Daily Archives: April 16, 2020

कोविड्-१९ रोगः न्यूनतया व्यापृतेषु पञ्चसु मण्डलेषु साधारणजीवनं भागिकतया अनुमिनोति।

तिरुवनन्तपुरम्- कोविड्-१९ रोगस्य व्यापनं न्यूनतया अनुभूतानि आलप्पुषा, तिपुवनन्तपुरम्, पालक्काट्, तृशूर्, वयनाट् मण्डलानि तृतीयमेखलारूपेण परिगणय्य तत्र साधारणजीवनं भागिकतया पुनःस्थापनमेव सर्वकारस्य लक्ष्यमिति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्।

अधुना आलप्पुषजिल्लायां त्रयः, तिरुवनन्तपुरे द्वौ, पालक्काट् त्रयः तृशूर् एकः वयनाट् च एकः इति क्रमेण जनाः कोविड् बाधिताः सन्ति। केन्द्रसर्वकारेण दीप्तबिन्दुतया आङ्कितं तिरुवनन्तपुरं मण्डलमपि अस्मिन्नन्तर्भवति। तिरुवनन्तपुरं मण्डलं तृतीयगणे परिगणयितुम् आवेदनं प्रेषितमिति मुख्यमन्त्री अवदत्।

यद्यपि साधारणजीवितम् अनुमिनोति तथापि नियन्त्रणानि सर्वाणि एतेषां मण्जलानामपि बाधकानि भवेयुः। चलचित्रशालाः आराधनालयाश्च पिहिताः एव स्युः।