिवर्यस्य ओरु पुलिमरत्तिन्टे कथ प्रभृतीनि तमिल् नवीनानि अनेन विवर्तितानि। पुतुनानूर्, भक्तिकाव्यम् इत्येये कविताविवर्तनानि। कम्परामायणस्य विवर्तनं चलदासीत्।

     तृश्शिवपुरे आट्टूर् ग्रामे 1930 वर्षे कृष्णन् नम्पूतिरि-देवकियम्मादम्पत्योः पुत्रत्वेन अयं भूजातः। विविधेषु सर्वकारीयकलालयेषु प्राध्यापकपदवीमयम् अलञ्चकार। महात्मनोऽस्य देहवियोगे साहित्यलोकः अनुशोचनम् समार्पयत्।

यदि चिटिकां ददाति तर्हि चन्द्रगमनाय सन्नद्ध इति अटूर् गोपालकृष्णन् वर्यः।

भा.ज.पा. दलनेतुः गोपालकृष्णन् महाशयस्य अधिक्षेपभीषां परिहासरूपेण स्वीकृत्य प्रत्यूत्तरमदात् विख्यातः चलचित्रनिदेशकः अटूर् गोपालकृष्णन् वर्यः। केनापि चिटिका दीयते चेत् चन्द्रगमनाय सन्नद्धः, इतः पर्यन्तं पाकिस्थानप्रेषणमासीत् तेषाम् उद्यमः अधुना चन्द्रप्रेषणमिति परिवर्तितं यत् शुभसूचकमिति च स परिहासरूपेण अब्रवीत्।
जय श्रीराम् इति उद्घोषणं मया न अपलपितं परं तादृशमुद्घुष्य नरहत्यायां व्यापृतं जनमेव मया अपलपितम्। यदि मम कवाटमागत्य येनकेनापि श्रीरामनाममुद्घुष्यते तर्हि नूनं तैः सह अहमपि तदुद्घोषणं करोमि इति माध्यमैः सह साक्षाद्भाषणे अटूर् वर्यः अवदत्। प्रधानमन्त्रिणे प्रेषिते लेखे कोपि जनः मया दूषितः परं आराष्ट्रम् अनभिलषणीयां घटनां प्रचलतीत्येव सूचितमिति च तेन उक्तम्।
अस्मिन् प्रकरणे अटूर् वर्यं भीषयित्वा बहवः दूरवाणीसन्देशः उत्तरभारतादपि आगतः आसीत्। एतद्विरुध्य चलचित्रनिदेशकौ कमल्-टी.वी.चन्द्रन् वर्यौ रङ्गमागतौ। अपि च राजनैतिक-सामाजिकरंगस्थाः बहवः प्रतिषेधं सूचितवन्त‌ः।

बोरिस् जोण्सण् वर्यः ब्रिट्टनस्य प्रधानमन्त्रिपदं प्राप्नोति।

लण्टन्- ब्रिट्टन् राष्ट्रस्य आगामिनि प्रधानमन्त्रिपदे बोरिस् जोण्सण् वर्यः धुरां बोढुं सन्नद्धः भवति। तेरेसा मेय् वर्यायाः स्थानत्यागात् परं नूतनं प्रधानमन्त्रिणं चेतुम् आयोजिते मतदाने विदेशकार्यसचिवं जेरमि हण्ट् वर्यं विजित्य बोरिस् अभिमतो जातः। स ६६ प्रतिशतं मतमलभत।

कण्सर्वेट्टीव् दलस्य १६६००० जनाः नूतनप्रधानमन्त्रिणं चेतुं मतान् अदुः। तेषु ४६४५६ मतानि एव जरमि हण्ट् प्राप्तवान्।

बक्किङ्हां राजधानीं प्राप्य राज्ञीं मिलित्वा एव तेरेसा मेय् स्थानं त्यक्ष्यति। तदनन्तरं बोरिस् वर्यः शपथं गृहीष्यति।

भारतस्य अभिमानम्- चन्द्रयान्-२ भ्रमणपथे।

श्रीहरिक्कोट्टा- राष्ट्रस्याभिमानभूतः चन्द्रयान्-२ उपग्रहः भूमेः भ्रमणपथमायातः। सोमवासरे मध्याह्ने २.४३ वादने श्रीहरिक्कोट्टायां सतीष् धवान् शून्याकाशकेन्द्रे आसीत् अस्य विक्षेपः।
विक्षेपानन्तरं षोडशे निमेषे चन्द्रयान्-२ विक्षेपयानात् पृथक् जातम्। अनेन विक्षेपः विजयकर इत्यतः शास्त्रज्ञाः आह्लादं प्रकटितवन्तः। चन्द्रयान् -२ उपग्रहस्य प्रयाणम् उचितदिशि एवेति भारतीय-शून्याकाश-गवेषणकेन्द्रस्य अधिकारिभिः सूचितम्।