केरलीयाः अद्य विषुवमहोत्सवम् आचरन्ति।

तिरुवनन्तपुरम्- केरलीयानां कार्षिकोत्सवः विषुवम् अद्य आचर्यते। मेषसंक्रान्तिदिने एव विषुमहोत्सवः आयाति। वर्षे द्विवारं विषुवमायाति। तुलासंक्रमदिवसे तथा मेषसंक्रमदिवसे च। दिनरात्रयोः समानवेला एव विषुवस्य विशेषः। अतः दक्षिणायनकाले तथा उत्तरायणकाले च पृथक् विषुवमायाति।

     कार्षिकसमृद्धेः उत्सव एव विषुमहोत्सवः। प्रायः सर्वेष्वपि राज्येषु समानकाले एतादृशः उत्सवः आयाति। असमराज्ये बिहु नाम्ना एष पर्वः आचर्यते। नववत्सरारम्भरूपेणापि केषुचित् राज्येषु विषुवमाचर्यते। दिनरात्रयोः समानदैर्घ्यम् अधुना एतस्मिन् तिथौ नायाति।चैत्रमासस्य प्रथमे दिने तथा कार्तिकमासस्य प्रथमे दिने च समदिनरात्रम् आयाति। अस्माकं पञ्चाङ्गस्य नवीकरणं यावदायाति तावत्पर्यन्तम् एष एव कालः भविष्यति।

     विषुमहोत्सवे प्रातरारभ्य केरलीयाः सज्जा भवन्ति। प्रातः गृहनाथया सज्जीकृतं दिव्यदर्शनमनुभूय एव दिनारम्भः भवति। गृहनाथः सर्वेभ्यो धनराशिं ददाति विषुक्कैनीट्टम् इति अस्य दानस्य नाम। पुनः सग्धिः तथा अन्ये कार्यक्रमाश्च भवन्ति। स्वैः रोपितानां कार्षिकविभवानां फलस्वीकारः एतस्मिन् काले भवति इत्यतः अयमुत्सव‌ केरलीयानां सास्कृतिकपैतृकम् उद्घोषयति।

 सर्वेषां नववाणीसंधस्य विषुवाशंसा‌।

Leave a Reply

Your email address will not be published. Required fields are marked *