Daily Archives: July 31, 2019

शिक्षाक्षेत्रे प्रथमम् अङ्कीयराज्यं भविष्यति केरलम्।

कोच्ची- राज्यस्थानां प्राथमिकविद्यालयानां कृते अङ्कीयोपकरणानां वितरणम् अन्तिमचक्रं प्राप्नोति। शिक्षाक्षेत्रे राष्ट्रस्य प्रथमम् आङ्कीयराज्यं केरलं भविता। अस्य प्रख्यापनम् ओक्टोबर् मासे भविता।

किफ्बी इति संस्थया दत्तानि २९२ कोटिरूप्यकाणि उपयुज्य प्रथमतः सप्तमपर्यन्तं ९९४१ विद्यालयेषु ५५००० अङकसंगणकानि २५१७० अन्यानि उपकरणानि च दास्यति। ८२००० प्राथमिकस्तरीयानाम् अध्यापकानां प्रशिक्षणमपि व्यदधात्। प्राथमिकछात्राणां कृते विविधविषयेषु कलिप्पेट्टी इति सूचनातान्त्रिकविद्याधिष्ठितानि उपकरणानि माध्यमिकछात्रेभ्यः ई@विद्या इति अङ्कीयसुविधा च दीयते।

मुत्तलाख् देयकं राज्यसभायामपि अङ्गीकृतम्।

नवदिल्ली- मुत्तलाख् निरोधनदेयकं राज्यसभायामङ्गीकृतम्। ८४ अङ्गानि विरुध्य ९९ अङ्गानां मतेनैव देयकं अङ्गीकृतम्। सूक्ष्मनिरीक्षणार्थं देयकं पृथक् समितेः पुरतः समर्पणीयमिति विपक्षदलानामावेदनं राज्यसभा मतदानेन निराकरोत्।

केन्द्रिय नियममन्त्री रविशङ्कर् प्रसाद् वर्यः एव देयकं राज्यसभायाः परिगणनायै समार्पयत्। लिङ्गनीतिः समत्वं मान्यता इत्यादीनि देयकस्य मुख्यांशः इति मन्त्री अवदत्। पूर्वं लोकसभया देयकम् अङ्गीकृतमासीत्। राष्ट्रपतेः हस्ताक्षरानन्तरं देयकं नियमः भविष्यति।