Monthly Archives: April 2019

केरल काण्ग्रेस् अध्यक्षः तथा विधानसभा सामाजिकः भूतपूर्वमन्त्री के.एम्. माणी वर्यः दिवंगतः।

कोच्ची- केरलराज्यनैतिकरंगे चाणक्यसदृशः केरलकाण्ग्रेस् अध्यक्षः, भूतपूर्वमन्त्री, सामाजिकश्च के.एम्. माणीवर्यः कालकबलीभूतः। सः ८६ वयस्कः आसीत्। एरणाकुलस्थे निजीयचिकित्सालये आसीदन्त्यम्। श्वासकोशसम्बन्धेन आमयेन पीडितः तीव्रपरिचरणविभागे निरीक्षणे आसीत्। आमयस्थितेः गौरवेण सायं पञ्चवादने स मृतिमुपगतः। पालामण्डलस्य सामाजिकः अस्ति।
गते रविवासरे स चिकित्सालयं प्रवेशितः। अद्य प्रातः ईषद्रोगशान्तिः आवेदिता आसीत्। परं सायं त्रिवादनात् आमयावस्था मूर्च्छिता।
केरले बहुकालपर्यन्तं वित्तमन्त्रिपदमलंकृतः सः एकस्मादेव मण्डलात् बहुकालं सामाजिकत्वेन चितः। स अभिभाषकोप्यासीत्।

आराधनालयानां नियन्त्रणं किमर्थं सर्वकारीयकर्मकरैः क्रियते इति सर्वोच्चन्यायालयः।

नवदिल्ली- धर्मस्थापनानि मन्दिराणि च सर्वकारीयकर्मकराणां नियन्त्रणे कीमर्थं स्थापनीयानि इति सर्वोच्चन्यायालयः संशयं प्राकटयत्। पुरी जगन्नाथमन्दिरे भक्तैः अनुभूयमानान् क्लेशान् मन्दिरकर्मकराणां चूषणानि च संसूच्य समर्पितम् आवेदनं परिगणयन्तौ न्यायाधीशौै एस्,ए. बाब्डे, एस्.ए. नसीर् च एवमुक्तवन्तै।

     सर्वकारनियन्त्रणस्था‌ संघाः राज्यस्थानि निरवधिकानि मन्दिराणि नियन्त्रयन्ति। कस्मिंश्चन धर्मनिरपेक्षे राष्ट्रे मन्दिराणां नियन्त्रणं कथं सर्वकारे निक्षेप्तुं शक्यते इति न्यायाधीशौ अपृच्छताम्।

      जगन्नाथमन्दिरसंबन्धः व्यवहारः आगामिनि मासे परीगणयितुं न्यायालयः निरचिनोत्।

स्वर्णं चित्तहरं नृणाम् – 13-04-2019

 

नूतना समस्या –

“स्वर्णं चित्तहरं नृणाम्”

ഒന്നാംസ്ഥാനം

കണ്ഠേ മാംഗല്യസൂത്രേണ
ഹേമേനാചാരബന്ധനം
പാണിഗ്രഹണസന്ദർഭേ
സ്വർണം ചിത്തഹരം നൃണാം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

राज्ये सूर्याघातजाग्रतानिर्देशः अनुवर्तते। जनाः जाग्रतानिर्देशं स्वीकुर्युः इति वातावरणनिरीक्षणकेन्द्रम्।

तिरुवनन्तपुरम्- राज्ये सूर्याघात-सूर्यातप-जाग्रतानिर्देशः अनुवर्तितः। वयनाड् मण्डलादृते सर्वेषु मण्डलेषु आगामिनि दिवसे तापमानम् ऊर्ध्वं गच्छेत् इति वातावरणनिरीक्षणकेन्द्रस्य सूचना।

     जनैः जाग्रद्भिः भाव्यम् इति वातावरणनिरीक्षणकेन्द्रं निर्देशं ददाति। द्वे डिग्रीतः त्रीणिडिग्री पर्यन्तं तापमानवर्धनं भविता।

     तापमानवर्धनेन सूर्याघातस्य सूर्यातपस्य च साध्यता अस्तीति वातावरणनिरीक्षणकेन्द्रं सूचनां दददस्ति।

PRASNOTHARAM – 13-04-2019

 

प्रश्नोत्तरम्

 

 

 

 

  1. एतत् —— पुस्तकम् । (क) माम्  (ख) मम (ग) मत्
  2. ——- चरतः । (क) अजा (ख) अजे (ग) अजाः
  3.  —— छात्रे  स्वः ।(क) आवां (ख) अहं  (ग) वयम्
  4.  ——- चलति ।(क) नौका (ख) नौके  (ग) नौकाः
  5.  ——— गच्छथ । (क) त्वं  (ख) युवां  (ग) यूयम्
  6. ” मेघाः ” इत्यस्य एकवचनरूपं किम् ? (क) मेघम्  (ख) मेघः (ग) मेघौ
  7. लोके गुरुतमा का ? (क) पुत्री (ख) भार्या (ग) जननी 
  8. केरलराज्यस्य राजधानी कुत्र वर्तते ? (क) तृश्शूरे (ख) तिरुवनन्तपुरे (ग) एरणाकुले
  9. अमरवाणी इति प्रथिता भाषा का ? (क) हिन्दी (ख) संस्कृतम् (ग) आङ्गलेयम्
  10. युधिष्ठिरस्य माता का ? (क) यशोदा (ख) माद्री (ग) कुन्ती

ഈയാഴ്ചയിലെ വിജയി

ANJANA M S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anjana M S
  • Veena Venu
  • Nayana Sudhakaran
  • Alphy Davis
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

जानपद सेवा परीक्षा – अनुसूचितजनजातिविभागात् श्रीधन्यायाः ऐतिहासिकविजयः।

नवदिल्ली- जानपदसेवापरीक्षायाः फलं प्रकाशितम्। कनिषाक् कटारिया नामकः प्रथमश्रेणीं प्राप्तवान्। केरले वयनाट् देशीया श्रीधन्या ४१० तमां श्रेणीम् अवाप। कुरिच्य इत्याख्यात् अनुसूचितजनजातिविभागात् जानपदसेवापरीक्षाम्  उत्तीर्णा प्रथमा भवति श्रीधन्या।
श्रेणीपट्टिकायां श्रीधन्यायाः ऋते श्रीलक्ष्मी (२९), रञ्जिना मेरी वर्गीस्( ४९), अर्जुन् मोहन्( ६६) इत्येते केरलीया अपि सन्ति।
प्रथम २५ जेतृषु १५ पुरुषाः १० स्त्रियश्च भवन्ति।

अध्यापकानां विरामकालप्रशिक्षणस्य स्थाने इतः परं प्रशिक्षणशिल्पशाला।

चेरुवत्तूर्- अध्यापकानां विरामकालप्रशिक्षणं समग्रतया परिवर्तयति। प्रशिक्षणस्य स्थाने शिल्पशालैव अस्मिन् वर्षे समायोज्यते। दिनचतुष्टयं अक्कादमिकप्रशिक्षणं तथा दिनचतुष्टयं सूचनातान्त्रिकविद्यां च परिचाययति।राज्यस्तरीय प्रशिक्षकसंघानां शिल्पशाला राज्ये विविधेषु केन्द्रेषु समारब्धा। अक्कादमिकप्रवर्तनानां प्रगतिः अनुस्यूतता इति विषये एव शिल्पशाला आयोजिता।

मलयालत्तिलक्कं, हलो इंग्लीष्, गणितविजयं, पठनोतंसवः, जैववैविद्योद्यानम् इत्येतानि गतवर्षे कथं पठनप्रवर्तनस्य सहायकानि आसन् तेषां अनुवर्तनं कथं भवेत् इत्यादीनि चर्चाविषयाणि भविष्यन्ति।प्राथमिकस्तरे मेय् तृतीयदिनाङ्कात् सप्तमदिनाङ्कं यावत् तथा अष्टमदिनाङ्कात् एकादशदिनाङ्कं यावत् घट्टद्वयेन शिल्पशाला भविता। एप्रिल् २५ तः २९ पर्यन्तं जिल्लास्तरीयप्रशिक्षकाणां शिल्पशाला भविता।

उच्चतरस्थले मेय् १३तः १६ पर्यन्तं तथा १७तः २१पर्यन्तं घट्टद्वयेन शिल्पशाला आयोजयिष्यति। कैट् संस्थायाः नेतृत्वे चतुर्दिवसीयं तान्त्रिकविद्या प्रशिक्षणं पृथक् भविता।

केरलराज्ये जूण् मासपर्यन्तम् उष्णकालमनुवर्तिष्यते।

तिरुवनन्तपुरम्- जूण् मासावधि अत्युष्णात् केरलराज्यं तप्येत। समयेस्मिन् केरलस्य तापमानं दीर्घकालसामान्यादधिकं भविता इति वातावरणविभागस्य निगमनम्।

     आराष्ट्रं एप्रिल् तः जूण् परंयन्तं सामान्योष्णस्य वर्धनामधिकृत्य वातावरणविभागेन दीर्घकालनिगमनं प्रकाशितम्। एतदनुसृत्य केरलेषु अस्मिन् काले आपाततः अर्धं डिग्रीतः एकं डिग्रीपर्यन्तं तापवर्धनं भविता।

     आगामिनि काले केरलेषु प्रातःकाले अनुभूयमानः तापः सामान्यतो अर्धं डिग्री अधिकः स्यात्। राष्ट्रे उष्णतरङगमेघलासु अधिकतापः अनुभूयमानो भवेत् इत्यपि वातावरणविभागस्य सूचना।

पुल्वामायां चतुरः तीव्रवादिनः जघान, त्रयः सुरक्षाभटाः रुग्णाः जाता।

श्रीनगर् – जम्मु-काश्मीरे पुल्वामायां तीव्रवादिभिः सह संघट्टने चत्वारः तीव्रवादिनः हताः, सममेव त्रयः सुरक्षाभटाः निहताश्च। लष्कर् ई तोय्बे इत्याख्यस्य संघस्य प्रवर्तकाः एव मारिताः। पुल्वामायां तीव्रवादिभिः सह संघट्टनम् अनुवर्तते इत्यावेदनम्।

     रहस्य सूचनानुसारं सुरक्षाभटाः पुल्वामायां लास्सिप्पोरा स्थले मार्गणं कुर्वन्तः आसन्। तदन्तरे भीकराः गोलिकाप्रहारमकुर्वन्। तदनन्तरं सञ्जाते संघट्टने एव चतुर्णां भीकराणाम् अन्त्यमभवन्।