Monthly Archives: April 2019

फोनी चक्रवातः ओडीषा तीरं प्रस्थितः, अतितीव्रचक्रवातरूपेण परिणामः स्यात्।

तिरुवनन्तपुरम्- फोनी चक्रवातः ओडीषा तीरं प्रति वाति इति वातावरणविभागस्य विज्ञप्तिः। अतितीव्रचक्रवातरूपेण परिणमति चेदपि स्थलदेशं बाधते वा न वा इति अधुना न प्रवक्ति।
सोमवासरे सायं काले चेन्नै तीरात् ८१० की.मी. दूरे एव फोनी संस्थिता। मनाक् शर्तिक्षये अपि कुजवासरे पुनः तीव्रतां प्राप्स्यति इति वातावरणविभागः प्रवक्ति। वुधवासरे गतिपरिवर्तनेन ओडीषा तीरं प्राप्स्यति, गुरुवासरे तत्र अतितीव्ररूपेण स्थास्यति।

केरलेषु अस्य तीव्रता न स्यादिति सूचना। तथापि केषुचित् मण्डलेषु शक्तः वातः वृष्टिश्च भविष्यतीति जाग्रता निर्देशः अस्ति।

समग्रशिक्षा केरलम् अस्मिन् वर्षे १४०० कोटि रूप्यकाणां वार्षिकपरियोजना समार्पयत्।

तिरुवनन्तपुरम्- समग्रशिक्षा केरलम् इत्यभियानं आगामिनि अध्ययनवर्षे १४०० कोटि रूप्यकाणां वार्षिकपरियोजना समर्पयितुमे उद्यते। सर्वशिक्षा अभियान् तथा राष्ट्रिय माध्यमिक शिक्षा अभियान् च संयोज्य समग्रशिक्षा केरलम् इति नूतनम् अभियानं रूपवत्कृतमासीत्।

     पाठपुस्तकानि गणवस्त्राणि मध्याह्नभोजनं अध्यापकप्रशिक्षणं  शास्त्रविषयाणां समाजशास्त्रविषयाणां भाषाविषयाणां च अध्ययने विशेषश्रद्धादानाम् इत्येतेषां कृते एव धनविनियोगः स्यात्। गतवर्षे ७३९ कोटि रूप्यकाणि आर्.एं.एस्.ए तथा एस्.एस्. ए च व्ययीकुर्वाते स्म।

राष्ट्रं शान्तियुतं भवेत् – 04-05-2019

 

नूतना समस्या –

“राष्ट्रं शान्तियुतं भवेत्”

ഒന്നാംസ്ഥാനം

സ്നേഹവിശ്വാസ സംയുക്തം
ധനാസക്തി വിവർജിതം
വിദ്യാസംസ്ക്കാരസമ്പന്നം
രാഷ്ട്രംശാന്തിയുതംഭവേത്

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 04-05-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वेणीसंहारम्। (क) द्रौपदी  (ख) गान्धारी (ग) सीता
  2. ” दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ” कस्य वचनम् ? (क) अर्जुनस्य  (ख) भीमस्य (ग) कर्णस्य
  3. नागानन्दस्य कर्ता ——। (क) श्रीहर्षः (ख) विशाखदत्तः (ग) भवभूतिः
  4. किरातार्जुनीये किरातः कः? (क) नारदः (ख) शिवः (ग) अर्जुनः
  5. शिशुपालवधे कति सर्गाः सन्ति ? (क) १८  (ख) १९ (ग) २०
  6. अभिज्ञानशाकुन्तले अभिज्ञानं किम् ? (क) माला (ख) कङ्कणम्  (ग) अङ्गुलीयकम्
  7.  ———- उच्छिष्टं जगत्सर्वम् ।(क) बाणस्य (ख) भारवेः (ग) पाणिनेः
  8. नारिकेलफलसम्मितं वचः कस्य ? (क) भासस्य (ख) भारवेः (ग) व्यासस्य
  9. शिशुपालवधं केन सम्बद्धम् ? (क) महाभारतेन (ख) रामायणेन  (ग) शिवपुराणेन
  10. रूपकाणि —–। (क) अष्ट    (ख) नव  (ग) दश

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • ADIDEV C S
  • Ranjitha Karakkada
  • Aswin V S
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

एस्.एस्. एल्.सी. परीक्षाफलं मेय् प्रथमे वारे।

तिरुवनन्तपुरम्- मार्च् मासे प्रचलितायाः एस्.एस्.एल्.सी. परीक्षायाः मूल्यनिर्णयं समाप्तप्रायं भवति। फलप्रख्यापनं मेय् मासस्य अष्टमे नवमे व तिथौ भविता। सममेव उच्चतरपरीक्षायाः फलप्रख्यापनमपि स्यात्। इदं प्रायः मेय् नवमे तिथौ भविता। अस्याः परीक्षायाः मूल्यनिर्णयं एप्रिल् ३० दिनाङ्कावधि समाप्तिमेष्यति।

     परीक्षाप्रचालनं मूल्यनिर्णयं च दोषरहितया रीत्या सम्पन्नम्। फलप्रख्यापनमपि अनवद्यरूपेण भविष्यतीति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथलर्यः न्यगादीत्। अस्मिन् वर्षे प्रायः सार्धचतुर्लक्षं छात्राः परीक्षामलिखन्। निजीयरूपेण द्विसहस्रं छात्राः अपि परीक्षां लिखितवन्तः। प्लस् टु परीक्षार्थं सार्धत्रिलक्षं छात्राः पञ्जीकृतवन्तः आसन्।

केरलेषु सम्मतिदानं ७७.६८ प्रतिशतम्, गतेषु त्रिषु शतकेषु उन्नतं मतदानमानम्।

तिरुवनन्तपुरम्- सप्तदशतमे लोकसभानिर्वाचने प्रचारणरंगे इव मतदानेपि अत्युत्साहमपश्यत्। राज्ये अत्युन्नतं मतदानमानं सूचितम्। ७७.६८ प्रतिशतं सम्मतिदायकाः स्वकीयं मतदानाधिकारं उपायुञ्जत। २०१४ तमे वर्षे ७४-०२ आसीत् मतदानमानम्।
प्रातः सप्तवादने एव मतदानमारब्धम्। अनवरतं अनुवर्तमाना मतदानप्रक्रिया केषुचित् स्थलेषु अर्धरात्रं यावत् व्याप्ता अभवत्। अत एव यथार्थं मतदानमानम् आगामिनि दिने एव व्यक्तं भवति।
अतिशक्ता त्रिकोणप्रतियोगिता यत्र यत्र संजाता तत्र तत्र मतदानमानं अधिकं सूचितम्। तिरुवनन्तपुरं पत्तनंतिट्टा तृशूर् कण्णूर् वयनाट् मण्डलेषु मतदानमानं क्रमाधिकं वर्धितमपश्यत्। कण्णूर् मण्डलं मतदानमाने अग्रिमस्थाने अस्ति। काण्ग्रेस् दलाध्यक्षस्य राहुल् गान्धिनः मत्सरेण विख्याते वयनाट् मण्डले ८०.९ शतमितं मतदानं सूचितम्। एतत् सार्वकालिकोन्नतं वर्तते।

लोकसभानिर्वाचनम्,-केरलेषु श्वः मतदानम्, सशब्द-ससंघप्रचारणं समाप्तम्, अद्य निश्शब्दप्रचारणम्।

तिरुवनन्तपुरम्- एकमासावधिकं प्रचारणं समाप्य केरलीयाः श्वः मतदानकेन्द्रं प्रस्थास्यन्ते। श्वः प्रातः सप्तवादनादारभ्य सायं षड्वादनपर्यन्तं मतदानं भविष्यति। मेय् २३ दिनाङ्के एव फलप्रख्यापनं निश्चितम्। केरले २० लोकसभमण्डलेषु आहत्य २२७ स्थानाशिनः सन्ति।

     अद्य स्थानाशिनां निश्शब्दप्रचारणं भविष्यति। निर्वाचनकर्मणि नियुक्ताः कर्मकराः अद्य प्रात‌ः मतदानसामग्रीस्वीकरणार्थं तत्तत् वितरणकेन्द्रं प्राप्स्यन्ति। केन्द्रसेनाविभागः, केरलरक्षिदलं चाहत्य ६०००० सेनापुरुषाः सुरक्षायै नियुक्ताः। २६१००००० सम्मतिदायकाः सन्ति केरले। तेषां कृते २४९७० मतदानकेन्द्राणि सज्जीकृतानि।

सदा प्रियतमेव सा – 27-04-2019

 

नूतना समस्या –

“सदा प्रियतमेव सा”

ഒന്നാംസ്ഥാനം

പത്നീദ്വയം ഹി മർത്യസ്യ
ഭവത്യേകാ സ്വഗേഹിനീ
അന്യാ ച കവിതാദേവീ
സദാ പ്രിയതമേവ സാ

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

एन्.सी.ई.आर्.टी. उच्चतरविद्यालयीयपाठ्यपुस्तकानि प्रादेशिकभाषायामपि लभेरन्।

कोच्ची- आगामिनः अध्ययनवर्षादारभ्य शास्त्रविषयाण्यभिव्याप्य सर्वाणि उच्चतरस्तरीयपाठ्यपुस्तकानि मलयालं तमिल् कन्नटभाषास्वपि लब्धुं सर्वाणि क्रमीकरणानि कृतानि। एतेषां पुस्तकानां परिभाषा सम्पूर्णा अभवत्। ततः मुद्रणं कृत्वा छात्रेभ्यो दातुं शक्यते। पञ्चाशदधिकानि विषयाणि उच्चतरस्तरे अधुना पाठयन्ति।
नीट् इति योग्यतापरीक्षां प्रादेशिकभाषायामपि लेखितुं केन्द्रसर्वकारेण अनुमतिः दत्ता आसीत्। तदनुसारमेव केरले अपि पाठ्यपुस्तकानि भाषान्तरीकृत्य छात्रेभ्यो वितरन्ति। अधुना उच्चतरस्तरे आङ्गलभाषा एव पठनमाध्यमं भवति। मातृभाषा एव पठनमाध्यमं भवेत् इति शिक्षाविशारदामभिप्रायः बहुकालादारभ्य अत्र चर्चाविषयः भवति।

PRASNOTHARAM – 27-04-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. काव्यस्यात्मा ध्वनिः इति केनोक्तम् ? (क) आनन्दवर्धनेन  (ख) व्यासेन  (ग) बाणभट्टेन
  2. अभिनयप्रकाराः कति विधाः सन्ति ? (क) चतुर्विधाः (ख) त्रिविधाः (ग) सप्तविधाः
  3. ” मृदु भावे दृढ कृत्ये ” इति ध्येयवाक्यं कस्य विभागस्य ? (क) भारतशासनस्य (ख) केरला-आरक्षकसेनादलस्य (ग) भारतनौसेनायाः
  4.  “वनम् ” इत्यस्य समानपदम् ? (क) तटिनी (ख) तटाकम्  (ग) अटवी
  5. चम्पूरामायणस्य कर्ता कः ? (क) वात्मीकिः (ख) भोजराजः (ग) जयदेवः
  6. अधोदत्तेषु संस्कृतग्रामः इति प्रसिद्धः ग्रामः कः ? (क) मत्तूर्  (ख) काशी (ग) काञ्ची
  7. अधोदत्तेषु भूतकालसूचकः लकारः कः ? (क) लट् (ख) लृट् (ग) लङ्
  8. युनस्को संस्थया पुरस्कृतं केरलीयकलारूपम् किम् ? (क) कथाकेलिः (ख) कृष्णनाट्टम् (ग) कूटियाट्टम्
  9. लेखनी शब्दस्य द्वितीया बहुवचनरूपं  किम् ? (क) लेखन्यः (ख) लेखनीम् (ग) लेखनीः
  10. ” नलचरितम् ” आट्टकथायाः रचयिता भवति ? (क)  उण्णायिवारियर् (ख) कोट्टयत्त् तम्पुरान् (ग) रामपुरत्तु वारियर्

ശരിയുത്തരങ്ങള്‍

1.आनन्दवर्धनेन
2.चतुर्विधाः
3.केरला-आरक्षकसेनादलस्य
4.अटवी
5.भोजराजः
6.मत्तूर्
7.लङ्
8.कूटियाट्टम्
9.लेखनीः
10.उण्णायिवारियर्

ഈയാഴ്ചയിലെ വിജയി (9 ശരിയുത്തരം)

Janusha J

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Janusha J
  • Anjana M S
  • Dawn Jose
  • Adwaith C S
  • Athira K K
  • Beena Davis
  • Amrutha C J
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”