Monthly Archives: July 2019

चन्द्रयानम् – २

चन्द्रयान्-२ विक्षेपणाय मुहूर्तगणना समारब्धा।

चेन्नै- राष्ट्रम् आकाङ्क्षया प्रतिपाल्यमानं चन्द्रयान् -२ विक्षेपणम् श्वः प्रातः भविष्यति। विक्षेपणार्थं मुहूर्तगणना समारब्धा। २० होरा दैर्घ्यमस्ति अस्याः गणनायाः। रविवासरे सायं ६.४३ वादने एव मुहूर्तगणना आरब्धा।
सोमवासरे मध्याह्ने २.४५ वादने पेटकस्य विक्षेपणं भविष्यति। पूर्वं जूलै १५ दिनाङ्के प्रातः २.५० वादने विक्षेपणं निश्चितमासीत्। तदा वाहकपेटके यान्त्रिकन्यूनता संदृष्टा इत्यतः विक्षेपणं स्थगितम्। ऐ.एस्.आर्.ओ. संस्थया विकसितेषु पेटकेषु अतिशक्तं पेटकम् जी.एस्.एल्.वी. मार्क् ३ एव चन्द्रयान् -२ वहति।

मन्दहासो महौषधम् – 27-07-2019

 

नूतना समस्या –

“मन्दहासो महौषधम्”

ഒന്നാംസ്ഥാനം

ചന്ദനശ്ശീതസൗഖ്യേന
നന്ദനാരാമപുഷ്പവത്
വന്ദനീയശിശോസ്തസ്യ
മന്ദഹാസോമഹൗഷധം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 27-07-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” निनदः “ इत्यस्य अर्थः कः ? (क) शब्दः  (ख) आकाशः  (ग) गन्धः
  2. पञ्चतन्त्रस्य प्रथमं तन्त्रं किम् ? (क) मित्रभेदः  (ख) काकोलूकीयम् (ग) मित्रलाभः
  3. अभिनयप्रकाराः  कति वर्तन्ते ? (क) २ (ख) ३  (ग) ४
  4. वेदस्य हस्तमिति प्रसिद्धः वेदाङ्गः कः ? (क) शिक्षा (ख) कल्पः (ग)  व्याकरणम्
  5. कामदेवस्य पत्नी का ? (क) सचीदेवी  (ख) रतीदेवी  (ग) उमादेवी
  6. ” आयातु “ इत्यस्य लकारः कः ? (क) लट्  (ख) लङ्   (ग) लोट्
  7. कुमारसम्भवे कति सर्गाः सन्ति ? (क) १७  (ख) १८  (ग) १९
  8. मेघदूते अङ्गीरसः कः ? (क) शृङ्गारः  (ख) विप्रलम्भशृङ्गारः  (ग) वीरः
  9. वेणीसंहारे प्रतिनायकः कः ? (क) शिशुपालः (ख) रावणः  (ग) दुर्योधनः
  10. ” पितृ “शब्दस्य षष्ठी द्विवचनं रूपं किम् ? (क) पितृभ्याम्  (ख) पित्रोः  (ग) पितरौ

ഈയാഴ്ചയിലെ വിജയി

SREEJITH K

“അഭിനന്ദനങ്ങള്‍”

षीला दीक्षित् वर्या दिवंगता।

नवदिल्ली- दिल्ली मुख्यमन्त्रिचरा तथा दिल्ली प्रदेश् कोण्ग्रेस् अध्यक्षा च श्रीमती षीला दीक्षित् वर्या दिवङ्गता। सा ८१ वयस्का आसीत् हृदयाघातकारणात् दिल्लीस्थे निजीयचिकित्सालये आसीदन्त्यम्।

शनिवासरे प्रातः एव दिल्लीस्थे फोर्टीस् एस्कोर्ट हार्ट् इन्स्टिट्यूट् नामके चिकित्सालये सा प्रवेशिता। सायं ३.५५ वादने अन्त्यमभवदिति बान्धवाः असूचयन्।
वरिष्ठा कोण्ग्रेस् दलनेत्री सा पञ्चमासपर्यन्तं केरले राज्यपालपदवीमलंचकार।
१९९८ तः २०१३ पर्यन्तम् अनुस्यूततया त्रिवारं सा दिल्ली मुख्यमन्त्रिपदम् अलञ्चकार। राजीवगान्धीमन्त्रिपरिषदि अङ्गमासीत्। यु.पी.ए. अध्यक्षया सोणियागान्धीवर्यया सह सुदृढं सौहार्दं सा पर्यपालयत्।
षीला दीक्षितस्य देहवियोगे राष्ट्रपतिः रामनाथकोविन्द्, प्रधानमन्त्री नरेन्द्रमेदी, राहुल् गान्धी, दिल्ली मुख्यमन्त्री अरविन्द् केज्रिवाल् प्रभृतयः अन्वशोचन्।

केरलेषु व्यापिका वृष्टिः, दक्षिणमण्डलेषु शक्ता, इटुक्कीमण्डले मृत्पातश्च।

तिरुवनन्तपुरम्- राज्ये अरुणदक्षताघोषितेषु इटुक्की पत्तनंतिट्टा कोट्टयं मण्डलेषु शक्ता वृष्टिः अनुवर्तते।। इटुक्की स्थले बहुषु प्रान्तेषु मृत्पातः समभवत्। वागमण्-तीक्कोयी मार्गे यातायातः स्थगितः। कोट्टयं ईराट्टुपेट्टायां शक्तया वृष्ट्या मृत्पातः सञ्जातः। पम्पानद्यां जलोपप्लवो जातः शबरिमलायामपि महती वृष्टिरनुभूयते। अतः रात्रियात्रा परित्याज्या इति अधिकारिभिरावेदितम्।
बहुषु मण्डलेषु ह्यस्तने पीतदक्षता प्रख्यापिता। सा अद्यापि अनुवर्तेत। शनिवासरे एरणाकुलं मण्डले पीतरक्तदक्षता सूचिता।

कुल्भूषण् जादवाय विहितः मृत्युदण्डः अन्ताराष्ट्रन्यायालयेन स्थगितः।

नवदिल्ली- कुल्भूषण् जादवाय पाकिस्तानसैनिकन्यायालयेन विहितः मृत्युदण्डः अन्ताराष्ट्रन्यायालयेन स्थगितः। जादवाय मृत्युदण्डविधायकः पाक् सैनिकन्यायालयस्य निर्णयः पुनरालोनीयः तदर्थं कुल्भूषणाय नयतन्त्रसाहाय्यं दातव्यमित्यपि अन्ताराष्ट्रन्यायालयेन विहितः। भारतस्य आवेदनं परिगणय्यैव एष निर्णयः।

       भारतसमयानुसारं 6.30 वादने एव विधिप्रस्तावो जातः। हेग् स्थले पीस् पालस् आख्ये मञ्जे  न्यायाधीशः अब्दुल् खवि अहम्मद् वर्य विधिप्रस्तावः अपठत्।    16 न्यायाधीशानां मञ्जः भारतस्यावेदनम् कट्वालोचितः। तेषु 15 न्यायाधीशाः भारतस्यावेदनम् अङ्गीचक्रुः।

       चारप्रवृत्तिमारोप्यैव कुल्भूषणजादवं पाकिस्तानसैन्यः अग्रहीत्। 2017 एप्रिल् मासे मृत्युदण्डः घोषितश्च। एतद्विरुध्य भारतेन अन्ताराष्ट्रन्यायालये आवेदनं दत्तम्।

 

 

‘बालविभूषण सम्मान 2019’ (संस्कृत बालसाहित्य परिषद्, पुद्दुचेरी )

प्रियमित्राणि,
पुद्दुचेरीस्थितस्य श्रीअरविन्द-भारतीय-संस्कृति-केन्द्रस्य(SAFIC) पक्षतः संस्कृतबालसाहित्यस्य संरक्षण-सर्वेक्षण-प्रकाशन-संवर्धनार्थं संस्कृतबालसाहित्यपरिषत् 2014 ईशवीयसंवत्सरस्य अगष्टमासे पञ्चदशदिनाङ्के संघटिता। इदानीं यावत् परिषत्पक्षतः 5 राष्ट्रियसंगोष्ट्यः, 5 वार्षिकोपवेशनानि, 6 शिशुकवितापाठोत्सवाः, बालगोष्ठी, क्रीडागोष्ठी, दशाधिकसंस्कृतप्रकाशनानि च अभवन्। तदा तदा उत्तमकवितालेखकानां प्रोत्साहनार्थं पुरस्काराः प्रदत्ताः। परन्तु संस्कृतबालसाहित्यनिर्मातॄणां प्रोत्साहनाय इतोऽपि कार्यक्रमाः आयोजनीयाः।

बालसाहित्यनिर्माणे सामग्रिकमवदानं विचार्य अस्मात् वर्षात् एकस्मै उत्तमसंस्कृतबालसाहित्यसर्जकाय परिषत्पक्षतः सम्मानना करिष्यते। अतः जुलै-अन्तिमदिनं यावत् प्राप्तानि आवेदनानि विचार्य पुरस्कारः ऋषिवरस्य श्रीअरविन्दस्य जन्मदिवसे (अगस्त-पञ्चदशदिनाङ्के) प्रतिवर्षम् उद्धोष्यते।

ये बालसाहित्यसर्जकाः ‘बालविभूषण’-सम्मानार्थम् आवेदयितुम् इच्छन्ति, ते स्वकीयम् आवक्षचित्रसहितं जीवनवृत्तम्, बालसाहित्यस्य प्रतिद्वयं च संप्रेष्य निम्नसङ्केतेन जुलैमासस्य एकत्रिंशदिनाङ्कं यावत् प्रेषयेयुः।

(Address to send the details: Director, SAFIC, Sri Aurobindo Society, 11, Saint Martin Street, Puducherry – 605001, Email- safic@aurosociety.org)

साभारम् – Samskrita Baalasahitya Parishad

चन्द्रयान् – २ विक्षेपणतिथिः परिवर्तिता। परिवर्तिततिथिः पश्चात् उद्घुष्यते।

हरिक्कोट्टा- भारतस्य द्वितीयः चान्द्रदौत्योपग्रहः चन्द्रयान् – २ इत्याख्यः विक्षेपणाय सज्जः अस्ति। अद्य प्रातः विक्षेपणीय आसीदयम्। परन्तु साङ्केतिकन्यूनतया विक्षेपणं पश्चादेव भविष्यति इति भारतीय शून्याकाश गवेषणसंस्थया सूचितम्। विक्षेपणाय ५६ निमेषासु २४ कलासु च अवशिष्टे एव परिवर्तनाय निर्णयः जातः। सोमवासरे प्रातः २.१५ वादने श्रीहरिक्कोट्टायाः सतीष् धवान् शून्याकाशनिलयादेव विक्षेपो निर्णीतः आसीत्। राष्ट्रपतिः रामनाथ कोविन्दप्रभृतयो महान्तः विक्षेपणं साक्षाद्द्रष्टुम् अत्रागताः आसीत्। तदन्तरे जी.एस्.एल्.वी. पेटके साङ्केतिकन्यूनता दृष्टा। अतः तिथिपरिवर्तन् जातम्।

वागेव सत्यम् – संस्कृतलघुचलचित्रम्।

नटवरम्प – तृशूर् जनपदस्य नटवरम्प सर्वकारीयोच्चविद्यालयस्य संस्कृतसभा वागेव सत्यम् इति नाम्ना संस्कृतलघुचलचित्रं निर्माति। एषा सत्यनिष्ठस्य भाग्यचिटिकापणिकस्य कथा भवति। कथां, पटकथां, सम्भाषणञ्च अस्य विद्यालयस्य संस्कृताध्यापकः श्री सुरेष् बाबू निरवहत्। श्री षाजू पोट्टकक्ल् मुख्यनिर्देशकः भवति। छायाग्रहणं श्री दिलीप् हरिपुरं निर्वहति। चित्रस्यास्य चित्रीकरणं इरिङ्गालक्कुटायां प्रचलति।