Daily Archives: April 12, 2020

पूर्णपिधानकाले कृषकाणां समाश्वासाय कृषि उडान् पद्धतिः।

नदिल्ली- पिधानकाले कृषकाणां समाश्वासाय कृषि उडान् पद्धतिद्वारा विमानसेवा आयोज्यते। भारते उत्पादितानि फलानि शाकानि च एयर् इन्ड्या विमानद्वारा यूरोप् राष्ट्रं प्रापयिष्यति। कृषकाणां साहाय्यार्थमेव इयं व्यवस्था एयर् इन्ड्या संस्थया स्वीकृता। लण्टन्, शर्मणीराष्ट्रस्थं फ्राङ्क्फर्ट्  इत्यादीन् देशान् प्रति एव फलैः शाकादिभिश्च साकं विमानानी उड्डयन्ति।

     एप्रिल् १४ तिथौ लण्डन् प्रति १५ तिथौ फ्राङ्कफर्ट् प्रति च विमानसेवा। प्रत्यागमनसमये वैद्यकीयवस्तूनि ततः आनीयन्ते। राष्ट्रे कार्षिकोत्पन्नानि विदेशराष्ट्राणि नेतुं केन्द्रसर्वकारैः आविष्कृता पद्धतिः भवति उडान्।