Daily Archives: April 14, 2020

भारते पूर्णपिधानं मेय् ३ दिनाङ्कपर्यन्तं आयामितम्। कोविड् १९ प्रतिरोधे भारतस्य विजयः।

नवदिल्ली > कोविड् १९ रोगस्य पूर्णनिर्माजनं उद्दिश्य सम्पूर्णं पिधानं मेय् ३ दिनाङ्कपर्यन्तम् आयामितमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रतिपादितम्। गतदिने राज्यमुख्यमन्त्रिभिः साकम् अधिजालम् आयोजिते संवेशने स्वीकृतं निर्णयमनुसृत्यैव प्रधानमन्त्रिणः प्रख्यापनम्। सम्पूर्णपिधानस्य प्रथमसोपानम् अद्य अवसीयमानम् असीत्। तदनुसारं राष्ट्रम् अभिसम्बोधयन् भाषमाणः आसीत् प्रधानमन्त्री।

     कोरोणाविषाणुप्रतिरोधे युद्धमुखे इव स्वकर्तव्यम् अनुतिष्ठवतः सर्वान् प्रधानमन्त्री अभ्यवादयत्। किन्तु आगामिसप्ताहः अतीवनिर्णायकः इति प्रधानमन्त्रिणा सूचितम्।

     तीव्रबाधितमण्डलेषु कर्कशं नियन्त्रणमावश्यकम् । कतिपयेषु अवश्यसेवनमण्डलेषु एप्रिल् २० दिनाङ्कात् केचन आश्वासप्रक्रमाः भविष्यन्तीति सूचना अस्ति। तदर्थं मानदण्डनिर्देशः श्वः सूचयिष्यति। कोविड् प्रतिरोधाय प्रधानमन्त्री सप्तांशु निर्देशान् अदात्।