सर्वशक्तं धनं मतम् – 20-10-2018

 

नूतना समस्या –

“सर्वशक्तं धनं मतम्”

ഒന്നാംസ്ഥാനം

धनतीति धनं प्रोक्तं
सर्वचित्तप्रचोदकम्।
जीवने सुखदं वस्तु
सर्वशक्तं धनं मतम्।।

Vrinda Vadakkoott

“അഭിനന്ദനങ്ങള്‍”

12 Responses to सर्वशक्तं धनं मतम् – 20-10-2018

  1. Muralidhara sharma.a says:

    सर्वे वदन्ति धर्मज्ञाः
    ज्ञानमेव परं धनम्।
    केचिद् कापुरुषेणैव
    सर्वशक्तं धनं मतम्।।

  2. Muralidhara sharma.a says:

    രണ്ടാം സ്ഥാനം

    धर्मं सम्पद्यते येन
    कामश्चापि प्रपूर्यते।
    त्रिवर्गसाधनं ह्येतद्
    सर्वशक्तं धनं मतम्।।

  3. Dileep Madathiparambil says:

    मानवाः धनमिच्छन्ति
    तथा देवालयाधिपाः।
    धनञ्च ईश्वरेच्छा हि
    सर्वशक्तं धनं मतम्।।

  4. प्रसीदा आट्टुपुरम्। says:

    धनशक्तिः मनश्शक्तिः
    जीवितं नय सुन्दरम्।
    धनं च मन्यते तीव्रं
    सर्वशक्तं धनं मतम्।।

  5. सुरेष् बाबू says:

    आचारो बलवान् प्रोक्तः
    विश्वासस्तु महत्तरः।
    ततोfपि च धनं शक्तं
    सर्वशक्तं धनं मतम्।।

  6. Vijith Sivadasan says:

    धनवान् विन्दते सौख्यं
    मित्रसङ्घं च सर्वदा।
    जीवितं धनबद्धं तत्
    सर्वशक्तं धनं मतम्।।

  7. मधु विनयन् says:

    മൂന്നാംസ്ഥാനം

    कं वन्दे सर्वसौख्याय
    किमिच्छन्ति च मानवाः।
    नेतारस्तुकीमीहन्ते
    सर्वशक्तं धनं मतम्।।

  8. वृन्दा वटक्कूट्ट् says:

    धनात् दानसंप्राप्ति-
    र्दानात्तु जायते सुखम्।
    सर्वे तु सुखमिच्छन्ति
    सर्वशक्तं धनं मतम्।।

  9. वृन्दा वटक्कूट्ट् says:

    ഒന്നാംസ്ഥാനം

    धनतीति धनं प्रोक्तं
    सर्वचित्तप्रचोदकम्।
    जीवने सुखदं वस्तु
    सर्वशक्तं धनं मतम्।।

  10. हरिदास् धनञ्जयन् says:

    कामिनी च धनं चैव
    कलहस्यात्र कारणम्।
    केन मूढेन संप्रोक्तं
    सर्वशक्तं धनं मतम्।।

  11. विजयन् वि. पट्टाम्बि says:

    धनं हि सर्वद्रव्येष्व-
    नुत्तममिति श्रूयते।
    अत एवोच्यते सद्भिः
    सर्वशक्तं धनं मतम्।।

  12. Adithyakrishna Anoop says:

    तस्कराः गणिकाश्चैव
    किमिच्छन्ति तद्वद।
    नात्र संशयो मा भूः
    सर्वशक्तं धनं मतम्।।

Leave a Reply

Your email address will not be published. Required fields are marked *