Daily Archives: July 19, 2019

केरलेषु व्यापिका वृष्टिः, दक्षिणमण्डलेषु शक्ता, इटुक्कीमण्डले मृत्पातश्च।

तिरुवनन्तपुरम्- राज्ये अरुणदक्षताघोषितेषु इटुक्की पत्तनंतिट्टा कोट्टयं मण्डलेषु शक्ता वृष्टिः अनुवर्तते।। इटुक्की स्थले बहुषु प्रान्तेषु मृत्पातः समभवत्। वागमण्-तीक्कोयी मार्गे यातायातः स्थगितः। कोट्टयं ईराट्टुपेट्टायां शक्तया वृष्ट्या मृत्पातः सञ्जातः। पम्पानद्यां जलोपप्लवो जातः शबरिमलायामपि महती वृष्टिरनुभूयते। अतः रात्रियात्रा परित्याज्या इति अधिकारिभिरावेदितम्।
बहुषु मण्डलेषु ह्यस्तने पीतदक्षता प्रख्यापिता। सा अद्यापि अनुवर्तेत। शनिवासरे एरणाकुलं मण्डले पीतरक्तदक्षता सूचिता।