Monthly Archives: October 2018

सर्वशक्तं धनं मतम् – 20-10-2018

 

नूतना समस्या –

“सर्वशक्तं धनं मतम्”

ഒന്നാംസ്ഥാനം

धनतीति धनं प्रोक्तं
सर्वचित्तप्रचोदकम्।
जीवने सुखदं वस्तु
सर्वशक्तं धनं मतम्।।

Vrinda Vadakkoott

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 20-10-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. अहं घटीम् ——-।(क) अपश्यत् (ख) अपश्यः (ग) अपश्यम्
  2. आवां पुस्तकम् ——-।(क) अपठत् (ख) अपठाव (ग) अपठाम
  3. वयं पत्रम् ———।(क) अलिखाम (ख) अलिखम् (ग) अलिखत्
  4. ते बालिके ———। (क) अगच्छत् (ख) अगच्छताम् (ग)अगच्छन्
  5. ताः महिलाः भोजनम् ———–। (क) अखादन् (ख) अखादाम (ग) अखादत
  6. ह्यः अहं विद्यालयं न ———।(क) अगच्छम् (ख)अगच्छाव (ग)अगच्छाम
  7. यूयं किं कार्यम् ———-। (क) अकुरुताम् (ख) अकुर्म (ग)अकुरुत
  8. त्वं कुत्र ——-?(क)अगच्छत् (ख) अगच्छः (ग) अगच्छम्
  9. युवां गीतम् ——–। (क) अगायत् (ख) अगायतम् (ग) अगायाम
  10. सः ह्यः चलचित्रम् ———-। (क) अपश्यम् (ख)अपश्याम (ग) अपश्यत्

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Dawn Jose
  • Adidev C S
  • Devananda S Sajith

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

शबरिमला- राजनैतिकदलानि मतं लक्ष्यीकृत्य जनान् पराबोधयति – न्या. केमाल् पाषा।

कोट्टयम्- शबरिमलामन्दिरे स्त्रीणां प्रवेशविषये सर्वोच्च-न्यायालयस्य विधिनिर्णयं विरुध्य वीथिषु प्रवर्तमानं कोलाहलं न्यायालयालक्ष्यमेवेति विरतः न्यायाधिपः केमाल् पाषावर्यः अवोचत्। राजनैतिकदलानि सत्यमाच्छाद्य केवलं मतमेव लक्ष्यीकृत्य जनान् कुमार्गं नयन्ति। न्ययालये स्वकीयान् वादान् प्रस्तौतुं सर्वेभ्यो अवकाशाः आसन्। तदकृत्वा इदानीं जनान् मूढान् कर्तुमेव तेषां परिश्रम इति स अवोचत्।

     विषयोयं न्यायालयस्य पुरतः नानेतव्यः आसीत्। तदर्थमेवासीत् तेषां प्रवर्तनम्। न्यायालयः नीतियुक्तं निर्णयमदात्। भक्ताः विश्वासिन्यश्च तत्र गन्तव्यं वा न वेति स्वयमेव निर्णयं कुर्वन्तु। समस्यामिमां वीथिमानीय एते स्वकीयां मूर्खतां प्रघोषयन्ति। अस्मिन् विषये पुनः शोधना आवेदनेन किमपि प्रयोजनं नास्तीत्यपि स न्यगादीत्।

राज्यस्तरीयं संस्कृतदिनाचरणं अस्मिन् मासे तृशूर् नगरे सम्पत्स्यते।

राज्यस्तरीयं संस्कृतदिनं ओक्टोबर् २९ दिनाङ्के तृशूर् संगीत नाटक अक्कादमी वेदिकायां आचर्यते। अस्य कार्यान्वयनाय स्वागतसंघस्य रूपवत्करणम् अद्य जातम्। अद्य तृशूर् सर्वकारीय आदर्श बालकोच्चतरविद्यालये आयोजिते संघाटकसमिति अधिवेशने एव निर्णयो जातः। तृशूर् मण्डलस्य शिक्षा उपनिदेशकस्य आध्यक्ष्ये आयोजिते अधिवेशने संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीती देवी वर्या उदघाटयत्। चावकिकाट् इरिङ्ङालक्कुटा विद्याभ्यासमण्डलयोः शिक्षाधिकारिणौ उपजिल्ला शिक्षाधिकारिणश्च सन्निहिताः आसन्। मिथु अनितकुमारी, संस्कृतकार्यनिर्वहणसमितेः अङ्गं बिजु डी च आशंसां समार्पयताम्। संस्कृतसमितेः राज्य-कार्यदर्शी सुनिल् कुमार् स्वागतम् व्याहरत्। जिल्ला कार्यदर्शी इन्दु कृतज्ञतां च व्याजहार।
पण्डितसमादरणं मत्सरविजयिभ्यः पुरस्कारदानं संस्कृतं ह्रस्वचलचित्राणां कृते पुरस्कारसमर्पणम् इत्यादिकं कार्यक्रमस्य भागत्वेन आयोजयिष्यते।

शबरिमला विवादः- केरलेषु वर्गीयध्रुवीकरणार्थं राष्ट्रिय स्वयंसेवक संघस्य उद्यमः – स्वामी अग्निवेश्।

कोच्ची- शबरिमला विषये केरलेषु वर्गीयध्रुवीकरणार्थं रा.स्व.से. संघः परिश्रमं करोति इति स्वामी अग्निवेश् वर्यः। अयमुद्यमः केरलं परित्यक्ष्यति। सर्वोच्चन्यायालयस्य विधि निर्णयः ऐतिहासिक एव। तं प्रावर्तिकं कर्तुं सर्वकारस्य उद्यमः अभिनन्दनीयः। विषये/स्मिन् काण्ग्रेस् दलस्य अभिप्रायं पुनश्चिन्तितुं राहुल् गान्धीवर्यस्य परिश्रमः आवश्यक इत्यपि स्वामी अवदत्।

     कश्चन नैष्ठिकब्रह्मचारी अय्यप्पः स्वदर्शनार्थम् आगन्तुकान् सर्वानपि स्वीकरिष्यति। स्वभक्तानां वयो-जाति-लिङ्गादिकं देवः न परिगणयति इत्यपि स्वामी अवोचत्।

केरलीयस्त्रियः किमर्थं प्रतिषेधं कुर्वन्ति। न्यायालयनिर्णयमतिक्रान्तुं नियमनिर्माणस्य आवश्यकता नास्ति- राष्ट्रिय वनितायोगस्य अध्यक्षा।

दिल्ली- शबरिमला विधिनिर्णयमतिक्रान्तुं नियमनिर्माणस्य आवश्यकता नास्तीति राष्ट्रिय वनितायोगस्य अध्यक्षा रेखा शर्मा अवदत्। स्त्रीणां स्वातन्त्र्यहन्तारः नियमाः स्थायित्वं न प्राप्यन्ते इत्यपि सा उक्तवती।
विधिं विरुध्य स्त्रियः किमर्थं चत्वरेषु समरं कुर्वन्तीति नावगम्यते। ये इच्छन्ति ते एव तत्र गन्तुं पारयन्ति। न काः अपि अवश्यं तत्र प्रेषयन्ति। पुनः गन्तुमुद्यतानां प्रति प्रतिषेधः किमर्थम्। तत् तेषामधिकार एवेति रेखा शर्मा न्यगादीत्।

भीलाय् अयोयन्त्रागारे स्फोटनं, षट्जनाः मृताः १४ आहताः।

राय्पूर्- भारतीय अयो अधिष्ठानस्य भीलाय् यन्त्रागारे संजाते स्फोटने षट्जनाः मृताः १४ आहताः। आहताः चिकित्सालये प्रवेशिताः। कुजवासरे प्रातः १०.३० वादने चण्डीगडस्थे भीलाय् यन्त्रागारे एव स्फोटनमभवत्।

यन्त्रागारस्था वातकनालिकविस्फोटनेनैव स्फोटनं संजातम्। तस्य कारणम् इतःपरं नावगतम्। रक्षिदलस्य अग्निसेना विभागस्य ट नेतृत्वे रक्षाप्रवर्तनानी अनुवर्तन्ते।

युनेस्को विश्वपैतृकपट्टिकायां त्रीणि केन्द्राण्यपि।

न्यूयोर्क- केनियास्थं ड्रैस्टोण् ओमान् राष्ट्रस्थं पुरातननगरं, सौदी अरेभ्यास्थः मरुशाद्वलश्च विश्वपैतृकपट्टिकायां स्थानमलभन्। बह्रैन् राष्ट्रे सम्पन्ने ४२तमे विश्वपैतृक-समित्यधिवेशने एवेदं प्रख्यापनमभवत्।

     केनियायाः मिगोट्टी नगरस्य उत्तरपश्चिमदिशि स्थितं तिमिलिच् ओहिङ्गा इत्यभिधं शिलास्तूपं षोडशशतकस्य सृष्टिः भवति। ११-१५ शतकयोः मध्ये सजीवं स्थितानि ओमान्  पुरातन नौकास्थानपत्तनसमीपस्थानि अवशिष्टानि।

     पूर्व अरेभ्या उपद्वीपस्था मनोहरा सृष्टिर्भवति सौदी अल् अहस् मरुशाद्वलः। नदैः उद्यानैः कूपैः इतिहासप्रासादैः च आकर्षकं भवति अल् अहस्।

चक्रवातसहितः न्यूनमर्दः पश्चिमं प्रति, लक्षद्वीपे केरलप्रान्ते च वृष्टिः।

पत्तनंतिट्टा- महती वृष्टिर्भविष्यतीति जाग्रतानिर्देशे अपि रविवासरे मध्याह्नपर्यन्तं केरलेषु तादृशी वृष्टिः न जाता। परं मध्याह्नादूर्ध्वं सौदामिनीसहिता वृष्टिः केरलेषु प्रायः सर्वेषु प्रान्तेषु जाता। पूर्वाम्बरः मेघावृतो जातः। पश्चिमाम्बरस्तु शुभ्रमेघैराच्छन्नः दृश्यते।

केरलं तमिल्नाटु लक्षद्वीपः इत्येतेभ्यो राज्येभ्यो पर्यावरणविभागस्य सूक्ष्मनिर्देशो दत्तः। चक्रवातस्य रूपवत्करणम् अभिलक्ष्य राज्यानां मुख्यसचिवेभ्यो भरणनियन्त्रकाय च जाग्रता निर्देशो दत्तः। अयं निर्देशः त्वरितप्रेषकद्वारैव दत्तः। सागरद्वये अपि घनीभूतस्य मेघस्य संस्थितौ एव अतीव जाग्रता सूचना दत्ता।

नारीणां गतिरीदृशी – 13-10-2018

 

नूतना समस्या –

“नारीणां गतिरीदृशी”

ഒന്നാംസ്ഥാനം

पुरा महानसे बद्धाः
विद्यया या विमोचिताःI
ताभिर्देवार्चना नेति
नारीणां गतिरीदृशी ॥

V Madhavan Pillai

“അഭിനന്ദനങ്ങള്‍”