यदि चिटिकां ददाति तर्हि चन्द्रगमनाय सन्नद्ध इति अटूर् गोपालकृष्णन् वर्यः।

भा.ज.पा. दलनेतुः गोपालकृष्णन् महाशयस्य अधिक्षेपभीषां परिहासरूपेण स्वीकृत्य प्रत्यूत्तरमदात् विख्यातः चलचित्रनिदेशकः अटूर् गोपालकृष्णन् वर्यः। केनापि चिटिका दीयते चेत् चन्द्रगमनाय सन्नद्धः, इतः पर्यन्तं पाकिस्थानप्रेषणमासीत् तेषाम् उद्यमः अधुना चन्द्रप्रेषणमिति परिवर्तितं यत् शुभसूचकमिति च स परिहासरूपेण अब्रवीत्।
जय श्रीराम् इति उद्घोषणं मया न अपलपितं परं तादृशमुद्घुष्य नरहत्यायां व्यापृतं जनमेव मया अपलपितम्। यदि मम कवाटमागत्य येनकेनापि श्रीरामनाममुद्घुष्यते तर्हि नूनं तैः सह अहमपि तदुद्घोषणं करोमि इति माध्यमैः सह साक्षाद्भाषणे अटूर् वर्यः अवदत्। प्रधानमन्त्रिणे प्रेषिते लेखे कोपि जनः मया दूषितः परं आराष्ट्रम् अनभिलषणीयां घटनां प्रचलतीत्येव सूचितमिति च तेन उक्तम्।
अस्मिन् प्रकरणे अटूर् वर्यं भीषयित्वा बहवः दूरवाणीसन्देशः उत्तरभारतादपि आगतः आसीत्। एतद्विरुध्य चलचित्रनिदेशकौ कमल्-टी.वी.चन्द्रन् वर्यौ रङ्गमागतौ। अपि च राजनैतिक-सामाजिकरंगस्थाः बहवः प्रतिषेधं सूचितवन्त‌ः।

Leave a Reply

Your email address will not be published. Required fields are marked *