उन्नावो-बालिकायाः अपघातघटनायां भ.ज.पा. सदस्यं विरुध्य व्यवहारो गृहीतः।

लख्नौ- उन्नोवायां पीडिता बालिका अपघाते पतिता इत्यस्मिन् प्रकरणे भाजपा दलस्य सदस्यं कुल्दीप् सेन्गार् वर्यं विरुध्य व्यवहारो गृहीतः। बलात्सङ्गव्यवहारे कारायां बद्धस्य अस्य अपघाते भागभागित्वमस्तीति आरोपणे सञ्जाते एव व्यवहारो गृहीतः।

कुल्दीप् सेन्गारेण सहैव तस्यानुजं मनोज्सिंह् सेन्गार् वर्यं तथा अष्टौ अन्यान् सेवकाऩ् च विरुध्य व्यवहारः स्वीकृतः। एकवर्षपर्यन्तं कुल्दीप् सेन्गार् सोदरः मनोज् सिंह् सेन्गार् च कारायामेव आसीत्। तत्र कारायाम् एतौ गूढतन्त्रेण अपघातकाण्डं समुदपादयत् इति व्यवहारस्य विषयः।

बालिकां परिवारं च उन्मूलयितुं एतौ सोद्देश्यं प्रयतितवन्तौ इति पारिवारिकाणाम् आक्षेपानन्तरमेव व्यवहारः पञ्जीकृतः।

Leave a Reply

Your email address will not be published. Required fields are marked *