शबरिमला- राजनैतिकदलानि मतं लक्ष्यीकृत्य जनान् पराबोधयति – न्या. केमाल् पाषा।

कोट्टयम्- शबरिमलामन्दिरे स्त्रीणां प्रवेशविषये सर्वोच्च-न्यायालयस्य विधिनिर्णयं विरुध्य वीथिषु प्रवर्तमानं कोलाहलं न्यायालयालक्ष्यमेवेति विरतः न्यायाधिपः केमाल् पाषावर्यः अवोचत्। राजनैतिकदलानि सत्यमाच्छाद्य केवलं मतमेव लक्ष्यीकृत्य जनान् कुमार्गं नयन्ति। न्ययालये स्वकीयान् वादान् प्रस्तौतुं सर्वेभ्यो अवकाशाः आसन्। तदकृत्वा इदानीं जनान् मूढान् कर्तुमेव तेषां परिश्रम इति स अवोचत्।

     विषयोयं न्यायालयस्य पुरतः नानेतव्यः आसीत्। तदर्थमेवासीत् तेषां प्रवर्तनम्। न्यायालयः नीतियुक्तं निर्णयमदात्। भक्ताः विश्वासिन्यश्च तत्र गन्तव्यं वा न वेति स्वयमेव निर्णयं कुर्वन्तु। समस्यामिमां वीथिमानीय एते स्वकीयां मूर्खतां प्रघोषयन्ति। अस्मिन् विषये पुनः शोधना आवेदनेन किमपि प्रयोजनं नास्तीत्यपि स न्यगादीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *