एन्.सी.ई.आर्.टी. उच्चतरविद्यालयीयपाठ्यपुस्तकानि प्रादेशिकभाषायामपि लभेरन्।

कोच्ची- आगामिनः अध्ययनवर्षादारभ्य शास्त्रविषयाण्यभिव्याप्य सर्वाणि उच्चतरस्तरीयपाठ्यपुस्तकानि मलयालं तमिल् कन्नटभाषास्वपि लब्धुं सर्वाणि क्रमीकरणानि कृतानि। एतेषां पुस्तकानां परिभाषा सम्पूर्णा अभवत्। ततः मुद्रणं कृत्वा छात्रेभ्यो दातुं शक्यते। पञ्चाशदधिकानि विषयाणि उच्चतरस्तरे अधुना पाठयन्ति।
नीट् इति योग्यतापरीक्षां प्रादेशिकभाषायामपि लेखितुं केन्द्रसर्वकारेण अनुमतिः दत्ता आसीत्। तदनुसारमेव केरले अपि पाठ्यपुस्तकानि भाषान्तरीकृत्य छात्रेभ्यो वितरन्ति। अधुना उच्चतरस्तरे आङ्गलभाषा एव पठनमाध्यमं भवति। मातृभाषा एव पठनमाध्यमं भवेत् इति शिक्षाविशारदामभिप्रायः बहुकालादारभ्य अत्र चर्चाविषयः भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *