भीलाय् अयोयन्त्रागारे स्फोटनं, षट्जनाः मृताः १४ आहताः।
राय्पूर्- भारतीय अयो अधिष्ठानस्य भीलाय् यन्त्रागारे संजाते स्फोटने षट्जनाः मृताः १४ आहताः। आहताः चिकित्सालये प्रवेशिताः। कुजवासरे प्रातः १०.३० वादने चण्डीगडस्थे भीलाय् यन्त्रागारे एव स्फोटनमभवत्।
यन्त्रागारस्था वातकनालिकविस्फोटनेनैव स्फोटनं संजातम्। तस्य कारणम् इतःपरं नावगतम्। रक्षिदलस्य अग्निसेना विभागस्य ट नेतृत्वे रक्षाप्रवर्तनानी अनुवर्तन्ते।













Leave a Reply