Daily Archives: April 4, 2019

अध्यापकानां विरामकालप्रशिक्षणस्य स्थाने इतः परं प्रशिक्षणशिल्पशाला।

चेरुवत्तूर्- अध्यापकानां विरामकालप्रशिक्षणं समग्रतया परिवर्तयति। प्रशिक्षणस्य स्थाने शिल्पशालैव अस्मिन् वर्षे समायोज्यते। दिनचतुष्टयं अक्कादमिकप्रशिक्षणं तथा दिनचतुष्टयं सूचनातान्त्रिकविद्यां च परिचाययति।राज्यस्तरीय प्रशिक्षकसंघानां शिल्पशाला राज्ये विविधेषु केन्द्रेषु समारब्धा। अक्कादमिकप्रवर्तनानां प्रगतिः अनुस्यूतता इति विषये एव शिल्पशाला आयोजिता।

मलयालत्तिलक्कं, हलो इंग्लीष्, गणितविजयं, पठनोतंसवः, जैववैविद्योद्यानम् इत्येतानि गतवर्षे कथं पठनप्रवर्तनस्य सहायकानि आसन् तेषां अनुवर्तनं कथं भवेत् इत्यादीनि चर्चाविषयाणि भविष्यन्ति।प्राथमिकस्तरे मेय् तृतीयदिनाङ्कात् सप्तमदिनाङ्कं यावत् तथा अष्टमदिनाङ्कात् एकादशदिनाङ्कं यावत् घट्टद्वयेन शिल्पशाला भविता। एप्रिल् २५ तः २९ पर्यन्तं जिल्लास्तरीयप्रशिक्षकाणां शिल्पशाला भविता।

उच्चतरस्थले मेय् १३तः १६ पर्यन्तं तथा १७तः २१पर्यन्तं घट्टद्वयेन शिल्पशाला आयोजयिष्यति। कैट् संस्थायाः नेतृत्वे चतुर्दिवसीयं तान्त्रिकविद्या प्रशिक्षणं पृथक् भविता।