Monthly Archives: May 2019

द्वितीयः नरेन्द्रमोदीसर्वकारः अद्य अधिकारं गृहीष्यति।

नवदिल्ली – नरेन्द्रमोदीवर्यस्य नेतृत्वे द्वितीयं मन्त्रिमणडलम् अद्य सायं सप्तवादने शपथं गृहीत्वा अथिकारम् आवहति। सायं सप्तवादने दिल्ल्यां राष्ट्रपतिभवने एव समारोहः।

     दिल्ल्यां भ.ज.पा दलस्य राष्ट्रियाध्यक्षः अमित् षा वर्येण सह नियुक्तप्रधानमन्त्री नरेन्द्रमोदी चर्चामायोजयत्। बृहती चर्चा समापन्ना। चर्चायाः अनन्तरं मन्त्रिणां पट्टिका समायोज्ता। राजनाथ सिंह्, स्मृति इरानी, निर्मला सीतारामन्, प्रकाश् जावदेकर्, रविशङ्कर् प्रसाद्, नरेन्द्रसिंह् तोमार्, अजुन् मेखवाल् इत्येते अस्मिन् मन्त्रिमण्डले अपि  अनुवर्तेत। एते मोदिना सहैव शपथं गृहीष्यन्ति।

     राष्ट्रपतिभवने इतःपर्यन्तमायोजितेषु शपथसमारोहेषु बृहत्तमं भविष्यत्ययं समारोहः। समारोहे 6500 अधिकाः जनाः भागं भजिष्यन्ते। धनमन्त्री अरुण् जेय्टिलीवर्यः स्वास्थ्यहेतोः मन्त्रिमण्डले न भविष्यति। एतत् संसूच्य स प्रधानमन्त्रिणे लेखं प्रैषयत्। मोदीवर्यः ह्यस्तने रात्रौ जेय्टिलीवर्येण साक्षात्कारमकरोत्। सुषमा स्वराज्वर्या अपि एतेनैव कारणेन मन्त्रिमण्डले न भविता। सख्यदलानां प्रतिनिधयः अपि अद्यैव शपथं स्वीकरिष्यन्ति।

महात्मागान्धी सर्वकलाशालायाः कुलपतिपदे डो. साबु तोमस् वर्यः नियुक्तः।

कोट्टयम्- महात्मागान्धी सर्वकलाशालायाः कुलपतिपदे  राज्यपालः तत्रत्योपकुलपतिं डो. साबू तोमस् वर्यं न्ययुङ्क्त। चतुर्वर्षपरिमितोयं नियोगः। साबू तोमस् वर्यः तत्रैव उपकुलपतेः कर्म निर्वहन् सः डो.बाबू सेबास्ट्यन् वर्यस्य विरामानन्तरं कुलपतेः अतिरिक्तपदवीं निरूढः आसीत्।

     गोरख्पूर् ऐ.ऐ.टी.तः विद्यावारिधिबिरुदं सम्पाद्य अयं १९८७ तमे वर्षे सर्वकलाशालायाम् अध्यापको अभवत्। पोलिमर् केमिस्ट्री विषये शास्त्रज्ञः अयं राष्ट्रे अस्मिन् विषये पञ्चमः पण्डितः अस्ति। अपि च कोच्ची शास्त्र-साङ्केतिक सर्वकलाशालातः अयं तान्त्रिकबिरुदमपि सम्पादितवान्। बहवः ग्रन्थाः अपि अयं व्यरचयत्।

ह्येते नेतृगुणाः स्मृताः – 03-06-2019

 

नूतना समस्या –

“ह्येते नेतृगुणाः स्मृताः”

ഒന്നാംസ്ഥാനം

കാരുണ്യം, വിനയം ചൈവ
ധീരതാ, സത്യസന്ധതാ,
സേവനേ സുദൃഢം ചിത്തം
ഹ്യേതേ നേതൃഗുണാഃ സ്മൃതാഃ.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

लोकराष्ट्राणां मध्ये भारतस्य विनष्टं स्थानम् आगामिनी पञ्चवर्षाभ्यन्तरे प्रत्यानेष्यति – प्रधानमन्त्री नरेन्द्रमोदी।

अहम्मदाबाद् – लोकराष्ट्राणां मध्ये विनष्टं भारतस्य उन्नतं स्थानम् आगामिनि पञ्चवर्षाभ्यन्तरे प्रत्यानेष्यतीति प्रधानमन्त्री नरेन्द्रमोदीवर्यः अवदत्। लोकसभानिर्वाचनानन्तरम् आयोजिते सार्वजनीनाधिवेशने भाषमाणः आसीत् सः। आधुनिकावस्था १९४२-४४ कालघट्टमनुस्मारयति। कार्याणि बहूनि कर्तव्यानि सन्ति।

सूरत् नगरे सञ्जातायाः अग्निबाधायाः पश्चात्तले अतिललितरूपेणैव अधिवेशनम् आयोदितम्। अग्निबाधायां मृतेभ्यो २२ छात्रेभ्यो स श्रद्धाञ्जलिं समार्पयत्।

PRASNOTHARAM – 03-06-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” युष्मत् “शब्दस्य तृतीया एकवचनम् किम्? (क) ्त्वया (ख) त्वाम् (ग) तव
  2. आयुर्वेदग्रन्थः ———। (क) पञ्चतन्त्रम् (ख) चरकसंहिता (ग) अर्थशास्त्रम् 
  3. ” मात्रा ” इति रूपस्य विभक्तिः कः ? (क) तृतीया (ख) चतुर्थी  (ग) पञ्चमी
  4. ” अस् ” धातोः लट् प्रथमपुरुष द्विवचनरूपं किम् ? (क) अस्ति  (ख) स्थः   (ग) सन्ति
  5. संस्कारवाहिनी इति प्रसिद्धा केरलीयनदी———–। (क) पम्पा (ख) पेरियार्  (ग) निला   
  6. सुमेरुपर्वतस्य वर्णनया समारब्धम् काव्यं किम् ? (क) रघुवंशम् (ख) श्रीकृष्णविलासम्  (ग) कुमारसम्भवम्
  7. केरलकालिदासः इति प्रसिद्धः कः ? (क) वल्लत्तोल्  (ख) ए आर् राजराजवर्मा (ग) केरलवर्मा वलियकोयित्तम्पुरान्
  8. अद्य शनिवासरः चेत् परश्वः कः वासरः ? (क) सोमवासरः  (ख) मङ्गलवासरः  (ग) बुधवासरः
  9. ३० इ्त्यस्य संस्कृतपदं किम् ? (क) विंशतिः (ख) त्रिंशत्  (ग) चत्वारिंशत्
  10. सांख्यदर्शनस्य उपज्ञाता कः?(क) कणादः  (ख) जैमिनिः (ग) कपिलः

ശരിയുത്തരങ്ങള്‍

  1. त्वया
  2. चरकसंहिता
  3. तृतीया
  4. स्तः
  5. निला
  6. श्रीकृष्णविलासम्
  7. केरलवर्मा वलियकोयित्तम्पुरान्
  8. सोमवासरः
  9. त्रिंशत्
  10. कपिलः

ഈയാഴ്ചയിലെ വിജയി

Sreejith K (9 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

सूरत्त् नगरे अग्निबाधा – अष्टादशजनाः मृताः।

सूरत्त् – गुजरातराज्यस्य सूरत्त् नगरे एकस्मिन् पाठ्यपरिशीलनकेन्द्रे तीव्रतरा अग्निबाधा प्रचलति। इतःपर्यन्तम् अष्टादशजनाः मृताः। अद्य सायं प्रवर्तितायाम् अग्निबाधायां सर्वे स्तब्धाः। पाठ्यपरिशीलनाय आगताः बालिकाबालकाः एव अग्निबाधया बाधिताः । आवाससौधस्य तृतीयाट्टात् छात्राणां बहिःपतननदृश्यानि माध्यमेषु प्रचलन्ति। मृतानां संख्या इतोपरि भविष्यतीति शङ्का अपि वर्तते।

TEXT BOOKS 2018-19

निर्वाचनं समाप्तम्, तैलेन्धनानां मूल्यं वर्धते।

तिरुवनन्तपुरम्-  लोकसभानिर्वाचनस्य अन्तिमघट्टमतदानं समाप्तं, अन्येद्युः शिलातैलानां मूल्ये महद् वर्धनं सञ्जातम्। ह्यस्तने पेट्रोल्, डीजल् इन्धनानां मूल्यं यथाक्रमं  प्रतिलिट्टर् नवपैसा षोडशपैसा च वर्धिता।

     कोच्चीनगरे पेट्रोल् मूल्यं 73.3 रूप्यकाणि डीजल् मूल्यं 69.67 रूप्यकाणि च वर्तते अद्य। पूर्वं पञ्च राज्यानां विधानसभायाः कृते निर्वाचनावसरे तथा कर्णाटकविधानसभानिर्वाचनावसरे च इन्धनानां मूल्ये प्रतिदिनवर्धनं नासीत्। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य मूल्यवर्धनमेव अत्र कारणत्वेन वदति। क्रूडोयिल् मूल्यम् अधुना प्रतिबारल् 72.23 डोलर् मितं भवति।

शान्तिमिच्छन्ति सर्वदा – 25-05-2019

 

नूतना समस्या –

“शान्तिमिच्छन्ति सर्वदा”

Last date: 25-05-2019

लोकसभानिर्वाचनम् अद्य समाप्तिमेति। अद्य प्रातरारभ्य मतदानार्थं महान् सम्मर्दः।

नवदिल्ली- सप्तदशतमायै लोकसभायै निर्वाचनम् अद्य समाप्तिमेति। तदर्थं मतदानं समारब्धम्। सप्त राज्यानि एकं केन्द्रप्रशासनप्रदेशश्चान्तर्भूय ५९ मण्डलेषु २०१९ लोकसभानिर्वाचनस्य अन्तिमघट्टे अद्य मतदानं भविष्यति। उत्तरप्रदेशे १३, पञ्चाबे १३, पश्चिमवंगे ९, बीहारे ८, झार्घण्डे ३, हिमाचलप्रदेशे ४ तथा चण्डीगडे च अद्य मददानं भवति।

     प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रतियोगितास्थले वाराणस्यां प्रथमहोरायां मतदानार्थं महान् सम्मर्दः अनुभूतः।

     दशकोटिमिताः जनाः ९१२ स्थानाशिनां भविष्यनिर्णेतारः भवन्ति अन्तिमे अस्मिन् घट्टे। अद्य सायं एक्सिट् पोल् फलं प्रकाशयिष्यति। मेय् २३ तमे दिनाङ्के एव फलप्रख्यापनं भवति।