Daily Archives: April 24, 2019

केरलेषु सम्मतिदानं ७७.६८ प्रतिशतम्, गतेषु त्रिषु शतकेषु उन्नतं मतदानमानम्।

तिरुवनन्तपुरम्- सप्तदशतमे लोकसभानिर्वाचने प्रचारणरंगे इव मतदानेपि अत्युत्साहमपश्यत्। राज्ये अत्युन्नतं मतदानमानं सूचितम्। ७७.६८ प्रतिशतं सम्मतिदायकाः स्वकीयं मतदानाधिकारं उपायुञ्जत। २०१४ तमे वर्षे ७४-०२ आसीत् मतदानमानम्।
प्रातः सप्तवादने एव मतदानमारब्धम्। अनवरतं अनुवर्तमाना मतदानप्रक्रिया केषुचित् स्थलेषु अर्धरात्रं यावत् व्याप्ता अभवत्। अत एव यथार्थं मतदानमानम् आगामिनि दिने एव व्यक्तं भवति।
अतिशक्ता त्रिकोणप्रतियोगिता यत्र यत्र संजाता तत्र तत्र मतदानमानं अधिकं सूचितम्। तिरुवनन्तपुरं पत्तनंतिट्टा तृशूर् कण्णूर् वयनाट् मण्डलेषु मतदानमानं क्रमाधिकं वर्धितमपश्यत्। कण्णूर् मण्डलं मतदानमाने अग्रिमस्थाने अस्ति। काण्ग्रेस् दलाध्यक्षस्य राहुल् गान्धिनः मत्सरेण विख्याते वयनाट् मण्डले ८०.९ शतमितं मतदानं सूचितम्। एतत् सार्वकालिकोन्नतं वर्तते।