Daily Archives: April 22, 2019

लोकसभानिर्वाचनम्,-केरलेषु श्वः मतदानम्, सशब्द-ससंघप्रचारणं समाप्तम्, अद्य निश्शब्दप्रचारणम्।

तिरुवनन्तपुरम्- एकमासावधिकं प्रचारणं समाप्य केरलीयाः श्वः मतदानकेन्द्रं प्रस्थास्यन्ते। श्वः प्रातः सप्तवादनादारभ्य सायं षड्वादनपर्यन्तं मतदानं भविष्यति। मेय् २३ दिनाङ्के एव फलप्रख्यापनं निश्चितम्। केरले २० लोकसभमण्डलेषु आहत्य २२७ स्थानाशिनः सन्ति।

     अद्य स्थानाशिनां निश्शब्दप्रचारणं भविष्यति। निर्वाचनकर्मणि नियुक्ताः कर्मकराः अद्य प्रात‌ः मतदानसामग्रीस्वीकरणार्थं तत्तत् वितरणकेन्द्रं प्राप्स्यन्ति। केन्द्रसेनाविभागः, केरलरक्षिदलं चाहत्य ६०००० सेनापुरुषाः सुरक्षायै नियुक्ताः। २६१००००० सम्मतिदायकाः सन्ति केरले। तेषां कृते २४९७० मतदानकेन्द्राणि सज्जीकृतानि।