Daily Archives: April 26, 2019

एस्.एस्. एल्.सी. परीक्षाफलं मेय् प्रथमे वारे।

तिरुवनन्तपुरम्- मार्च् मासे प्रचलितायाः एस्.एस्.एल्.सी. परीक्षायाः मूल्यनिर्णयं समाप्तप्रायं भवति। फलप्रख्यापनं मेय् मासस्य अष्टमे नवमे व तिथौ भविता। सममेव उच्चतरपरीक्षायाः फलप्रख्यापनमपि स्यात्। इदं प्रायः मेय् नवमे तिथौ भविता। अस्याः परीक्षायाः मूल्यनिर्णयं एप्रिल् ३० दिनाङ्कावधि समाप्तिमेष्यति।

     परीक्षाप्रचालनं मूल्यनिर्णयं च दोषरहितया रीत्या सम्पन्नम्। फलप्रख्यापनमपि अनवद्यरूपेण भविष्यतीति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथलर्यः न्यगादीत्। अस्मिन् वर्षे प्रायः सार्धचतुर्लक्षं छात्राः परीक्षामलिखन्। निजीयरूपेण द्विसहस्रं छात्राः अपि परीक्षां लिखितवन्तः। प्लस् टु परीक्षार्थं सार्धत्रिलक्षं छात्राः पञ्जीकृतवन्तः आसन्।