Monthly Archives: April 2019

केरलेषु शनिवासरं यावत् वृष्टिः अनुवर्तिष्यते। त्रिषु मण्डलेषु उष्णं स्यात्।

तिरुवनन्तपुरम्- केरलेषु शनिवासरं यावत् शक्ता वृष्टिः भविष्यतीति वातावरणनिरीक्षणकेन्द्रस्य सूचना। अनेन सह घोरः वातः विद्युद्विभ्रमश्च भविता।

केषुचित् स्थलेषु प्रतिहोरं ४०-५० की.मी. वेगयुक्तस्य वातस्य साध्यता अस्तीति सूचना। परं त्रिषु मण्डलेषु उष्णमधिकं स्यादिति वातावरणनिरीक्षणकेन्द्रं प्रवक्ति। तिरुवनन्तपुरं, आलप्पुषा, पालक्काट् जिल्लासु तापमानं द्वित्राः डिग्री परिमितम् अधिकं स्यादिति च सूचना।

बालवाचकेभ्यो वाचनोत्सवस्य बृहल्लोकम् उद्घाटितम्।

षार्जा- विज्ञानस्य भावनायाः सृजनात्मकतायाश्च वर्णलोकम् उद्घाट्य षार्जा प्रदर्शनकेन्द्रे बालकानां वाचनोत्सवस्य शुभारम्भः। परमोन्नतसमित्यंगं तथा षार्जा भरणाधिपश्च सुल्तान् अल् मुहमम्मद् अल् खासिमि एकदशतमं वातनोत्सवं समुदघाटयत्।
एकादशदिनात्मके वाचनोतंसवे विनोदं तथा विज्ञानं च संक्रम्यमाणा‌ विविधाः कार्यक्रमाः प्रचलिष्यन्ति। २५०० अधिकाः साहित्य-सांस्कृतिककार्यक्रमाः आयोज्यन्ते। १८ राष्ट्रेभ्यः १६८ प्रसाधकाः समारोहे भागं गृहीष्यन्ति। ५५ राष्ट्रेभ्यः कलाकाराणां ३२० चित्राणि अत्र प्रदर्शितानि।

पारीस् नगरस्थे नोत्रदां क्रैस्तवदेवालये महती अग्निबाधा।

पारीस्- द्वादशशतके निर्मिते पारीसस्थे प्रशस्ते नोत्रदां कत्तीड्रल् देवालये महती अग्निबाधा सञ्जाता। अनेन देवालयस्य प्रधानगोपुरं छदश्च पूर्णतया विनष्टमभवत्। परं प्रधानमन्दिरं प्रशस्तं मणिगोपुरद्वयं च सुरक्षितम् इति देवालयाधिकारिणः व्यजिज्ञपन्।

     देवालये नवीकरणप्रवर्तनानि प्रचलन्ति आसन्। तदन्तरे एव अग्निबाधा सञ्जाता। होरापर्यन्तेन कठिनप्रयत्नेन अग्निः नियन्त्रणविधेयो/भवत्। देवालयस्थानि अमूल्यवस्तूनि सुरक्षितानि एवेति अधिकारिभिः सूचितम्।

     फ्रञ्च् गोथिक् निर्माणशैल्याः महत्तमम् उदाहरणं भवति नोत्रदां देवालयः। ११६३ तमे वर्षे लूयीस् सप्तमः अस्य निर्माणप्रवर्तनं प्रारभत। १२६० तमे वर्षे प्रवर्तनं पूर्णमभवत्। १८३१ तमे वर्षे विक्टर् ह्यूगो वर्यस्य आख्यायिकायां परामृष्टो अयं देवालयः तदा प्रभृति विश्वे सर्वत्र प्रसिद्धो/भवत्।

केरलीयाः अद्य विषुवमहोत्सवम् आचरन्ति।

तिरुवनन्तपुरम्- केरलीयानां कार्षिकोत्सवः विषुवम् अद्य आचर्यते। मेषसंक्रान्तिदिने एव विषुमहोत्सवः आयाति। वर्षे द्विवारं विषुवमायाति। तुलासंक्रमदिवसे तथा मेषसंक्रमदिवसे च। दिनरात्रयोः समानवेला एव विषुवस्य विशेषः। अतः दक्षिणायनकाले तथा उत्तरायणकाले च पृथक् विषुवमायाति।

     कार्षिकसमृद्धेः उत्सव एव विषुमहोत्सवः। प्रायः सर्वेष्वपि राज्येषु समानकाले एतादृशः उत्सवः आयाति। असमराज्ये बिहु नाम्ना एष पर्वः आचर्यते। नववत्सरारम्भरूपेणापि केषुचित् राज्येषु विषुवमाचर्यते। दिनरात्रयोः समानदैर्घ्यम् अधुना एतस्मिन् तिथौ नायाति।चैत्रमासस्य प्रथमे दिने तथा कार्तिकमासस्य प्रथमे दिने च समदिनरात्रम् आयाति। अस्माकं पञ्चाङ्गस्य नवीकरणं यावदायाति तावत्पर्यन्तम् एष एव कालः भविष्यति।

     विषुमहोत्सवे प्रातरारभ्य केरलीयाः सज्जा भवन्ति। प्रातः गृहनाथया सज्जीकृतं दिव्यदर्शनमनुभूय एव दिनारम्भः भवति। गृहनाथः सर्वेभ्यो धनराशिं ददाति विषुक्कैनीट्टम् इति अस्य दानस्य नाम। पुनः सग्धिः तथा अन्ये कार्यक्रमाश्च भवन्ति। स्वैः रोपितानां कार्षिकविभवानां फलस्वीकारः एतस्मिन् काले भवति इत्यतः अयमुत्सव‌ केरलीयानां सास्कृतिकपैतृकम् उद्घोषयति।

 सर्वेषां नववाणीसंधस्य विषुवाशंसा‌।

सङ्गीतं सर्वरञ्जकम् – 20-04-2019

 

नूतना समस्या –

“सङ्गीतं सर्वरञ्जकम्”

ഒന്നാംസ്ഥാനം

കേവലം മാനവാ: നൈവ
തിര്യഞ്ചോപി മഹീതലേ
ദിവ്യാനന്ദമയം പ്രാപ്തം
സംഗീതം സർവ്വരഞ്ജകം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

उष्णेन द्रवते केरलम्, परं वृष्टेः रूपं परिवर्तयेत।

कोच्ची- निदाघकालोष्णेन केरलं द्रवते। सूर्याघातस्य वार्ताः बहुभ्यः प्रदेशेभ्यः आयाति। आगच्छत्सु दिनेष्वपि तापमानं वर्धमानमेव तिष्ठेत् इति वातावरण निरीक्षणसंघस्य सूचना। साधारणतः त्रिचतुरः डिग्री सेल्ष्यस् तापवर्धनं संघः प्रवक्ति। अनेन जनैः जाग्रद्भिः भाव्यम् इत्यपि निर्देशः अस्ति।

ग्रीष्मकालवृष्टेः समय एवायम्। परन्तु इतस्ततः ईषद्वृष्टिरेव इतःपर्यन्तं लब्धः। अतः एव जूण् मासे आर्भ्यमाणां वृष्टिमधिकृत्यापि आशङ्का वर्तते। एल्निनो इति अन्तरिक्षप्रतिभासमनुसृत्यैव वृष्टिप्रवचनं साध्यमिति पर्यावरणविभागस्य निगमनम्। एल्निने प्रतिभासेन आगोलतले पर्यावरणव्यतियानं संभावयति।

PRASNOTHARAM – 20-04-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. उत्तररामचरितं नाम नाटकस्य कर्ता कः? (क) भासः  (ख) कालिदासः (ग) भवभूतिः
  2. मीमांसा दर्शनस्य उपज्ञाता कः ?  (क) चाणक्यः  (ख) जैमिनिः (ग)  कपिलः
  3. केरलस्य देशीयकुसुमं किम् ? (क) कर्णिकारः (ख) सूर्यकान्तिः (ग) मल्लिका
  4. संस्कृतस्य प्रथमः चम्पुग्रन्थः भवति नलचम्पुः । तस्य कर्ता कः ?  (क) त्रिविक्रमः  (ख) माघः (ग) व्यासः
  5. मेल्पत्तूर् नारायणभट्टपादेन विरचितः व्याकरणग्रन्थः कः ? (क) क्रियान्वयः (ख)त्रिपिटकम् (ग) प्रक्रियासर्वस्वम्
  6. अभिज्ञानशाकुन्तलं नाम नाटके नायकः कः ? (क) दुष्यन्तः  (ख) उदयनः  (ग) नलः 
  7. रूपकालङ्कारस्य कति भेदाः सन्ति ? (क) सप्त (ख) नव  (ग) पञ्च
  8. एषु भासविरचितं नाटकं किम् ?  (क) मुद्राराक्षसम् (ख) नागानन्दम् (ग) कर्णभारः
  9. ” दीपशिखा ” इति कस्य कवेः विशेषणं  भवति ?  (क) भासस्य  (ख) माघस्य  (ग) कालिदासस्य
  10. पञ्चतन्त्रस्य कर्ता कः ?  (क) पाणिनिः  (ख) विष्णुशर्मा (ग) कात्यायनः

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sivaranjini M V
  • Adidev C S
  • Adwaith C S
  • Ananthu M C
  • Athul Davis
  • Anamika K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

डो. डी. बाबू पोल् दिवंगतः।

तिरुवनन्तपुरम्-  भूतपुर्वः अतिरिक्तमुख्यसचिवः इदानीन्तनः किफ्बी भरणसमित्यंगं च डो. डी. बाबू पोल् वर्यः ऐहिकात् बन्धात् मुक्तः अभवत्। हृदयाघातेन आसीदन्त्यम्। स ७८ वयस्कः आसीत्। इदानीं नवकेरलनिर्माणपद्धतेः उपदेशरूपेणापि प्रवर्तमानः आसीत्।

     १९४१ तमे वर्षे एरणाकुलं मण्डले कुरुप्पंपटी स्थले आसीदस्य जन्म। कुरुप्पंपटी एं.जी.एं उच्चतरविद्यालयात् प्राथमिकशिक्षां समाप्य स आलुवा यूणियन् क्रिस्त्यन् कलाशाला. अनन्तपुरी तान्त्रिककलाशाला, मद्रास् विश्वविद्यालयः इत्यादिॆभ्यः उन्नतबिरुदं सम्पादयामास। पुनः भारतीय-प्राशासनिक-सेवा परीक्षामुत्तीर्य मण्डलाधिपरूपेण वृत्तिमकरोत्। इटुक्की जिल्लायाः रूपवत्करणादारभ्य वर्षत्रयं तत्र मण्डलपालः आसीत्।

     केरलस्य सांस्कृतिकमण्डले लब्धप्रतिष्ठः स नैकान् ग्रन्थानपि रचयामास।

सी.बी.एस्.इ. पाठ्यपद्धतौ कलाविषयान् अवश्यं कारयति।

नवदिल्ली- शिक्षा पाठ्यपुस्तकात् बहिरप्यानेतव्या इति लक्ष्येण प्रथमतः द्वादशकक्ष्यावधि पाठ्येतरकलाविॆषयान् अवश्यं कारयति सी.बी.एस्.ई. संस्था। एषु पाठ्यक्रमेषु आगामिनः वर्षादारभ्य कलासंयेजितपठनम् अवश्यं भविष्यति।

     नूतननिर्देशानुसारं संगीतं, नृत्तं, दृश्यकला, नाटकम् इत्यादीनि सर्वेषु वर्गेषु पाठ्यविषयं भविष्यति। तदुपरि षष्टतः अष्टमपर्यन्तं कक्ष्यासु पाचककला अपि पाठ्यविषयं भविता। प्रतिवारम् अवरतः अन्तरद्वयं एषां विषयाणां पाठनाय भवेत्। एतान् विषयान् परीक्षार्थं मूल्यनिर्णयार्थं वा न परिगणयति। परं प्रायोगिकपरीक्षा तथा परियोजनाप्रवर्तनं च भविता।

जालियन् वालाबाग् वृन्दहत्यायां ब्रिट्टन् राष्ट्रेण खेदं प्राकटयत्।

लण्टन्- १९१९ तमे वर्षे जालियन् वालाबाग् स्थले सञ्जातायां वृन्दहत्यायां ब्रिट्टन् राष्ट्रेण खेदः प्रकटितः। ब्रिट्टन् प्रधानमन्त्री तेरेसा मेय् वर्या ब्रिट्टीष् संसदि एवं खेदं प्राकटयत्। भारतस्य इतिहासे अतीव रक्तरूषितेेयं घटना १९१९ एप्रिल् १९ दिनाङ्के सञ्जाता। अस्याः घटनायाः शततमं वार्षिकम् आचरितुं भारतं सन्नह्यते। एतस्मिन्नन्तरे एव ब्रिट्टन् राष्ट्रस्य खेदप्रकचनम्।
जालियन् वालाबाग् क्रीडाङ्गणे शान्तिमार्गेण अधिवेशनम् आयोजयतः सहस्रसंख्यकान् जनान् प्रति जनरल् डयरस्य आज्ञानुसारं ब्रिट्टीष् रक्षिदलं गोलिकां प्राहरत्।
प्राकारेण परिवृतमासीत् क्रीडास्थलम्। तस्य कवाटवातायनादीनि पिहितानि आसन्। एतस्मिन्नवस्थायां तान् जनान् प्रति गोलिकाप्रहारार्थं जनरल् डयर् अनुज्ञामदात्। स्त्रियः शिशवश्च सम्भू. सहस्रपरिमिताः जनाः अस्यां घटनायां कालकबलीभूताः आसन्।