Daily Archives: April 20, 2020

द्विलक्षं प्रवासिभारतीयान् सम्पर्कनिरोधे वासयितुं सौविध्यं करिष्यति – मुख्यमन्त्री।

तिरुवनन्तपुरम्- विदेशात् प्रवासिनः प्रत्यानेतुं साहचर्यमस्ति चेत् द्विलक्षं जनान् सम्पर्कनिरोधे वासयितुं व्यवस्था कृता इति मुख्यमन्त्री पिणरायि विजयन् वर्यः। इतोप्यधिरमस्ति चेदपि तान् स्वीकर्तुं तथा सुरक्षितरूपेण वासयितुं पद्धतिः सज्जा भवति इत्यपि वार्ताहरमेलने स अवदत्।

केन्द्रसर्वकारः पृथक् विमानं आयोजयति चेत् स्थविराः, अन्तर्वत्न्यः, कोविडितररोगेभ्यः चिकित्सामिच्छन्तः इत्येतान् प्रथमं प्रत्यानेतुं यतते। प्रवासिनाम् आगमने तान् सम्पर्कनिरोधं कृत्वा अन्ते स्वगृहं प्रापयितुमपि राज्यसर्वकारः सज्जः भवति। प्रवासिसंघटनानां साहाय्यम् अस्मिन् विषये भविष्यति इत्यपि मुख्यमन्त्री अवदत्।