Daily Archives: April 16, 2019

पारीस् नगरस्थे नोत्रदां क्रैस्तवदेवालये महती अग्निबाधा।

पारीस्- द्वादशशतके निर्मिते पारीसस्थे प्रशस्ते नोत्रदां कत्तीड्रल् देवालये महती अग्निबाधा सञ्जाता। अनेन देवालयस्य प्रधानगोपुरं छदश्च पूर्णतया विनष्टमभवत्। परं प्रधानमन्दिरं प्रशस्तं मणिगोपुरद्वयं च सुरक्षितम् इति देवालयाधिकारिणः व्यजिज्ञपन्।

     देवालये नवीकरणप्रवर्तनानि प्रचलन्ति आसन्। तदन्तरे एव अग्निबाधा सञ्जाता। होरापर्यन्तेन कठिनप्रयत्नेन अग्निः नियन्त्रणविधेयो/भवत्। देवालयस्थानि अमूल्यवस्तूनि सुरक्षितानि एवेति अधिकारिभिः सूचितम्।

     फ्रञ्च् गोथिक् निर्माणशैल्याः महत्तमम् उदाहरणं भवति नोत्रदां देवालयः। ११६३ तमे वर्षे लूयीस् सप्तमः अस्य निर्माणप्रवर्तनं प्रारभत। १२६० तमे वर्षे प्रवर्तनं पूर्णमभवत्। १८३१ तमे वर्षे विक्टर् ह्यूगो वर्यस्य आख्यायिकायां परामृष्टो अयं देवालयः तदा प्रभृति विश्वे सर्वत्र प्रसिद्धो/भवत्।