Daily Archives: July 13, 2019

उच्चतरमाध्यमिकस्तरीयेभ्यः कृपाङ्कदानम्- आवेदनपत्रसमर्पणाय एस्.सी.इ.आर्.टी. संस्थां न्ययुङ्क्त।

तिरुवनन्तपुरम्- उच्चतरमाध्यमिकछात्रेभ्यः कृपाङ्कदानमनुबन्ध्य सर्वकारीयनिर्णयः चतुर्मासाभ्यन्तरे प्रकाशनीयः इति उच्चन्यायालयस्य आदेशानुसारं तेभ्यो कृपाङ्कदानरीतेः परिष्करणसम्बन्धि आवेदनपत्रं समर्पयितुं सर्वकारः राज्य-शैक्षिकानुसन्धानप्रशिक्षणपरिषदं न्ययुङ्क्त। पाठ्येतरप्रवर्तनाय कृपाङ्क‌ः आवश्यक इति सर्वकारस्य मतिः। अतः एतत्सम्बन्धि आवेदनं त्वरितं दातव्यमिति सर्वकारः संस्थामसूचयत्।

     इतरराज्येभ्यः इतरसंस्थाभ्यश्च केरलस्य उत्कर्ष एव शिक्षामण्डले विलसति। पाठ्येतरः सामाजिकश्च व्यवहारः शिक्षाक्षेत्रे अवश्यंभावी। एतेषां निर्वहणार्थं छात्राणाम् अधिकः समयः आवश्यकः। एतस्य समीकरणायैव कृपाङ्कः आयोजितः। इतरेषु राज्येषु कृपाङ्कः पृथक् दीयते। अतः राष्ट्रियतले क्रमनिर्णयाय एष न परिगण्यते। केरलेषु कृपाङ्कः परीक्षाङ्कैः संयोज्य दीयते इत्यतः मत्सरेषु केरलीयछात्राणाम् अधिकं प्रामुख्यं सम्भवतीति बह्यः संस्थाः अभिप्रयन्ति स्म। अत एव तस्याः रीतेः संशोधनधुरां राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषधि निधाय सर्वकारः आदेशमदात्।