Daily Archives: July 15, 2019

चन्द्रयान् – २ विक्षेपणतिथिः परिवर्तिता। परिवर्तिततिथिः पश्चात् उद्घुष्यते।

हरिक्कोट्टा- भारतस्य द्वितीयः चान्द्रदौत्योपग्रहः चन्द्रयान् – २ इत्याख्यः विक्षेपणाय सज्जः अस्ति। अद्य प्रातः विक्षेपणीय आसीदयम्। परन्तु साङ्केतिकन्यूनतया विक्षेपणं पश्चादेव भविष्यति इति भारतीय शून्याकाश गवेषणसंस्थया सूचितम्। विक्षेपणाय ५६ निमेषासु २४ कलासु च अवशिष्टे एव परिवर्तनाय निर्णयः जातः। सोमवासरे प्रातः २.१५ वादने श्रीहरिक्कोट्टायाः सतीष् धवान् शून्याकाशनिलयादेव विक्षेपो निर्णीतः आसीत्। राष्ट्रपतिः रामनाथ कोविन्दप्रभृतयो महान्तः विक्षेपणं साक्षाद्द्रष्टुम् अत्रागताः आसीत्। तदन्तरे जी.एस्.एल्.वी. पेटके साङ्केतिकन्यूनता दृष्टा। अतः तिथिपरिवर्तन् जातम्।

वागेव सत्यम् – संस्कृतलघुचलचित्रम्।

नटवरम्प – तृशूर् जनपदस्य नटवरम्प सर्वकारीयोच्चविद्यालयस्य संस्कृतसभा वागेव सत्यम् इति नाम्ना संस्कृतलघुचलचित्रं निर्माति। एषा सत्यनिष्ठस्य भाग्यचिटिकापणिकस्य कथा भवति। कथां, पटकथां, सम्भाषणञ्च अस्य विद्यालयस्य संस्कृताध्यापकः श्री सुरेष् बाबू निरवहत्। श्री षाजू पोट्टकक्ल् मुख्यनिर्देशकः भवति। छायाग्रहणं श्री दिलीप् हरिपुरं निर्वहति। चित्रस्यास्य चित्रीकरणं इरिङ्गालक्कुटायां प्रचलति।